Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala
Catalog link: https://jainqq.org/explore/022442/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ GOODCOOOOOO श्रीजैनयशोविजयग्रन्थमाला (१) ॥ श्रीः ॥ Oc5dbRARRRRDERGRARISR5RSCRISPRINCR5Rhd श्रीवादिदेवसूरिविरचित प्रमाणनयतत्त्वालो कालङ्कारः। SEROSECORPOOOOOOO DEODODCORROWORDCRORRONDO Registered Under Sections 18 and 19 of Act XXV of 1867. oreion20 श्रीकाशीस्थ न्यायविशारद महामहोपाध्याय श्रीयशोविजय नामाङ्कित श्वेताम्बर जैन संस्कृत पाठशालातः प्रादुर्भूतः 13+0 काश्यां चन्द्रप्रभायन्त्रागारे मुद्रितश्च वीर सं० २४३० सन् १९०४ SUBy7 TOCOCOCC యం Page #2 -------------------------------------------------------------------------- ________________ पाय पायं प्रवचनसुधां प्रीयते या प्रकामं स्वैरं स्वैरं चरति कृतिनां कीर्तिवल्लीवनेषु दोग्ध्री कामान्नवनवरसैः सा भृशं प्रीणयन्ती माग् वत्सान् जयति जगति श्रीगवीदेवसुरेः “श्रीरत्नप्रभाचार्यः " Page #3 -------------------------------------------------------------------------- ________________ -:0: - - अहम् प्रस्तावना। अथास्यां संसृतिसरण्यां समागत्य सर्वे शरीरिणः शान्तिशकलमप्यनासादयन्तः समयसरीसृपशीर्णाः संसारापारपारावारपारमुपसर्तुमपारयन्तः परमपारमार्थिकपदमपि पुण्यपद्यया प्राप्तुमपारमार्थिकं मन्वानाःक्षोदिष्ठप्रज्ञया सर्वाऽवज्ञया च पाश्चभौतिकपिण्डप्रेष्ठाः कलिकल्मषकालिमकलङ्कद्राधिष्ठा विषमविषविषयाशीविषदष्टविशर्णिविषस्फेष्ठाः किंवा विषकीटा इव विषयविषभुजो ऽनादिदुर्वासनावासितबुद्धयश्चाहमहमि. कामेव परमपुरुषार्थ साधिष्ठमाकलयन्तोवलिताश्च गरिष्ठाहोपुरुषिकया प्रत्यहं पितृवने दीर्घनिद्रासुखमनुभवन्तः क्रियासमाभिहारेण इसिप्ठजननीजठरे वसन्तः सांसारिकानेकवं. हिष्ठकटुक्लेशपाशिताः सुप्तप्रबुद्धा इव प्रबुद्धसुप्ता इव तिष्ठन्ति । तदत्र किं कारणं को हेतुः किं प्रयोजनं कस्मादित्यमिति सानेडितप्रश्नावसरे सर्वमेतदविद्याविलाससाम्राज्येनेति वारं वारं वयमुत्तरयामः। Page #4 -------------------------------------------------------------------------- ________________ ( २ ) हंहो विलक्षणशेमुषीका विचक्षणाः! शुभवन्तोभवन्तः सहृदयहृदयसन्तोषप्रददन्तोषितरसज्ञ रसज्ञा रस ज्ञापितं कर्ण्यतांवहत्किमपि श्वःश्रेयसमिदमाकर्ण्य नीरक्षीरविवेचनविलक्षणचेतनाचातुरीचमत्कारचमत्कृताः सकृदप्योमिति ब्रूयुः । अविद्यानिरासार्थमेव प्रयतमानैरस्माभिः श्रीजैनयशोविनयग्रन्थमाला ऽनय॑मणिगणगुम्फिता हारभूतेव भवतां श्रीमतामुपहारीयते । तस्यामेकेयं मणीरामायिता प्रमाणनयतत्वालोकालङ्काररूपा सर्वोपरि सुमेरुभूतेव विलसति । ___ अमुं ग्रन्थं श्री १०८ सुगृहीतनाम्नोवादिप्रवरदेवसूरेर्मुखाम्भोजनिर्गलितामृतधाराऽऽसारमिव प्रमाणनयतत्वालोकालङ्कारमदृष्टपूर्व जैनमतमन्तव्यप्रमाणविचारकरं दुर्वादिवादवासनानिर्यातनपरं विलक्षणभङ्गीकं सप्तभङ्गीतरङ्गरिङ्गितं निबन्धं निरीक्ष्य किमिदं कथमिदं कस्येदं कीदृक्षमिदमिति स्वभावेनैव जिज्ञासवः संपत्स्यन्ते तत्त्वग्रहाग्रहग्रहिलाः शास्त्रप्रियाग्रियास्तदत्रावश्यकं किञ्चनोपन्यस्तुम् ।। तत्र प्रथममवधेयं धीमद्धौरेयैस्तत्रभवद्भिः, यत्कस्यापि मतस्य तत्त्वमनाकलय्य खण्डनमण्डनबद्धपरिकरा ये यथा Page #5 -------------------------------------------------------------------------- ________________ ( ३ ) जाताः सलभा इव परिपतन्ति ते लभन्ते न स्वात्मविना शाहते किञ्चिदपि भावुकम् । श्रीवादिदेवसूरिभगवतोऽन्तेवासी श्रीरत्नप्रभसूरिर्वसुलोकार्क १२३८ मिते विक्रमाब्दे निजनिर्मितोपदेशमालाटीकायामेवं व्यलेखीत् । शिष्यः श्रीमुनिचन्द्रसूरिमुनिभिर्गीतार्थचूडामणिः पट्टे स्वे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः । अस्थाने जयसिंहदेवनृपतेर्येनास्तदिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ॥ तत्पट्टप्रभवोभवन्नथ गुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनाम् ॥ तथा च । विक्रमाद वलोकार्क १२३८ वर्षे माघे समर्थिता एकादश सहस्राणि मानं सार्धं शतं तथा ॥ १११५० अस्माद् श्रीरत्नप्रभसूरेः समयः स्फुटमेवावभाति - Page #6 -------------------------------------------------------------------------- ________________ ( ४ ) किञ्च किञ्चिन्न्यूनाधिकः सएव समयस्तदीयगुरोर्देव सूरेरपि चास्मादेवानिर्णेतुं शक्यस्तथापि दुर्बद्धं सुबद्धमिति न्यायेन पुनः प्रमाणान्तरं प्रदश्यते । श्रीमुनिसुन्दरसूरिणा रसर्तुमनुमिते १४६६ ऽब्दे गुर्वावल्यामेवं व्यलेखि | अष्टहयेशमितेऽब्दे ? १७८ विक्रमकालाद्दिवं गतो भगवान । श्रीमुनिचन्द्रमुनीन्द्रो ददातु भद्राणि संघाय ॥ ७१ ॥ तस्माद भूदजित देवगुरुर्गरीयान् प्राच्यस्तपः श्रुतिनिधिर्जलधिर्गुणानाम् । श्रीदेवसूरिरपरश्च जगत्प्रसिद्धो वादीश्वरोऽस्तगुणचन्द्रमदोपि बाल्ये ।। ७२ ।। येनार्दितश्चतुरसीतिसुवादिलीलालब्धोल्लसज्जयरमामदकेलिशाली । वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः श्री सिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥ ७३ ॥ वेदमुनीशमिते ११७४ऽब्देदेवगुरुर्जगदनुत्तरोभ्युदितः । श्रीमुनिचन्द्रगुरोरिति शिष्या वहवोभवन् विदिताः ७४॥ रसरसमनुमितवर्षे १४६६ मुनिसुन्दरसूरिणा कृतापूर्वम् । मध्यस्थैरवधार्या गुर्वावलीथं जयश्रीद्धा ॥ ८६ ॥ * Page #7 -------------------------------------------------------------------------- ________________ अस्मादपि स्फुटतरःसमयोदी पवद्देदीप्यते । श्रीपूज्यपाददेवसूरिरेव प्रमाणनयतत्वालोकालङ्कारस्य रत्नाकरनाम्नी महाव्याख्यां रचितवान् । तद् विषयेऽपि गुर्वावल्यां लिखितमस्तिस्याद्वादरत्नाकरतर्कवेधा मुदे स केषां नहि देवमूरिः। यतश्चतुर्विंशतिसूरिशाखं यस्यैव नाम्ना विदितंबभूव ७४ देवसूरिशिष्यैः श्रीरत्नप्रभसूरिभिन तिलघीयसी रत्नाकरावतारिका नाम्नी टीका विनिर्मितास्ति। या मूलटिप्पणपजिकाभिः सहिता मुद्रणालये मुद्रयितुमारब्धा तस्यामेवं लिलेख श्रीरत्नप्रभः। यैरत्र स्वप्रभया दिगम्बरस्यार्पिता परा भूतिः। प्रत्यक्षं विबुधानां जयन्तु ते देवसूरयानव्याः॥३॥ अस्मादपि स्फुटतमःसमयोश्रीधर्मसागरोपाध्यायैस्तपगच्छपट्टावल्यां प्राकाश्यमानीतः। तथा श्रीमुनिचन्द्रसूरिशिष्याः॥ श्रीअजितदेवसूरिवादिश्रीदेवसूरिप्रभृतयः। तत्र वादिश्रीदेवसूरिभिःश्रीमदणहिल्लपुरपत्तने जयसिंहदेवराजस्याऽनेकविद्वज्जनकालतायां सभायां चतुरशीतिवादलब्धजययशसं दिगम्बरचक्रवर्तिनं वादलिप्सुं Page #8 -------------------------------------------------------------------------- ________________ कुमुदचन्द्राचार्य वादे निर्जित्य श्रीपत्तने दिगम्बरप्रवेशो निवारितोऽद्यापि प्रतीतः । तथा वि० चतुरधिकद्वादशशत १२०४ वर्षे फलवर्द्धिग्राम चैत्यबिम्बयोःप्रातष्ठाकृता तत्तीर्थन्तु सम्प्रत्यपि प्रसिद्धं । तथा आरासणे व श्रीनेमिनाथप्रतिष्ठाकृता। चतुरशीति सहस्र ८४००० प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रन्थः कृतः । येभ्यश्च यन्नाम्नैव ख्यातिमत् चतुर्विशतिसूरिशाखं बभूव । एषां च वि० चास्त्रशदधिके एकादशशत ११३४ वर्षे जन्म द्विपञ्चा. शदधिके ११५२ दीक्षा । चतुःसप्तत्यधिके ११७४ सूरिपदं । षड्विंशत्याधिकद्वादशशत १२२६ वर्षे श्रावणवदिसप्तम्यां ७ गुरौ स्वर्गः । प्रभावकचारेोऽप्येवं श्रीप्रद्युम्नसूारोभिःसमयनिर्णय कृतः । वेदशिखिशिवे जन्म दीक्षा युग्मशरेश्वरे। वेदाश्वशंकरे वर्षे सूरित्वमभ. वत्प्रभोः ॥ रसयुग्मरवौ वर्षे श्रावणे मासि संगते । कृष्णपक्षस्य सप्त. म्यामपराणे गुरोदिने ।। मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरन्दरबो. धका इव ते जग्मुर्दिवं श्रीदेवसूरयः ॥ ____Similarly, the following passage occurs in “Extracts from the Historical Records of the Jains by Johannes Klatt Ph. D. of Berlin" published in the Indian Antiquary of September 1882: A pupil of Munichandra was Dêvasûri, who conquered the Digambara Kumudachandrâchârya in a dispute before Jayasimhadêva, king of Allahillapurapattana, and thereby hindered the entrance Page #9 -------------------------------------------------------------------------- ________________ of the Digambaras into that town. In Sam. 1204 Dêvasûri founded a chaitya and raised a bimba at Phalavarddhigrāma ( तत्तीथं संप्रत्यपि प्रसिद्धं ), and made a Nêminâthapratishịhâ at Ârâsana. He composed Syâdvádaratná karâ, a pramânagrantha, from whence sprang the Chaturimsatisurisứ khá. Devasûri was born Sam. 1134; dikshâ 1152; sûripada 1174; svarga 1226 Srâvana vadi 7 Gurau. श्रीमल्लधारिराजशेखरसूरिणा पञ्जिकाकारेणापि लिखितमस्ति । स्याद्वादरत्नाकर इत्यस्ति ग्रन्थोमहत्तमः । वादिवृन्दारकश्रीमद्देवसूरिविनिर्मितः॥४॥ न्यायशास्त्रस्यायमद्वितीयोग्रन्थः अत्राष्टौ परिच्छेदाः सन्ति । तत्र प्रथमपरिच्छेद-प्रमाणस्वरूपनिर्णयः । द्वितीये परिच्छेदे-प्रत्यक्षस्वरूपनिर्णयः । तृतीयपरिच्छेदे-स्मरणप्रत्यभिज्ञानतक्कानुमानस्वरूपनिर्णयः चतुर्थपरिच्छेदे-आगमाख्यप्रमाणस्वरूपनिर्णयः । पञ्चमपरिच्छेदे-विषयस्वरूपनिर्णयः। षष्ठपरिच्छेदे-फलप्रमाणस्वरूपाद्याभासनिर्णयः । सप्तमपरिच्छेदे-नयात्मस्वरूपनिर्णयः । Page #10 -------------------------------------------------------------------------- ________________ अष्टमपरिच्छेदे-वादिप्रवादिन्यायनिर्णयः । एतद्ग्रन्थमुद्रणावसरे पञ्चषाणि पुस्तकानि प्राप्तानि, तेषांमध्ये १ श्री महामान्यधन्यतम धर्मविजयमुनीन्द्रतो लब्धमेकं पुस्तकम् । २ श्री मुनिराज वीरविजयेन दत्तमेकं पुस्तकम् । ३ श्रीमुनिना अमिविजयेन महाशयेनापिपुस्तकमेकंसमर्पितम्। ४ श्रीकेशरविनयमुनितोपि पुस्तकमेकं समासादितम् । ५ भावनगरस्थश्राद्धवर्य कुंवरजी आनन्दजी इत्यनेन श्रावकेनात्र महती सहायता दत्ता ।। ६ श्रीपं. अम्बादत्तशास्त्रिणां समीपेपुस्तमेकमाप्तम् । पूर्वोक्तमहाशयानां भूयांसं परिश्रमं चोपकृतिं च तेषां सप्रश्रयमङ्गीकरोतीयं पाठशाला । यद्यपि पूर्वोक्तानि पुस्तकानि दृष्ट्वा शोधितोयं ग्रन्थस्तथापि मनुष्यसहभान्तिदुर्वारा तदत्र दृष्टिदोषात् शीशकाक्षरयोजनदोषावा या काचना ऽशुद्धिर्भवेत् तत्स्वपुस्तके परिमृज्य कृपया पाठशालामपि सूचयेयुः सज्जनाः इतिप्रार्थयते काशीस्थजैनयशोविजयसंस्कृतपाठशाला । Page #11 -------------------------------------------------------------------------- ________________ TO CG PU ॥श्रीः ॥ श्रीवादिदेवसूरिविरचित प्रमाणनयतत्त्वालो कालङ्कारः। प्रथमः परिच्छेदः । रागद्वेषविजेतारं ज्ञातारं विश्ववस्तुनः । शक्रपूज्यं गिरामीशंतीर्थेशं स्मृतिमानये॥१॥ प्रमाणनयतत्वव्यवस्थापनार्थमिदमुपक्रम्यते१॥ स्वपरव्यवसायिज्ञानं प्रमाणम् ॥२॥ अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षमं हि प्रमाणमतोज्ञानमेवेदम् ॥ ३ ॥ नवैसनिकर्षादेरज्ञानस्य प्रामाण्यमुपपन्नंत - Page #12 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः । स्यार्थान्तरस्येव स्वार्थव्यवसितौ साधकतम - त्वानुपपत्तेः ॥ ४ ॥ नखल्वस्य स्वनिर्णीतौ करणत्वं स्तंभांदेरिवाचेतनत्वात् नाप्यर्थनिश्चिता स्वनिश्चितावकऱणस्य कुंभादखितत्राप्यकरणत्वात्५॥ तद्व्यवसायस्वभावं समारोपपरिपन्थित्वात्प्रमाणत्वाद्वा || ६॥ अतस्मिँस्तदध्यवसायः समारोपः ॥ ७ ॥ सविपर्ययसंशयानध्यवसायभेदात्रेधा ॥८॥ विपरीतैककोटिनिष्टङ्कनं विपर्ययः ॥ ९ ॥ यथा शुक्तिकायामिदं रजतमिति ॥ १० ॥ साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शिज्ञानं संशयः ॥ ११ ॥ यथाऽयं स्थाणुर्वा पुरुषोत्रेति ॥ १२ ॥ किमित्यालोचनमात्रमनध्यवसायः ॥ १३॥ २ Page #13 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालाकालङ्कारः। ३ यथागच्छतस्तृणस्पर्शज्ञानम् ॥१४॥ ज्ञानादन्योऽयः परः ॥१५॥ स्वस्य व्यवसायःस्वाभिमुख्यन प्रकाशनं बाह्यस्येवतदाभिमुख्यन करिकलभकमहमास्मनाजानामीति ॥१६॥ कः खलुज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्यमानस्तदपितत्प्रकारं नाभिमन्येत मिहिरालोकवत् ॥१७॥ ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् १८॥ तदितरत्त्वप्रामाण्यम् ॥ १९॥ तदुभयमुत्पत्तो परतएव ज्ञप्तौ तु स्वतः परतश्चेति ॥२०॥ श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्त्वालोकालङ्कारे प्रमाणस्वरूपनिर्णयो नाम प्रथमः परिच्छेदः ॥१॥ - Page #14 -------------------------------------------------------------------------- ________________ ४ प्रमाणनय तत्त्वालोकालङ्कारः । अथ द्वितीयः परिच्छेदः 10: तद्विभेदं प्रत्यक्षं च परोक्षं च ॥ १ ॥ स्पष्टं प्रत्यक्षम् ॥ २ ॥ अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥ ३ ॥ तद्विप्रकारं सांव्यवहारिकं पारमार्थिकं च||४|| तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥ ५ ॥ एतद्वितयमवग्रहेहावायधारणाभेदादेकशश्चतुर्विकल्पकम् ॥ ६ ॥ विषयविषयिसन्निपातानन्तरसमुद्भूतरुत्ता मात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥ ७ ॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८ ॥ १ ' एकैकश" इत्यपिपाठान्तरम् । Page #15 -------------------------------------------------------------------------- ________________ r itional LALMMitainedoamant __ प्रमाणनयतत्त्वालोकालङ्कारः। ५ ईहितविरोषनिर्णयोऽवायः ॥९॥ सएवढ मावस्थापन्नोधारणा ॥१०॥ संशयपूर्वकत्वादीहायाः संशयाद्भदः ॥११॥ कथञ्चिदभेदपिपरिणामविशेषादेषां व्यपदेशभेदः ॥१२॥ असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावतयाऽनुभूयमानत्वादपूर्वापूर्ववस्तुपर्यायप्रकाशकत्वात् क्रमभावित्वाचेते व्यतिरिच्यन्ते ॥१३॥ क्रमोष्यमीषामयमेव तथैवसंवेदनात् ॥१४॥ एवंक्रमाविभूतनिजकमक्षयोपशमजन्यवाच्च ॥१५॥ अन्यथाप्रमेयानवगतिप्रसङ्गः ॥१६॥ तथाहि नखल्वदृष्टमवगृह्यत नचानवगृहीतं - Page #16 -------------------------------------------------------------------------- ________________ प्रमाणन यत्तत्त्वालोकालङ्कारः । सन्दिह्यते नचासन्दिग्धमीह्यते नचानीहितमवेयते नाष्यनत्रेतं धार्यते ॥ १७ ॥ क्वचित् क्रमस्यानुपलक्षणमेषामाशूत्पादादुत्पलपत्रशतव्यतिभेदक्रमवत् ॥ १८ ॥ पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् १९ ॥ तद्विकलं सकलं च ॥ २० ॥ तत्र विकलमवधिमनःपर्यायज्ञान रूपतया - देवा ॥ २१ ॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् ||२२|| संयमविशुद्धिनिबन्धनाद्विशिष्टावरणावच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनः पर्यायज्ञानम् || २३ || सकलंतुमामग्रीविशेषतः समुद्भूतसमस्ताव Page #17 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः रणक्षयापेक्षं निखिलद्रव्यपयीय साक्षात्कारि स्वरूप केवलज्ञानम् ॥ २४ ॥ तद्वानर्हन्निर्दोषत्वात् ॥ २५॥ निर्दोषसौ प्रमाणाविरोधिवाक्त्वात्॥२६॥ तद्वा तदिष्टस्यप्रमाणेनाबाध्यमानत्वात् चस्तेनाविरोधसिद्धिः ॥२७॥ नच कवलाहारखत्वेन तस्यासर्वज्ञत्वं कवलाहार सर्वज्ञत्वयोरविरोधात् ॥ २८ ॥ इतिप्रत्यक्षस्वरूपनिर्णयोनाम द्वितीयः परिच्छेदः ॥ २ ॥ अथ तृतीयः परिच्छेदः :0: अस्पष्टं परोक्षं स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदतस्तत्पञ्चप्रकारं तत्रसंस्कारप्र Page #18 -------------------------------------------------------------------------- ________________ ८ प्रमाणनयतत्त्वालोकालङ्कारः। बोधसंभूतमनुभूतार्थविषयं तदित्याकार संवेदनं स्मरणम् ॥१॥ ततीर्थकरबिम्बमिति यथा ॥२॥ अनुभवस्मृतिहेतुकं तिर्यगूर्द्धतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम्३ यथातजातीयएवायं गोपिण्डो गोसदृशोगवयः स एवायं जिनदत्त इत्यादि ॥४॥ उपलम्मानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालम्बनमिदमास्मिन् सत्येवभवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः ॥५॥ यथा यावान् कश्चित्धूमःस सर्वोवह्नौमत्येवभवतीति तस्मिन्नसत्यमौ नभवत्यवेति ॥ अनुमानं द्विप्रकार स्वार्थ परार्थं च ॥७॥ Page #19 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालाकालङ्कारः । तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् || ८॥ निश्चिनान्यथानुपपत्त्येकलक्षणो हेतुः॥९॥ नतु विलक्षणकादिः ॥१०॥ तस्य हेत्वाभासस्यापिसम्भवात् ॥११॥ अप्रतीतमनिराकृतमभीप्सितं साध्यम्॥१२॥ शङ्कितविपरीतानध्यासितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥ १३ ॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यता मित्यनिराकृतग्रहणम् ॥१४॥ अनभिमतस्यासाध्यत्वप्रतिपत्तये भीप्सितपदोपादानम् ॥ १५॥ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्मएवान्यथा तदनुपपत्तेः ॥१६॥ Page #20 -------------------------------------------------------------------------- ________________ १० प्रमागनयतत्त्वालोकालङ्कारः । नहि यत्र यत्र धूमस्तत्र तत्र चित्रभानोरिख धरित्रीधरस्याप्यनुवृत्तिरस्ति ॥१७॥ आनुमानिकपतिपत्त्यासरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धोधर्मी ॥१८॥ धमिणः प्रसिद्धिः क्वचिद्रिकल्पतः कुत्रवित्प्रमाणत:क्यापि विकल्पप्रमाणाभ्याम् १९ यथा समस्तिसमस्तवस्तुवेदी क्षितिधरकन्धरेयंधूमधजवती धनिः परिणतिमानिति२०॥ पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥२१॥ साध्यस्य प्रतिनियतमिसंबन्धिता प्रसिद्धये हेतोरुपसंहारवचनवत्पक्षप्रयोगोप्यवश्यमाश्रयितव्यः ॥२२॥ त्रिविधं साधनमभिधायैव तत्समर्थनं विद Page #21 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। ११ धानःकः खलु न पक्षप्रयोगमङ्गीकुरुते॥२३॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायिवचनं परार्थ प्रत्यक्षं परप्रत्यक्षहेतुतात् ॥२४॥ यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डि. ताभरणभारिणीं जिनपतिप्रतिमामिति२५॥ पक्षहेतुवचनलक्षगमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम् ॥