________________
10
भाष्यगाथाः ५६५५-६४] चतुर्थ उद्देशः ।
१४९७ णिभये गारत्थीणं, तु मग्गतो चोलपट्टमुस्सारे । [ओ.नि.३५]
सभए अत्थग्घे वा, उत्तिण्णेसुं घणं पढें ॥ ५६६०॥ यदि स साधुZहिसार्थसहायस्तत उदकसमीपं गत्वो कायं मुखवस्त्रिकयाऽधःकार्य रजोहरणेन प्रमाज्योंपकरणमेकतः कृत्वा यदि निर्भयं-चौरभयं नास्ति ततो गृहस्थानां 'मार्गतः' सर्वपश्चादुदकमवतरति । यथा यथा चोण्डमुण्डतरं जलमवगाहते तथा तथोपर्युपरि चोलपट्टकमु- 5 त्सारयेद् येन न तीम्यते । अथ तत्र सभयम् अस्ताचं वा जलं ततो यदा कियन्तोऽपि गृहस्था अग्रतोऽवतीर्णास्तदा मध्ये साधुनाऽवतरणीयम् चोलपट्टकं च 'घन' दृढं बनीयात् ॥ ५६६०॥ एतेन विधिनोत्तीर्णस्य यदि चोलपट्टकोऽन्यद्वा किञ्चिदुपकरणजातं तीमितं तदाऽयं विधिः
दगतीरे ता चिट्टे, णिप्पगलो जाव चोलपट्टो तु । [ओ.नि.३६]
सभए पलंबमाणं, गच्छति काएण अफुसंतो ॥ ५६६१॥ 'दकतीरे' स्निग्धपृथिव्यामप्कायरक्षणार्थं तावत् तिष्ठेत् यावत् चोलपट्टकोऽन्यद्वोपकरणं निष्प्र. गलं भवति । अथ तत्र तिष्ठतः सभयं ततः प्रगलन्तमेव तं चोलपट्टकं कायेनास्पृशन् बाहायां प्रलम्बमानं नयन् गच्छति ॥ ५६६१॥ यत्र सार्थविरहित एकाकी समुत्तरति तत्रायं विधिः
असइ गिहि णालियाए, आणक्खेउं पुणो वि पडियरणं । [ओ.नि.३७]
एगाभोगं च करे, उवकरणं लेव उवरि वा ॥ ५६६२ ॥ 16 गृहिणामभावे सर्वोपकरणमवतरणतीरे मुक्त्वा नालिकां-आत्मप्रमाणात् चतुरङ्गुलातिरिक्तां यष्टिं गृहीत्वा तया "आणक्खेउ" अस्ताघतामनुमीय परतीरात् पुनरपि जले प्रतिचरणं करोति, प्रत्यागच्छतीत्यर्थः; आगत्य च तदुपकरणमेकाभोगं करोति, एकत्र नियन्त्रयतीत्यर्थः; ततस्तद् गृहीत्वा तेन परीक्षितजलपथेनोतरति । एष लेपे लेपोपरी वा विधिरुक्तः ॥ ५६६२ ॥ अथ नावं यैः कारणैरारोहेत् तानि दर्शयति
20 विइयपय तेण सावय, मिक्खे वा कारणे व आगाढे ।
कन्जुवहि मगर छुमण, नावोदग तं पि जतणाए ॥ ५६६३ ॥ द्वितीयपदमत्रोच्यते-स्थल-सङ्घट्टादिपथेषु शरीरोपधिस्तेनाः सिंहादयो वा श्वापदा भवेयुः, भैक्षं वा न लभ्यते, आगाढं वा कारणम्-अहिदष्ट-विक्-विसूचिकादिकं भवेत् तत्र त्वरितमौषधान्यानेतव्यानि, कुलादिकार्य वा अक्षेपेण करणीयमुपस्थितम् , उपधेरुत्पादनार्थ वा गन्तव्यम्, 25 लेपे लेपोपरौ वा मकरभयं ततो नावमारोहेत् । तत्र च प्रथममेवोपकरणमेकाभोगं कुर्यात् । कुतः ? इत्याह-"छुब्भण" ति कदाचित् प्रत्यनीकेन उदके प्रक्षिप्येत, तत एकाभोगकृतेषु भाजनेषु विलमस्तरतीति । "नावोदग तं पि जयणाए" ति यदि बलाभियोगेन नावुदकस्योत्सेचापनं कार्यते तदा तदपि यतनया कर्तव्यम् ॥ ५६६३ ॥ कथं पुनरेकाभोगमुपकरणं करोति ? इत्याह
30 पुरतो दुरुहणमेगतों, पडिलेहा पुव्य पच्छ समगं वा ।
सीसे मग्गों मज्झे, वितियं उवकरण जयणाए ॥५६६४॥ गृहिणां पुरत उपकरणं न प्रत्युपेक्षते, न वा एकाभोगं करोति । "दुरुहण" ति नावमारो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org