________________
१४८६ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ परिहारिकप्रकृते सूत्रम् ३१ “अच्छउ महाणुभागो, जहासुहं गुणसयागरो संघो ।" (गा० ५०४५) इत्यादि भणित्वा वैयावृत्यं कृतवान् । तथा गच्छे वा आगाढं कारणं समजनि ततः सोऽपि 'यतनया' वक्ष्यमाणया भक्त-पानाहरणादिकं वैयावृत्यं करोति । "अणुपरिहारिय" इत्यादि पश्चार्द्धम् -अथ गच्छसाधवः प्रज्ञप्तिमहाश्रुतादीनामन्यतरमागाढयोगं प्रतिपन्ना उपाध्यायश्च ग्लानः कालगतो 5 वा ततोऽनुपारिहारिकः कल्पस्थितो वा वाचनां गच्छस्य ददाति । अथ तावप्यशक्तौ ततः पारिहारिकोऽपि वाचनां ददाति । स च तां ददानोऽपि संविम एव मन्तव्यः । इह मा भूत् कस्यापि मतिः-पूर्वसूत्रेण प्रतिषिद्धं सूत्रार्थदानादिकमनेनानुज्ञातम्, एवं पूर्वापरविरुद्धमाचरन् असंविमोऽसाविति तन्मतिव्यपोहाथ संविनग्रहणम् ॥ ५६१४ ॥
अथ गच्छस्यागाढकारणं व्याचष्टे10 मयण च्छेव विसोमे, देति गणे सो तिरो व अतिरो वा ।
तब्भाणेसु सएसु व, तस्स वि जोगं जणो देति ॥ ५६१५ ॥ मदनकोद्रवकूरेण भुक्तेन गच्छः सर्वोऽपि ग्लानः जातः, छेवकम्-अशिवं तेन वा गृहीतः, प्रत्यनीकेन वा विषं दत्तम् , अवमौदर्ये वा न संस्तरति; तत एवमागाढे कारणे 'सः' पारिहारिको भक्त-पानमौषधानि वा 'तद्भाजनेषु' गच्छसत्केषु पात्रकेषु तेषामभावे खभाजनेषु वा 15 गृहीत्वा तिरोहितमतिरोहितं वा 'गणे' गच्छस्य प्रयच्छति । तिरोहितं नाम-स आनीयानु। पारिहारिकस्य ददाति सोऽपि गच्छस्यार्पयति, अथानुपारिहारिकोऽपि ग्लानस्तदा कल्पस्थितस्य ददाति सोऽपि तथैव गच्छस्यार्पयति । कल्पस्थितस्यापि ग्लानत्वेऽतिरोहितं-खयमेव गच्छस्य ददाति । यच्च तेषां योग्यं जनो ददाति तत् तेषामर्थाय गृह्णाति, यत् तु तस्य योग्यं तद् आत्मनो गृह्णाति ॥ ५६१५ ॥
एवं ता पंथम्मि, जत्थ वि य ठिया तहिं पि एमेव ।
बाहिं अडती डहरे, इयरे अद्धद्ध अडिते वा ॥ ५६१६ ॥ ___ एवं तावत् पथि गच्छतामभिहितम् । यत्रापि च ग्रामादौ स्थितास्तत्राप्येवमेव मन्तव्यम् । मार्गे च यत्र गच्छो न प्राप्तस्तत्र डहरे ग्रामे पारिहारिकः प्राप्तो बहिर्गामे पर्यटति । "इतरे" ति
अथ वेलातिक्रमो दूरे वा स ग्रामः ततस्तत्रैव मूलगामेऽढे पारिहारिकः पर्यटति अर्दै गच्छ2. साधवः, तेन वा अटिते गच्छः पर्यटति ॥ ५६१६ ॥ किंबहुना ? पक्षद्वयस्याप्ययं परमार्थ उच्यते
कप्पट्ठिय परिहारी, अणुपरिहारी व भत्त-पाणेणं ।
पंथे खेते व दुवे, सो वि य गच्छस्स एमेव ।। ५६१७ ॥ पथि वा क्षेत्रे वा द्वयोरपि वर्तमानो ग्लानत्वादी कारणे कल्पस्थितोऽनुपारिहारिको वा 30 पारिहारिकस्य भक्त-पानेनोपग्रहं करोति । सोऽपि च पारिहारिको गच्छस्यैवमेवोपग्रह करोति ॥५६१७॥
॥परिहारिकप्रकृतं समाप्तम् ॥
20
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org