२६॥ हेतुप्रयोगस्तथापपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥२७॥ सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः। असति साध्य हेतोरनुपपत्तिवान्यथानुपपत्तिः२८ यथा कृशानुमानयंपाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्वस्यापपत्तेरसत्यनुपपत्तेति२९ Page #22 -------------------------------------------------------------------------- ________________ १२ प्रमाणनयतत्वालोकालङ्कारः । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ दि तीयप्रयोगस्य कत्रानुपयोगः ॥ ३० ॥ नदृष्टान्तवचनं परप्रतिपत्तये प्रभवति तस्यां पक्षहेतुवचनयोरेव व्यापारोपलब्धेः ३१ नत्र हेतोरन्यथानुपपत्तिनिर्णीतये यथोक्ततप्रमाणादेव तदुपपत्तेः ॥ ३२॥ नियतैकविशेषस्वभावे च दृष्टान्तं साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तरापेक्षायामनवस्थितेर्दुर्निवारः समवतारः ॥ ३३ ॥ नाप्यविनाभावस्मृतये प्रतिपन्नप्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावश क्तौ च बहिर्व्याप्तेरुद्भावनं व्यर्थम् ॥ ३५ ॥ पक्षीकृत एवविषये साधनस्य साध्येन व्याप्ति Page #23 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। १३ | रन्तर्व्याप्तिरन्यत्रतुबहिर्व्याप्तिः यथाऽनका न्तात्मकं वस्तु सत्त्वस्य तथैवोपपत्तेः । अमिमानयं देशो धूमवत्त्वात् य एवं स एवं यथा पाकस्थानम् ॥३६॥ नोपनयनिगमनयोगपि परप्रतिपत्तौसामर्थ्यपक्षहेतुप्रयोगादेव तस्याः सद्भावात् । ३७॥ समर्थनमेवपरंपरप्रतिपत्त्यङ्गमास्तां तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसंभवात् ॥३८॥ मन्दमतींस्तुव्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि ॥३९॥ प्रतिबन्धप्रतिपत्तरासदं दृष्टान्तः ॥४०॥ स द्वेधा साधर्म्यतो वैधर्म्यतश्च ॥४१॥ यत्र साधनधर्मसत्तायामवश्यं साध्यधर्मसत्ता प्रकाश्यते स साधर्म्यदृष्टान्तः॥४२॥ Page #24 -------------------------------------------------------------------------- ________________ १४ प्रमाणत्रयतत्त्वालोकालङ्कारः । यथा यत्र धूमस्तत्र वह्निर्यथा महान सः ॥ ४३ ॥ यत्र तु साध्याभावे सावनस्यावश्यमभावः प्रदर्श्यत सवैधर्म्यदृष्टान्तः ॥ ४४॥ यथाग्न्यभावे नभवत्येवधूमो यथा जलाशये ४५ हेतोःसाध्यधर्मिण्युपसंहरणमुपनयः ॥ ४६ ॥ यथा धूमश्चात्र प्रदेशे ॥ ४७॥ साध्यधर्मस्य पुनर्निगमनम् ॥ ४८ ॥ यथा तस्मादग्निरत्र ॥ ४९॥ एते पक्षप्रयोगादयः पञ्चाप्यवयवसंज्ञया कीयन्ते ॥ ५० ॥ उक्तलक्षणो हेतुर्द्विप्रकारः उपलब्ध्यनुपलधियां भिद्यमानत्वात् ॥ ५१ ॥ उपलब्धिर्विधिनिषेधयोः सिद्धिनिबन्धनमनुपलब्धिश्च ॥ ५२ ॥ Page #25 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। १५ विविः सदंशः प्रतिषेधोऽसदंशः॥५३॥ सचतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावात्यन्ताभावश्च ॥५४॥ यन्निवृत्तावेव कार्यस्यसमुत्पत्तिः सोस्यप्रा. गभावः ।।५५॥ यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥५६॥ यत्पत्तो कार्यस्यावश्यं विपत्तिः सोस्य प्रधंसाभावः ॥५७॥ यथा कपालकदम्बकोत्पत्तौ नियमतोविपद्यमानस्य कलशस्य कपालकदम्बकम् ॥५०॥ स्वरूपान्तरात स्वरूपव्यावृत्तिरितरतराभावः यथा स्तंभस्वभावात् कुंभस्वभावव्यावृत्तिः६० कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ॥६१॥ Page #26 -------------------------------------------------------------------------- ________________ १३ प्रमाणनयतत्त्वालोकालङ्कारः । यथा चेतनाऽचेतनयोः ॥६२॥ उपलब्धेरपि दैविध्यमाविरुद्धोपलब्धिर्विरुदोपलब्धिश्च ॥