________________
१४८४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ परिहारिकप्रकृते सूत्रम् ३१ तं च परिहारिकं ब्रुवते-आर्य ! समागन्तव्यममुकगृहे पात्रकमुद्राय त्वयेति । ततस्तत्र प्राप्तस्य विपुलमवगाहिमादिकं भक्तं दापयन्ति । अथासौ तत्र गन्तुं न शक्नोति ततो भाजनानि गृहीत्वा खयमानीय गुरवो ददति ॥ ५६०६॥ . एतावता "कप्पइ आयरि-उवज्झाएणं तदिवसं एगगिहंसि पिंडवायं दवावित्तए" इति 5 सूत्रं व्याख्यातं मन्तव्यम् । अथ "तेण परं नो से कप्पइ" इत्यादि सूत्रं व्याख्याति
भत्तं वा पाणं वा, ण दिति परिहारियस्स ण करेंति ।
कारण उडवणादी, चोयग गोणीय दिवतो ॥ ५६०७॥ भक्तं वा पानकं वा ततः परं परिहारिकस्य निष्कारणे न प्रयच्छन्ति, न वा किमप्याल. पनादिकं कुर्वन्ति । 'कारणे तु' यदा उत्थानादिकं कर्तुं क्षीणदेहतया न शक्नोति तत उत्थाप10 नादिकं कारयन्ति । अत्र नोदकः प्राह-किं प्रायश्चित्तं राजदण्ड इवावशेन वोढव्यं येनेह
शीमवस्थां प्राप्तस्यापि भक्त-पानमानीय न दीयते । सूरिराह-गोदृष्टान्तोऽत्र क्रियते--यथा नवप्रावृषि या गौरुत्थातुं न शक्नोति तां गोप उत्थापयति अटवीं च चारि चरणार्थ नयति, या तु गन्तुं न शक्नोति तस्या गृहे आनीय प्रयच्छति । एवं पारिहारिकोऽपि यत् कर्तुं शक्नोति तत् कार्यते, यत् पुनरुत्थानादिकं कर्तुं न शक्नोति तद् अनुपारिहारिकः करोति ॥ ५६०७ ॥ 15 कथं पुनरसौ करोति ? इत्याह
उद्वेज निसीएजा, भिक्खं हिंडेज भंडगं पेहे ।
कुवियपियवंधवस्स च, करेइ इयरो वि तुसिणीओ ॥ ५६०८॥ स परिहारिकस्तपसा क्लान्तो ब्रवीति-उत्तिष्ठेयं निषीदेयं भिक्षां हिण्डेयं भाण्डकं प्रत्युपेक्षेयम् । एवमुक्तेऽनुपारिहारिक उत्थापनादिकं सर्वमपि करोति । कथम् ? इत्याह-यथा प्रिय20 बान्धवस्य कुपितः कश्चिद् बन्धुर्यत् करणीयं तत् तूष्णीकः करोति, एवम् 'इतरोऽपि' अनुपारिहारिकः सर्वमपि तूष्णीकभावेन करोति ॥ ५६०८ ॥ अथ भिक्षाहिण्डनादौ विधिमाह
णीणेति पवेसेति व, भिक्खगए उग्गहं तउग्गहियं ।
रक्खति य रीयमाणं, उक्खिवइ करे य पेहाए ॥ ५६०९ ॥ भिक्षां गतस्य पारिहारिकस्य 'अवग्रह' प्रतिग्रहं तेन-पारिहारिकेण गृहीतमनुपारिहारिकः 28 पात्रबन्धाद् निष्काशयति तत्र वा प्रवेशयति, रीयमाणं च' पर्यटन्तं श्वान-गवाद्युपद्रवात् प्रपतनादेर्वा रक्षति, भाण्डप्रत्युपेक्षणायामशक्तस्य 'करौ' हस्तावनुपरिहारिक उत्क्षिपति येन खयमेव प्रत्युपेक्षते ॥ ५६०९ ॥ आह-यदि नामाशक्तस्तर्हि कस्मादसौ भिक्षाहिण्डनादिकं विधाप्यते ? इत्याह
एवं तु असढभावो, विरियायारो य होति अणुचिण्णो । १ भक्ष्यं दा मो० ले० ॥ २ "चोदगो भणति-कीस उट्ठविज्जति ? बहुयरी से णि जरा होहिति । एस्थाऽऽयरिओ गोणिदितं करेति-जधा गोणी पचविटा जति ण उविज्जति मरति छधाए. तथा सो वि अणुविनंतो मरेना । संजमजीवितं च कम्मक्खयट्ठाए चिरं इच्छिन्नति, लवसत्तमव्याख्या कार्या ॥” इति चूर्णी विशेषचूर्णौ च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org