Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
आगम
(४०)
प्रत सूत्रांक
[3]
दीप अनुक्रम
[२]
आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४
अध्ययनं [१], निर्युक्तिः [१०२८-१०२९] वि० भा० गाथा [-] भाष्यं [ १६६ ], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः
औदारिकसर्व परिशाटं करोति, इहापि संयतमनुष्यभवचरमसमये सर्वपरिशाटविवक्षा व्यवहारनयमताश्रयणात् परभवप्रथमसमये निश्चयनयमतापेक्षया, ततो यथोक्तमन्तरपरिमाणं भवति, उक्तं च- "खुड्डागभवग्ग्रहणं जहन्नमुकोसयं च तेत्तींसं । तं सागरोवमाई संपुन्ना पुबकोडी य ॥ १ ॥” अन्यथा समयत्रयही नस्त्रयस्त्रिंशत्सागरोपमपूर्व कोटिप्रमाणताऽवसेया, याव देवं व्यारव्यानुरोधेन व्याख्या कृता, तत्त्वतः पुनरेवं व्याख्या- 'तिसमयहीणं खुडुं होइ भवं सवबंधसाडाणं ।' सर्वबन्धस्य सर्वशाटस्य च यथाक्रमं जघन्योऽन्तरकालः क्षुल्लकभवग्रहणं 'त्रिसमयहीन' मिति त्रिभिः - अर्थात् समयैः समयेन च हीनं त्रिसमयहीनं क्षुल्लकभवग्रहणं सर्वसङ्घातस्य जघन्योऽन्तरकालः, समयहीनं सर्वपरिशाटस्येति भावः, 'उक्कोसे' त्यादि, सर्वसङ्घातस्योत्कृष्टोऽन्तरकालः पूर्वकोटी समय उदधयश्च सागरोपमाणि त्रयस्त्रिंशत्, सर्वपरिशाटस्योत्कृष्टोऽन्तरकालः पूर्वकोटी समयेन हीना उदधयः समयोदधयः, गुडधाना इत्यादाविव मध्यपदलोपी समासः, समयेन हीनानि सागरोपमाणि त्रयस्त्रिंशद् भावना सर्वाऽपि प्रागुक्तैव द्रष्टव्या । सम्प्रति सङ्घातपरिशादान्तरमुभयरूपमपि अभिधित्सुराह
अंतरमेगं समयं जहन्नमोरालग्रहणसाडस्स । सतिसमया उद्योसं तित्तीसं सागरा हुंति ॥ १६६ ॥ (भा.) 'अन्तरं' अन्तरालं जघन्यं सर्वस्तोकं एकं समयमादारिकस्य 'ग्रहणशाटस्य ग्रहणं च चाटश्च ग्रहणशाटं तस्य, सङ्घातपरिशाटस्येत्यर्थः तथाहि यदा औदारिकशरीरी आयुःपर्यन्तं यावत् सङ्घातपरिशाटोभयं कृत्वाऽग्रेतनभवेऽविग्रहेणोत्पद्यौदारिकस्यैव सङ्घातं कृत्वा पुनरपि तदुभयमारभते तदा एकसमयो जघन्यमुभयान्तरमिति, उत्कृष्टमन्तरं त्रयस्त्रिंशत्सागरोपमाणि सत्रिसमयानि, तथाहि-यथा कश्चित् मनुष्यादिः स्वभवचरमसमये सङ्घातपरिशाटोभयं कृत्वाऽनुत्तर सुरेष्वप्रति
Por Private & Personal Use Only
~245~
elbrary.org
Loading... Page Navigation 1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327