________________
१५०० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उपाश्रय० प्रकृते सूत्रम् ३४-३७ वत्प्रमाणमधस्तादुपरि च यत्रान्तरालं न प्राप्यते तेष्वधोरनिमुक्तमुकुटेषु तृणादिषु न कल्पते वर्षावासे वस्तुम् ॥
अथ तृणेषु वा यावदल्प० सन्तानकेषु उपरिरनिमुक्तमुकुटेषु यथोक्तप्रमाणेषु मुकुटोपरिवर्तिषु संस्तारके निविष्टस्य साधोरर्धतृतीयहस्ताद्यपान्तरालयुक्तेष्वित्यर्थः । ईदृश्यां वसतौ कल्पते 5 वर्षावासे वस्तुमिति सूत्रचतुष्टयार्थः ।। अथ भाष्यकारः प्रथमसूत्रं विवरीषुराह--
- तणगहणाऽऽरण्णतणा, सामगमादी उ सूइया सव्वे ।
सालीमाति पलाला, पुंजा पुण मंडवेसु कता ।। ५६६७॥ तृणग्रहणाद् आरण्यकानि श्यामाकादीनि सर्वाण्यपि तृणानि सृचितानि । पलालग्रहणेन शाल्यादीनि पलालानि गृहीतानि । पुञ्जाः पुनस्तृणानां पलालानां वा उपरिमण्डपेषु कृता 10 भवन्ति । येषु हि देशेषु खल्पानि तृणानि तेषु पुञ्जरूपतया तानि मण्डपेषु सङ्गृह्यन्ते, अधस्ता. द्भूमौ स्थापितानि मा विनश्येयुरिति कृत्वा ॥ ५६६७ ॥
पुंजा उ जहिं देसे, अप्पप्पाणा य होंति एमादी।
अप्प तिग पंच सत्त य, एतेण ण बच्चती सुत्तं ॥ ५६६८ ॥ एवं यत्र देशे मण्डपेषु पुञ्जाः कृता भवन्ति तत्र विवक्षितायां वसतौ ते पुञ्जा अल्पप्राणा 15 अल्पबीजा एवमादिविशेषणयुक्ता भवेयुः, अत्र कस्याप्येवं बुद्धिः स्यात्-अल्पाः प्राणास्त्रयः पञ्च सप्त वा मन्तव्याः, अत आह-न 'एतेन' परोक्तेनाभिप्रायेण सूत्रं व्रजति, किं तर्हि ? अल्पशब्दोऽत्राभाववाचको द्रष्टव्यः, प्राणादयस्तेषु न सन्तीति भावः ॥५६६८॥ अत्र परः प्राह
वत्तव्या उ अपाणा, बंधणुलोमेणिमं कयं सुत्तं ।
पाणादिमादिएसुं, ठंते सहाणपच्छित्तं ॥ ५६६९ ॥ 20 यदि अभावार्थोऽल्पशब्दस्तत एवं सूत्रालापका वक्तव्याः-"अपाणेसु अवीएसु अहरिएसु" इत्यादि । गुरुराह—बन्धानुलोम्येनेत्थं सूत्रं कृतम् "अप्पपाणेसु" इत्यादि, एवंविधो हि पाठः सुललितः सुखेनैवोच्चरितुं शक्यते । यदि पुन: त्रयः पञ्च वा द्वीन्द्रियादयः प्राणिन आदिशब्दादण्डादीनि वा यत्र भवन्ति तत्र तिष्ठन्ति ततस्तेषां विराधनायां स्वस्थानप्रायश्चित्तं द्रष्टव्यम् ॥ ५६६९ ॥ कथं पुनरल्पशब्दोऽभावे वर्तते ? तत आह
थोवम्मि अभावम्मि य, विणिओगो होति अप्पसदस्स । थोवे उ अप्पमाणो, अप्पासी अप्पनिदो य ॥ ५६७० ॥ निस्सत्तस्स उ लोए, अभिहाणं होइ अप्पसत्तो त्ति ।
लोउत्तरे विसेसो, अप्पाहारो तुअट्टिा ॥ ५६७१ ॥ स्तोकेऽभावे च अल्पशब्दस्य 'विनियोगः' व्यापारो भवति । तत्र स्तोकार्थवाचको यथा30 अल्पमानो अल्पाशी अल्पनिद्रोऽयम् ॥ ५६७० ॥ अभाववाचको यथा
यः किल निःसत्त्वः पुरुषस्तस्य लोकेऽल्पसत्त्वोऽयमित्यभिधानं भवति । लोकोत्तरेऽप्ययं विशेषः समस्ति, यथा-अल्पाहारो भवेद् अल्पं च त्वग्वर्तयेत् । अभावेऽपि दृश्यते, यथा"अप्पायंके" नीरोग इत्यर्थः । ५६७१ ॥ अथ बीजादियुक्तेषु तिष्ठतां प्रायश्चितमाह
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org