SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ५५९७ - ५६०६ ] चतुर्थ उद्देशः । कुव्वतायाणि उ, आणादि विराहणा दुवेहं पि । देवय पमत्त छलणा, अधिगरणादी य उदितम्मि ॥ ५६०१ ॥ 'एतानि' आलपनादीनि कुर्वतामाज्ञादयो दोषाः, विराधना च ' द्वयोरपि' पारिहारिकगच्छसाधुवर्गयोर्भवति । प्रमत्तस्य च देवतया छलनम् । अन्येन वा साधुना भणित: - 'किमित्यालपनादीनि करोषि ?' एवं 'उदिते' भणिते सति अधिकरणादयो दोषा भवन्ति 5 ॥ ५६०१ ॥ अथ "कप्पइ० एगगिहंसि" इत्यादि सूत्रं व्याख्यानयति — विउलं व भत्त-पाणं, दहूणं साहुवजणं चेव । नाऊण तस्स भावं, संघार्ड देति आयरिया ।। ५६०२ ।। सङ्खड्यामुत्सवे वा विपुलं भक्त - पानं साधुभिरानीतं दृष्ट्वा तद्विषय ईषदभिलाषो भवेत्, 'साधुवर्जनां च ' 'साधुभिः खदुश्चरितैः परित्यक्तोऽहम्' इत्येवं मनसि चिन्तयेत् । एवं ज्ञात्वा 10 तदीयं भावमाचार्याः सङ्घाटकं ददति || ५६०२ ॥ अथेदमेवे भावपदं व्याचष्टे - भावो देहावस्था, तप्पडिबद्धो व ईसि भावो से । अपातित यतहो, वहति सुहं सेसपछित्तं ॥ ५६०३ ।। भावो नाम 'देहावस्था' देहस्य दुर्बलता 'तत्प्रतिबद्धो वा' विपुलभक्त - पानविषय ईषदु 'भावः' अभिलाषः तस्य सञ्जातः, ततश्च यथाभिलषिताहारेणाप्यायितो हततृष्णश्च सन् सुखेनैव 15 शेषं प्रायश्चित्तं वहतीति मत्वा सङ्घाटको दीयते ॥ ५६०३ ॥ अमुमेवार्थमन्याचार्यपरिपाट्या किञ्चिद् विशेषयुक्तमाह - देहस्स तु दोबलं, भावो ईसिं व तप्पडीबंधो । अगलाऍ सोहिकरणेण वा वि पावं पहीणं से ।। ५६०४ ॥ देहस्य दौर्बल्यम् ईषद्वा मनोज्ञाहारविषयप्रतिबन्धः, एष भाव उच्यते । यद्वा अग्लान्या 20 शोधिकरणेन पापं तस्य प्रक्षीणप्रायम् एवंविधं भावमाचार्या जानीयुः ॥ ५६०४ ॥ कथं पुनरेतद् जानन्ति ? इति उच्यते १४८३ आगंतु एयरो वा भावं अतिसेसिओ से जाणिजा । ऊहि व से भावं, जाणित्ता अणतिसेसी वि ।। ५६०५ ॥ आगन्तुकः 'इतरो वा' वास्तव्यः 'अतिशयी' नवपूर्वधरादिरवधिज्ञानादियुक्तो वा स 20 एवंविधं भावं “से” तस्य जानीयात् । अथवा अतिशयज्ञान्यपि बाधैराकारादिभिर्हेतुभिस्तस्य भावं जानीयात् ।। ५६०५ ॥ ततः सक्कमहादी दिवसो, पणीयभत्ता व संखडी विपुला । धवलंभिग एगघरं, तं सागकुलं असागं वा ।। ५६०६ ।। शक्रमहादेर्दिवसो यदा सञ्जातस्तदा तं कापि श्राद्धगृहे नयन्ति, प्रणीतभक्ता वा काचिदू 30 विपुला सङ्घडिस्तत्र वा विसर्जयन्ति । तच्च 'ध्रुवलम्भिकम्' अवश्यसम्भावनीय लाभमेकमेव गृह विद्यते । इदं च श्रावकगृहमश्रावकगृहं वा भवेत् उभयत्रापि गुरवः स्वयं प्रथमतो गच्छन्ति, १ एतदनन्तरं ग्रन्थाग्रम् - ४५०० क० ॥ २ व नियुक्तिगाथागतं भा° कां• ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002514
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 05
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages340
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy