Book Title: Aagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 275
________________ आगम (४०) प्रत सूत्रांक [१] दीप अनुक्रम [२] आ. सू. ९७ आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [१०४९-१०५० ], वि० भा० गाथा [ ३४८८ ], भाष्यं [१८६], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि रचिता वृत्तिः भावसर्वं च सप्तमं एवं गाथासमासार्थः, व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदण्याख्यानार्थमाह दविए चउरो भंगा सक्षमतवे य दवदेसे य । आएस सहगामे नीसे से सबगं दुविहं ॥ १८६३ ॥ (भा.) द्रव्ये-द्रव्यसर्वे चत्वारो भङ्गाः, तानेव सूचयति - 'सबमसवे य दवदेसे य'त्ति इह अङ्गुल्यादिद्रव्यं यदा सर्वैरपि निजावयवैः परिपूर्ण विवक्ष्यते तदा सर्वमुच्यते, एवं तस्यैवाङ्गुल्यादिद्रव्यस्य कश्चित् स्वावयवो देशो निजावयवपरिपूर्ण तया यदा सकलो विवक्ष्यते तदा सोऽपि देशः सर्व एव उभयस्मिन् द्रव्ये तदेशे च सर्वत्वं एतदेवाङ्गुल्यादिद्रव्यं तद्देशो वा यथास्वमपरिपूर्णतया विवक्ष्यते तदा प्रत्येकम सर्वत्वं ततो द्रव्ये देशे चैवं विवक्षिते चत्वारो भङ्गाः, तद्यथा-द्रव्यं सर्व देशोऽपि सर्वः १, द्रव्यं सर्व देशोऽसर्वः २, देशः सर्वो द्रव्यमसर्व ३, देशोऽसर्वो द्रव्यमप्यसर्व ४, अत्र यथाक्रममुदाहरणम् - अंगुलिद्रव्यं संपूर्ण विवक्षितं द्रव्यसर्वं तदेव देशोनं विवक्षितं द्रव्यासर्व पर्व पुनः सम्पूर्ण विवक्षितं देशसर्व, पर्वैकदेशस्तु देशासर्व तथा आदेश - उपचारः, स च बहुतरे प्रधाने वा देशेऽपि आदिश्येत तत्र बहुतरे यथा विवक्षितं घृतमभिवीक्ष्य बहुतरे भुके स्तोकेऽवशेषे सर्वशब्दोपचारः क्रियते सर्व घृतं भुक्तमिति, प्रधानेऽप्युपचारो यथा ग्रामप्रधानेषु नरेषु गतेषु सर्वो ग्रामो गतः उक्तं च- आदेसो उवयारो बहुतरगे वा पहाणतरगे वा । देसेऽवि जहा सबं भुतं सबो गतो गामो ॥ १ ॥ ( विशे. १४८८ ) इति, तत्र प्रधानपक्षमधिकृत्याह - ' आदेस सबगामो' इति, आदेशसर्व सर्वो For Pate & Personal Use Only ~275~

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327