________________
१४८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [परिहारिकप्रकृते सूत्रम् ३१ तस्य साधोर्निर्विघ्नतपःकर्मसमाप्तये शेषसाधूनां च भयजननाथ सकलेनापि गच्छेन 'व्युत्सर्गः' कायोत्सर्गः कर्तव्यः । तत्राचार्यो भणति-"एतस्स साधुस्स निरुवसग्गनिमित्तं ठामि काउस्सगं जाव वोसिरामि" ततश्चतुर्विंशतिस्तवमनुप्रेक्ष्य "नमो अरिहंताणं" इति भणित्वा चतुर्विशतिस्तवं मुखेनोच्चार्य भणति ॥ ५५९६ ॥ ___एस तवं पडिवजति, ण किंचि आलवति मा ण आलवहा । [जी. २४३८]
अत्तचिंतगस्सा, वाघातो मे ण कायव्यो । ५५९७ ॥ 'एषः' आत्मविशुद्धिकारकः परिहारतपः प्रतिपद्यते अतो न किश्चिद् युष्मानालपति, अत्र "सत्सामीप्ये सद्वद्वा" (सि० हे० ५-४-१) इति सूत्रेण भविष्यदर्थे वर्तमाना, ततो
नालप्स्यतीत्यर्थः; यूयमपि "गं" एनं माऽऽलपत । एष युष्मान् सूत्रा-ऽौँ शरीरोदन्तं वा न 10 पृच्छति, यूयमप्येनं मा पृच्छत । एवमन्येष्वपि परिवर्तनादिपदेषु भावनीयम् । इत्थमात्मार्थचिन्तकस्यास्य ध्यानस्य परिहारतपसश्च व्याघातः "भे" भवद्भिर्न कर्तव्यः ॥ ५५९७ ॥ अथ यानि पदानि तेन साधुभिश्च परस्परं परिहर्तव्यानि तानि दर्शयति
आलावण पडिपुच्छण, परियझुट्ठाण बंदणग मत्ते । [जी. २४४०]
पडिलेहण संघाडग, भत्तदाण संभुंजणा चेव ।। ५५९८ ॥ 1 'आलपन' सम्भाषणमनेन युष्माकं न कर्तव्यं युष्माभिरप्यस्य न विधेयम् । एवं सूत्रा-ऽर्थयोः
शरीरवार्ताया वा प्रतिप्रच्छनम् , पूर्वाधीतस्य श्रुतस्य परिवर्तनम् , कालग्रहणनिमितं "उट्ठाणं" ति उत्थापनम् , रात्रौ सुप्तोत्थितैर्वन्दनककरणम् , खेल-कायिका-संज्ञामात्रकाणां समर्पणम् , उपकरणस्य प्रत्युपेक्षणं भिक्षा-विचारादौ गच्छतां सङ्घाटकेन भवनम् , भक्तस्य वा पानकस्य वा दानम् , एकमण्डल्यां वा सम्-एकीभूय भोजनं न कर्त्तव्यम् ॥ ५५९८ ॥ 20 अथ कुर्वन्ति तत इदं प्रायश्चित्तम्
संघाडगोउ जाव उ, लहुओ मासो दसण्ह उ पयाणं ।
लहुगा य भर्तदाणे, संभुंजण होतऽणुग्याता ।। ५५९९ ॥ एतेषामालपनादीनां दशानां पदानां मध्यादालपनादारभ्य यावत् सङ्घाटकपदं तावद् अष्टानां पदानां करणे गच्छसाधूनां प्रत्येकं मासलघु । अथ भक्तेदानं कुर्वन्ति ततश्चतुर्लघु । एकमण्डल्यां सम्भुञ्जते ततस्तेषामेव चत्वारोऽनुद्धाता मासाः ॥ ५५२९ ।। परिहारकस्य इदं प्रायश्चित्तम्
__अढण्हं तु पदाणं, गुरुओ परिहारियस्स मासो उ।
भत्तपदाणे संभुंजणे य चउरो अणुग्घाया ॥ ५६०० ॥ पारिहारिकस्याष्टानां पदानां सङ्घाटकान्तानां करणे मासगुरु । भक्तपदानं सम्भोजनं वा कुर्वतश्चत्वारो मासा अनुद्धाताः ॥ ५६०० ॥ इमे च दोषाः
१ तिसूत्रम डे० ॥ २ तिसूत्रं मु डे० ॥ ३ जन-सम्भोजनं भवद्भिरनेन सार्ध न कर्त्तव्यानि, एषोऽपि भवद्भिः सार्धं न करिष्यतीति ॥ ५५९८ ॥ अथ कां० ॥ ४ °त्त-पाणे कां० तामा० विना । एतत्पाठानुसारेणैव भा० टीका । दृश्यतां टिप्पणी ५॥ ५°क्त-पानं कु° भा० । 'क्त-पानदानं कु° कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org