________________
भाष्यगाथाः ५५९२-९६] चतुर्थ उद्देशः।
१४८१ अस्य सम्बन्धमाह
पच्छित्तमेव पगतं, सहुस्स परिहार एव न उ सुद्धो।
तं वहतो का मेरा, परिहारियसुत्तसंबंधो ॥ ५५९४ ॥ प्रायश्चित्तमेवानन्तरसूत्रे प्रकृतम् , तच्च 'सहिष्णोः ' समर्थस्य प्रथमसंहननादिगुणयुक्तस्य परिहारतपोरूपमेव दातव्यम् , न पुनः शुद्धतपोरूपम् , अतः 'तत्' परिहारतपो वहतः 'का मर्यादा' का सामाचारी ? इति । अस्यां जिज्ञासायामिदं परिहारिकसूत्रमारभ्यते । एष सम्बन्धः ॥ ५५९४ ॥
वीसुंभणसुत्ने वा, गीतो बलवं च तं परिट्टप्पा ।
चोयण कलहम्मि कते, तस्स उ नियमेण परिहारो ॥ ५५९५॥ अथवा 'विष्वग्भवनसूत्रे' मरणसूत्रे गीतार्थः 'बलवांश्च' प्रथमसंहननयुक्तः 'तद्' मृतक 10 परिष्ठाप्य काष्ठमानयन् गृहस्थेन नोदितो यदि कलहं करोति तदा तस्य नियमेन परिहारो दातव्यः, तस्य च विधिरनेनाभिधीयते ॥ ५५९५ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-परिहारकल्पस्थितस्य भिक्षोः कल्पते आचार्योपाध्यायेन 'तदिवसम्' इन्द्रमहाद्युत्सवदिने एकस्मिन् गृहे 'पिण्डपातं' विपुलमवगाहिमादिभक्तलाभं दापयितुम् । ततः परं "से" तस्य नो कल्पते अशनं वा पानं वा खादिम वा खादिमं 16 वा दातुमनुप्रदातुं वा । तत्र दातुं एकशः, अनुप्रदातुं पुनः पुनः । किन्तु कल्पते "से" तस्य परिहारिकस्यान्यतरद् वैयावृत्यं कर्तुम् । तद्यथा-उत्थापनं वा निषादनं वा त्ववर्तापनं वा उच्चार-प्रश्रवण-खेल-सिङ्घानादीनां च विवेचनं वा-परिष्ठापनं 'विशोधनं वा' उच्चारादिखरण्टितोपकरणादेः प्रक्षालनं कर्तुम् । अथ पुनरेवं जानीयात्-'छिन्नापातेषु' व्यवच्छिन्नगमा-ऽऽग. मेषु पथिषु 'आतुरः' ग्लानः 'झिझितः' बुभुक्षातः 'पिपासितः' तृषितो न शक्नोति विवक्षितं 20 ग्रामं प्राप्तुम् , अथवा ग्रामादावपि तिष्ठतां सः 'तपखी' षष्ठा-ऽष्टमादिपरिहारतपःकर्म कुर्वन दुर्बलो भवेत् , ततो भिक्षाचर्यया क्लान्तः सन् मूछेद्वा प्रपतेद्वा, एवं "से" तस्य कल्पते अशनादिकं दातुमनुप्रदातुं वा । एष सूत्रार्थः ॥ अथ नियुक्तिविस्तर:
कंटगमादीसु जहा, आदिकडिल्ले तहा जयंतस्स।
अवसं छलणाऽऽलोयण, ठवणा जुत्ते य वोसग्गो ॥ ५५९६ ॥ १॥ ननु स भगवान् 'प्रमादो न कर्तव्यः' इत्युपदेशेन संयमाध्वनि गच्छन् कथं परिहारकत्वं प्राप्तः ? इति उच्यते-यथा कण्टकाकीर्णे मार्गे उपयुक्तस्यापि कण्टको गति, आदिशब्दाद विषमे वा यथोपयुक्तोऽप्यागच्छन् प्रपतति, कृतप्रयत्नो वा यथा नदीवेगेन ह्रियते, सुशिक्षि. तोऽपि यथा खङ्गेन लाञ्छयते; एवं कण्टकादिस्थानीयमादिकडिल्लम्-आद्यगहनं यद् उद्गमोत्पादनैषणारूपं ज्ञानादिरूपं वा तत्र यतमानस्याप्यवश्यं कस्यापि च्छलना भवति, छलितेन 30 चावश्यमालोचना दातव्या । ततो यः संहनना-ऽऽगमादिभिर्गुणैर्युक्तः-सहितस्तस्य 'स्थापना' परिहारतपः प्रायश्चित्तदानं कर्तव्यम् । तत्र चायं विधिः-प्रशस्तेषु द्रव्य-क्षेत्र-काल-भावेषु
१ वी चतुर्थ-षष्टा-एम-दशम-झादशलक्षणं पार° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org