________________
भाष्यगाथाः ५६६५-६६ ] चतुर्थ उद्देशः ।
सेतसु वा जाव संताणएसु उप्पिरयणीमुक्कमउडे कप्पs निग्गंथाण य निग्गंथीण य तहप्पगारे उवस्सए वासावासं वत्थए ३७ ॥
अस्य सूत्रचतुष्टयस्य सम्बन्धमाह -
अद्धाणात निलयं, उर्विति तहियं तु दो इमे सुत्ता | तत्थ वि उडुम्मि पढमं, उडुम्मि दूइजणा जेणं ।। ५६६५ ।। पूर्वसूत्रे 'अध्वा' जलपथलक्षणः प्रकृतस्तत उत्तीर्णाः 'निलयम् ' उपाश्रयमुपागच्छन्ति । तद्विषये च ऋतुबद्ध-वर्षावासयोः प्रत्येकमिमे द्वे सूत्रे आरभ्येते । तत्रापि प्रथमं सूत्रद्वयमृतुबद्धविषयं द्वितीयं वर्षावासविषयम् । कुतः ? इत्याह - ऋतुबद्धे येन कारणेन " दूइज्जणा" विहारो भवति न वर्षावासे, पूर्वसूत्रे च विहारोऽधिकृतः, अतः सम्बन्धानुलोम्येन पूर्वमृतुबद्ध- 10 सूत्रद्वयं ततो वर्षावास सूत्रद्वयमिति ॥ ५६६५ ॥
अहवा अद्धाणविही, वृत्तो वसही विहिं इमं भणई ।
सावी पुव्वं बुत्ता, इह उ पमाणं दुविह काले ।। ५६६६ ॥
अथवाऽध्वनि विधिः पूर्वसूत्रे उक्तः, इमं तु प्रस्तुतसूत्रे वसतिविधिं भणति । साऽपि च वसतिः 'पूर्वं' प्रथमोद्देशकादिष्वनेकशः प्रोक्ता, इह तु 'द्विविधेऽपि' ऋतुबद्ध-वर्षावासलक्षणे 15 काले तस्याः प्रमाणमुच्यते ॥ ५६६६ ॥
१४९९
Jain Education International
अनेन सम्बन्धेनायातस्यास्य व्याख्या - अथ तृणेषु वा तृणपुत्रेषु वा पलालेषु वा पलालपुञ्जेषु वा अल्पाण्डेषु अल्पप्राणेषु अल्पबीजेषु अल्पहरितेषु अल्पावश्यायेषु अल्पोचिङ्ग-पनकदकमृत्तिका मर्कटसन्तानकेषु । इह अण्डकानि पिपीलिकादीनाम्, प्राणाः- द्वीन्द्रियादयः, बीजम्-अनङ्कुरितम्, तदेवाङ्कुरितोद्भिन्नं हरितम्, अवश्यायः - स्नेहः, उत्तिङ्गः - कीटिकानगरम्, 20 पनकः - पञ्चवर्णः साङ्कुरोऽनङ्कुरो वाऽनन्तवनस्पतिविशेषः, दकमृत्तिका – सचित्तो मिश्रो वा कर्दमः, मर्कटकः–कोलिकस्तस्य सन्तानकं - जालकम् । अल्पशब्दश्चेह सर्वत्राभाववचनः, ततोऽण्डरहितेषु प्राणरहितेषु इत्यादि मन्तव्यम् । "अहे सवणमायाए" ति 'अधः श्रवणमात्रया ' श्रवणयोरधस्ताद् यत्र छादनतृणादीनि भवन्ति तथाप्रकारे उपाश्रये नो कल्पते निर्मन्थानां वा निर्ग्रन्थीनां वा हेमन्त - ग्रीष्मेषु वस्तुम्, अष्टावृतुबद्धमासानित्यर्थः ॥
एवं प्रतिषेधसूत्रमभिधाय प्रपञ्चितज्ञविनेयानुग्रहार्थं विधिसूत्रमाह
5
For Private & Personal Use Only
अथ तृणेषु वा यावदल्प ० सन्तानकेषु उपरिश्रवणमात्रया युक्तेषु तथाविधोपाश्रये कल्पते हेमन्त -ग्रीष्मेषु वस्तुम् ॥ एवमृतुबद्धसूत्रद्वयं व्याख्यातम् । अथ वर्षावास सूत्रद्वयं व्याख्यायते - अथ तृणेषु वा तृणपुत्रेषु वा यावदल्प ० सन्तानकेषु " अवेरयणीमुक्कमउडेसु" चि अञ्जलिमुकुलितं बाहुद्वयमुच्छ्रितं मुकुट उच्यते स च हस्तद्वयप्रमाणः । यदाह बृहद्भाष्यकृत् – 30 उडो पुण दो रयणी, पमाणतो होइ हू मुणेयव्वो ।
रत्निभ्यां-हस्ताभ्यां मुक्ताभ्यां - उच्छ्रिताभ्यां यो निर्मितो मुकुटः स रलिमुक्तमुकुटः । एता
25
www.jainelibrary.org