________________
चतुर्थ उद्देशः ।
भयजणणं सेसाण य, तवो य सप्पुरिसचरियं च ॥ ५६१० ॥
' एवं ' यथाशक्ति कुर्वतस्तस्याशठभावो भवति, वीर्याचारश्चानुचीर्णो भवति, 'शेषाणामपि ' साधूनां भयजननं कृतं भवति, तपः सम्यगनुपालितं भवति, सत्पुरुषचरितं च कृतं भवति ॥ ५६१० ॥ अथ “छिन्नावासु पंथेसु" इत्यादि सूत्रं व्याचष्टे
भाष्यगाथाः ५६०७-१४ ]
छिण्णावात किलंते, ठवणा खेत्तस्स पालणा दोन्हं ।
असहुस्स भत्तदाणं, कारणें पंथे व पत्ते वा ।। ५६११ ॥
१४८५
छिन्नापातेऽध्वनि गच्छन् परिहारिको यदि बुभुक्षया तृषा च क्लान्तो ग्रामं प्राप्तुं न शक्नोति ततोऽनुपारिहारिको भक्त - पानं गृहीत्वा तस्यान्तरग्रामे ददाति । अथवा स भगवान् अनि हितबल-वीर्यों बहिर्ग्रामे भिक्षां पर्यटति, तत्र हिण्डित्वा तपःक्लान्तो यदा न शक्नोत्यागन्तुं तत आगन्तुमसमर्थे तस्मिन् क्षेत्रस्य स्थापना कर्तव्या, मूलग्राम एव स हिण्डते न बहिर्भिक्षाचर्यां 10 गच्छतीत्यर्थः । “पालणा दोहं" ति 'द्वयोरपि' पारिहारिका - ऽनुपारिहारिकयोः पालना कर्तव्या । कथम् ? इत्याह--" असहुस्स भत्तदाणं कारणे" ति यदि स पारिहारिकः स्वग्रामेऽपि हिण्डितुं न शक्नोति ततोऽनुपारिहारिको हिण्डित्वा तस्य प्रयच्छति अनुपारिहारिकस्तु मण्डलीतः समुद्दिशति; अथानुपारिहारिकोऽपि ग्लानत्वेनासहिष्णुर्भिक्षां गन्तुं न शक्नोति तत एवंविधे कारणे द्वयोरपि गच्छसत्काः साधवः प्रयच्छन्ति; एवं द्वावपि पालितौ - अनुकम्पितौ भवतः । एवं 15 स्थानस्थितानां यतना भणिता । सम्प्रति पूर्णे मासे वर्षावासे वा ग्रामानुग्रामं विहरतां “पंथे व पत्ते व" ति पथि वा ग्रामे प्राप्तानां वा यतनाऽभिधीयते ॥ ५६११ ॥
उपयंति डहरगामं, पत्ता परिहारिए अपावंते ।
तस्सट्ठी तं गामं, ठविंति अन्नेषु हिंडंति ।। ५६१२ ॥
पथि व्रजन्तो डहरं लघुतरं ग्रामं प्राप्ताः परिहारिकश्चाद्यापि न प्राप्नोति ततस्तस्यार्थं 20 तं ग्रामं स्थापयन्ति । स्वयं तु गच्छसाधवोऽन्येषु ग्रामेषु भिक्षां हिण्डन्ते ॥ ५६१२ ॥
1
Jain Education International
5
वेलवाते दूरम्मिय गामे तस्स ठाविउमद्धं ।
अर्द्ध अडंति सोविय, अद्धमडे तेहि अडिते वा ।। ५६१३ ॥
अथ यावत् ते गच्छन्ति तावदन्यग्रामेषु वेलाया अतिपातो भवति दूरे वा स ग्रामस्ततः 'तस्यैव' मूलग्रामस्यार्द्धं - परिहारिकस्यार्थाय स्थापयित्वा द्वितीयमर्द्ध स्वयमरन्ति । एवं तावत् 25 पथि वर्तमाने पारिहारिके भणितम् । यत्र तु साधवः पारिहारिकश्च समकमेव प्राप्तास्तत्राप्यर्द्धे ग्रामे साधवो हिण्डन्तेऽर्द्धे पारिहारिकः । अथ साधूनामर्द्ध पर्यटतां न पूर्यते ततस्तैः सर्वस्मिन् ग्रामे पर्यटिते पारिहारिकः पश्चात् पर्यटति ॥ ५६१३ ॥
अथ पारिहारिको यथा कारणे गच्छसाधूनां वैयावृत्यं करोति तथाऽभिधीयतेवियपय कारणम्मि, गच्छे वाऽऽगाढे सो तु जयणाए । अणुपरिहारिओं कप्पट्ठितो व आगाढ संविग्गो ॥ ५६१४ ॥
द्वितीयपदे ' कारणे' कुलादिकार्ये पारिहारिकोऽपि साधूनां वैयावृत्यं करोति, यथा पाराञ्चिकः
१°हाणं गाताभा० ॥ २० एतचिह्नान्तवेत पाठः भ० पुस्तक एवं वर्तते, नान्येष्वादर्शेष्विति ॥
For Private & Personal Use Only
30
www.jainelibrary.org