________________
भाष्यगाथाः ५६६७-७६ ] चतुर्थ उद्देशः ।
'विय-मट्टियासु लहुगा, हरिए लहुगा व होंति गुरुगा वा । पाणुतिंग- दसुं, लहुगा पणए गुरू चउरो ।। ५६७२ ।। बीज-मृत्तिकायुक्तेषु तृणादिषु तिष्ठतां चतुर्लघुकाः । हरितेषु प्रत्येकेषु चतुर्लघु, अनन्तेषु चतुर्गुरु | प्राणेषु - द्वीन्द्रियादिषु उत्तिङ्गोदकयोश्चतुर्लघु । पनके चतुर्गुरवः ॥ ५६७२ ॥ उक्तः सूत्रार्थः । अथ नियुक्तिविस्तरः
--
सण माणा वसही, अधिठते चउलहुं च आणादी ।
मिच्छत्त अवाउड पडिलेह वाय साणे य वाले य ।। ५६७३ ॥
श्रवणप्रमाणा वसतिः कर्णयोरधस्तात् तृणादियुक्ता या भवति तस्यामधः श्रवणमात्रायां तिष्ठतश्चतुर्लघु, आज्ञादयश्च दोषा मिथ्यात्वं च भवति । कथम् ? इति चेद् इत्याह--येषां साधूनां सागारिकमपावृतं वैक्रियं वा तान् प्रविशतो दृष्ट्वा लोको ब्रूयात् — अहो ! हीप्रच्छाद- 10 नमपि तीर्थकरेण नानुज्ञातम्, लज्जामयश्च पुरुष-स्त्रियोरलङ्कारः, तद् नूनमसर्वज्ञ एवासौ; एवं मिथ्यात्वगमनं भवेत् । “पडिलेह" त्ति उपर्यप्रत्युपेक्षिते शीर्षमा स्फिटति, तत्र प्राणविराधनानिष्पन्नम् ; अवनतानां च प्रविशतां निर्गच्छतां च कटी पृष्ठं वा वातेन गृह्यते । अवस् च प्रविशतः सागारिकं लम्बमानं पृष्ठतः श्वानो मार्जारो वा त्रोटयेत् । "वाले य" त्ति उपरि शीर्षे आस्फिटिते सर्पो वृश्चिको वा दशेत् । यत एते दोषा अतोऽधः श्रवणमात्रायां वसतौ न 15 स्थातव्यम् । द्वितीयपदे तिष्ठेयुरपि ॥ ५६७३ ॥
सवणपमाणा वसही, खेत्ते ठायंतें बाहि वोसग्गो ।
पाणादिमादिए, वित्थिण्णाऽऽगाढ जतणाए ।। ५६७४ ॥
परेषु क्षेत्रेष्वशिवादीनि भवेयुः ततः क्षेत्राभावेऽधः श्रवणमात्रायामप्यल्पप्राणादियुक्तायां तिष्ठतामियं यतना- वसतेर्बहिरावश्यकं कुर्वन्ति । अन्योऽपि यः 'व्युत्सर्गः ' कायोत्सर्गः स 20 बहिः क्रियते । द्वितीयपदे सप्राणेषु आदिशब्दाद् वीजादिष्वपि वसतौ विद्यमानेषु तिष्ठेयुः तत्र यतनया विस्तीर्णायां तिष्ठन्ति । सा येष्ववकाशेषु संसक्ता तान् क्षारेण लक्षयन्ति, कुटमुखेन वा हरितादिकं स्थगयन्ति, दकमृत्तिका - वीजादीन्येकान्ते वृषभाः स्थापयन्ति । एवमागादे कारणे स्थितानां यतना विज्ञेया || ५६७४ ॥
१५०१
उच्च-वाउडाणं, वृत्ता जयणा णिसिज कप्पो वा ।
उवओग तिते, हु छिंदणा णामणा वा वि ।। ५६७५ ।।
ये विकुर्विता -पावृतसागारिकास्तेषां प्रथमोद्देश कोक्ता यतनाऽवधारणीया । प्रविशन्तो निर्गच्छन्तश्च पृष्ठतो निषद्यां कल्पं वा कुर्वन्ति । श्वानादीनामुपयोगं ददाना नित्यं निर्गच्छन्ति प्रविशन्ति च । यान्युपरि तृणान्यवलम्बन्ते तेषां प्रमार्ण्य च्छेदनं नामनं वा कुर्वन्ति ॥ ५६७५ ॥ व्याख्यातं ऋतुबद्धसूत्रद्वयम् । अथ वर्षावाससूत्रद्वयं विवृणोति
30
अंजलि मउलिकयाओ, दोण्णि वि बाहा समूसिया मउडो ।
हा उवरिं च भवे, मुकं तु तओ पमाणाओं ॥ ५६७६ ॥
Jain Education International
5.
For Private & Personal Use Only
१ अत्रान्तरे ग्रन्थानम् - ५००० क० ॥ २ तृणेषु कां० विना ॥ ३ उक्तो भाष्यकृता सूत्रां• ॥ ४°न्ति येन गृहस्थाः सागारिकं न पश्येयुरिति । श्वाना' कां० ॥
25
www.jainelibrary.org