________________
१४९८
सनिर्युक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रयप्रकृते सूत्रम् ३४-३७
"
ढुकामेन एकान्तमपक्रम्योपकरणं प्रत्युपेक्षणीयम् । “पडिलेह" त्ति ततोऽधःकायं रजोहरणेन उपरिकायं मुखानन्तकेन प्रमृज्य भाजनान्येकत्र बध्नाति तेषामुपरिष्टादुपधिं सुनियन्त्रितं करोति । "पुत्र पच्छ समगं व" त्ति किं गृहिभ्यः पूर्वमारोढव्यम् ? उत पश्चात् ? उताहो समकम् ? अत्रत्तरम् - यदि भद्रका नाविकादयो यदि च स्थिरा नौर्न दोलायते ततः पूर्वमारोढव्यम् ; 5 अथ प्रान्ताः ततः पूर्वं नारुह्यते, मा 'अमङ्गलम्' इति कृत्वा प्रद्वेषं गमन् तेषां प्रान्तानां भावं ज्ञात्वा समकं पश्चाद्वा आरोहणीयम् । "सीसे" त्ति नावः शिरसि न स्थातव्यम्, देवतास्थानं तदिति कृत्वा ; मार्गतोऽपि न स्थातव्यम्, निर्यामकस्तत्र तिष्ठतीति कृत्वा ; मध्येsपि यत्र - कूपकस्थानं तत्र न स्थातव्यम्, तद् मुक्त्वा यद् अपरं मध्ये स्थानं तत्र स्थेयम् । अथ मध्ये नास्ति स्थानं ततः शिरसि पृष्ठतो वा यत्र ते स्थापयन्ति तत्र निराबाधे स्थीयते । साकारं भक्तं 10 प्रत्याख्याय नमस्कारपरस्तिष्ठति । उत्तरन्नपि न पूर्वमुत्तरति न वा पश्चात् किन्तु मध्ये उत्तरति । सारोपधिश्च पूर्वमेवाल्पसागारिकः क्रियते, यद् अन्तप्रान्तं चीवरं तत् प्रावृणोति । यदि च तरपण्यं नाविको मार्गयति तदा धर्मकथाऽनुशिष्टिश्च क्रियते । अथ न मुञ्चति ततो द्वितीयपदे यद् अन्तप्रान्तमुपकरणं तद् यतनया दातव्यम् । अथ तद् नेच्छति निरुणद्धि वा ततोऽनुकम्पया यदि अन्यो ददाति तदा न वारणीयः ॥ ५६६४ ॥
॥ महानदीप्रकृतं समाप्तम् ॥
उपाधिकृत म्
सेवा तणपुंजे वा पलालेसु वा पलालपुंजेसु वा अपंडेसु अप्पपाणेसु अप्पबीएसु अप्पहरिपसु अप्पुस्से अप्पुत्तिंग पणग-द्गमट्टिय-मक्कड - गसंताणएस अहे सवणमायाए नो कप्पड़ निग्गंथाण वा निग्गंधीण वा तहप्पगारे उवस्सए हेमंतगिम्हासु वत्थए ३४ ॥
से तणेसु वा जाव संताणएसु उप्पिसवणमायाए atus निग्गंथाण वा निग्गंथीण वा तहप्पगारे उवस्सए हेमंत - गिम्हासु वत्थए ३५ ॥ सेतणेसु वा जाव संताणएसु अहेरयणीमुक्कमउडेसु नो कप्पइ निग्गंथाण वा निग्गंधीण वा तहपगारे उवस्सए वासावासं वत्थए ३६ ॥
For Private & Personal Use Only
15
25
सूत्रम् -
Jain Education International
www.jainelibrary.org