६३॥ तत्राऽविरुद्रोपलब्धिर्विधिसिद्धौ षोढा ६४॥ साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिरिति॥६५॥ तमखिन्यामास्वाद्यमानादाम्रादिफलरसादेकसामग्यनुमित्या रूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्रशक्तरप्रतिस्खलनमपरकारणसाकल्यञ्च६६ पूर्वचरोत्तरचरयोर्नस्वभावकार्यकारणभावौतयोः कालव्यवहितावनुपलम्भात्॥६७॥ नचातिकान्तानागतयोर्जाग्रहशासंवेदनमरणया प्रबोधोत्पातौ प्रति कारणत्वं व्यवहि Page #27 -------------------------------------------------------------------------- ________________ ___ प्रमाणनयतत्त्वालोकालङ्कारः। १७ तत्त्वेन निर्व्यापारत्वात् ॥८॥ स्वव्यापारापेक्षिगी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति ॥ ६९॥ नव व्यवहितयोस्तयोर्व्यापारपरिकल्पनंन्या यमतिप्रसक्तः ॥ ७॥ परंपराव्यवहितानां परेषामपि तत्कलनस्य निवारयितुमशक्यत्वात् ॥ ७१॥ सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेनतदुत्पत्तिविपतेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः७२ घनिःपरिणतिमान प्रयत्नानन्तरीयकत्वात् यःप्रयत्नानन्तरीयकःस परिणतिमान यथासम्मो यो वा न परिणतिमान सन प्रयत्नान Page #28 -------------------------------------------------------------------------- ________________ १८ प्रमाणनयतत्त्वालोकालङ्कारः। न्तरीयको यथा वान्ध्येयःप्रयत्नानन्तरीयकश्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्थ साध्येनाविरुद्धस्योपलब्धिः साधर्म्यग वै. धर्मेणच ॥७३॥ अस्त्यत्र गिरिनिकुञ्ज धनञ्जयो धूमसमुपलम्भादिति कार्यस्य ॥ ७४ ॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ॥७५॥ उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥ ७६ ॥ उदगुर्मुहूर्त्तात्पूर्वपूर्वफल्गुन्यउत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य ॥ ७७ ॥ अस्तीह सहकारफले रूपविशेषः समासाद्य. मानरसविशेषादिति सहचरस्य ॥ ७८॥ Page #29 -------------------------------------------------------------------------- ________________ प्रमाणत्रयतत्त्व लोकालङ्कारः । विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्चौ सप्त प्रकारा ।। ७९ ॥ तत्राद्या स्वभावविरुद्धोपलब्धिर्यथा ॥८०॥ नास्त्येव सर्वथैकान्तोनेकान्तस्योपलम्भात ८१ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट्ट२ विरुद्धव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्त त्रेषु निश्चयस्तत्र सन्देहात् ॥ ८३ ॥ विरुद्धकार्योपलब्धिर्यथा न विद्यते ऽस्य कोधाद्युपशान्तिर्वदनविकारादः ॥ ८४ ॥ विरुदकारणापलब्धिर्यथा नास्य महर्षेरसत्यं वचः समस्तिरागद्वेषकालुष्याकलङ्कितज्ञानसंपन्नत्वात् ॥ ८५ ।। विरुद्धपूर्व चरोपलब्धिर्यथा नोदुगमिष्यति मुहूर्त्तान्ते पुष्यतारा रोहिण्युद्गात् ॥ ८६ ॥ Page #30 -------------------------------------------------------------------------- ________________ २० प्रमाणनयतत्त्वालाकालङ्कारः। विरुद्धोत्तरचरोपलब्धियथा नोदगान् मुहू. तत्पूर्व मृगशिरः पूर्वफल्गुन्युदयात् ॥८७॥ विरुद्वसहचरोपलब्धियथा नास्त्यस्य मिथ्या ज्ञानं सम्यग्दर्शनात् ॥ ८॥ अनुपलब्धेरपिद्वैरूप्यमविरुद्धानुपलब्धिर्विरुद्धानुपलब्धिश्च ॥८९॥ तत्राविरुद्धानुपलब्धिःप्रतिषेधावबोधे सप्तप्रकारा ॥९॥ प्रतिषेध्येनाविरुद्धानां सभा व्यापककार्यकारणपूर्वचरोत्तरचरसहचगणामनुपलब्धि रिति ॥९१॥ स्वभावानुपलब्धिर्यथा नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्समावस्यानुपलम्भात् ॥ ९२॥ Page #31 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । व्यापका तुपलब्धिर्यथा नास्त्यत्रप्रदेशे प नमः पादपानुपलब्धेः ॥९३॥ कार्यानुपलब्धिर्यथा नास्त्यत्राप्रतिहतशक्ति के बीज मङ्कुरानवलोकनात् ॥ ९४ ॥ कारणानुपलब्धिर्यथा न सन्त्यस्य प्रशमप्रभृतयोभावास्तत्त्वार्थश्रद्वानाभावात् ॥९५॥ पूर्वच रानुपलब्धिर्यथा नोगमिष्यति मुहूर्त्तान्ते स्वातिनक्षत्रं चित्रोदयादर्शनात् ॥९६॥ उत्तरचरानुपलब्धिर्यथा नोदगमत् पूर्वभद्रपदा मुहूर्तात् पूर्वमुत्तरभद्रपदोदमानव - मान् ॥ ९७ ॥ सहचरानुपलब्धिर्यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेः ॥ ९८ ॥ विरुद्धानुपलब्धिस्तु विधिप्रतीतौ पञ्चधा९९ Page #32 -------------------------------------------------------------------------- ________________ २२ प्रमाणन्यतत्त्वालांकालङ्कारः । विरुद्ध कार्यकारणस्वभावव्यापकसहचरा नुपलम्भभेदात् ॥ १०० ॥ विरुद्ध कार्यानुपलब्धिर्यथाऽत्रशरीरिणि रोगातिशयः समस्ति निरोगव्यापारानुपलब्धेः॥१०१॥ विरुद्धकारणानुपलब्धिर्यथा विद्यते ऽत्र प्रागिनि कष्टमिष्टसंयोगाभावात् ॥१०२॥ विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात १०३ विरुद्धव्यापकानुपलब्धिर्यथा ऽस्त्यत्र च्छाया औष्ण्यानुपलब्धेः ॥ १०४॥ विरुद्धसहचरानुपलब्धिर्यथा ऽस्त्यस्य मिध्याज्ञानं सम्यग्दर्शनानुपलब्धेः ॥१०५॥ इतिस्मरणप्रत्यभिज्ञान तर्कानुमानस्वरूपनिर्णयानामतृतीयः परिच्छेदः ॥ ३ ॥ Page #33 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः 1 २३ आप्तवचनादाविर्भूतमर्थ संवेदनमागमः॥१॥ उपचारादाप्तवचनञ्च ॥ २ ॥ यथा समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्न सानुप्रभृतयः ॥ ३॥ अभिघयं वस्तु यथावस्थितं योजानीते यथा ज्ञातञ्चाभिधत्ते स आप्तः ॥ ४ ॥ तस्य हि वचनमविसंवादि भवति ॥ ५ ॥ सच देवा लौकिकोलोकोत्तरश्च ॥ ६ ॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ७ ॥ वर्णपदवाक्यात्मकं वचनम् ॥ ८ ॥ अकारादिः पौडलिको वर्णः ॥ २ ॥ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः पदं पदानान्तु वाक्यम् ॥ १० ॥ Page #34 -------------------------------------------------------------------------- ________________ २४ प्रमाणनयतत्त्वालोकालङ्कारः। स्वभाविकसामर्थ्यसमयाभ्यामर्थबांधनिबन्धनं शब्दः ॥ ११॥ अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवत् यथार्थत्वायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः ॥ १२॥ सर्वत्रायं धनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥१३॥ एकत्र वस्तुन्यकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोःसमस्तयाश्च विधिनिषेधयाः कल्पनया स्यात्काराङ्कित सप्तधावाप्रयो। गः सप्तमङ्गी ॥१४॥ तद्यथा स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमोभङ्गः ॥१५॥ स्यानास्त्येव सर्वमितिनिषेधकल्पनया द्वितीयः ॥ १६॥ Page #35 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः। २५ स्यादस्त्येव स्यान्नास्त्येवोत क्रमतोविधिनि पंधकल्पनया तृतीयः ॥१७॥ स्यादवक्तव्यमवति यूगपद्विविनिषधकल्पनया चतुर्थः ॥१८॥ स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पन या युगपद्विधिनिषेधकल्पनया च पञ्चमः१९ स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया यूगपद्विधिनिषेधकल्पनया च षष्ठः२० स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति क्रमतोविधिनिषेधकल्पनया युगपद्रिधिनिषेधकल्पनया च सप्तमइति ॥२१॥ विधिप्रधानएव ध्वनिरिति न साधु॥२२॥ निषेधस्य तस्मादप्रतिपत्तिप्रसक्तः ॥२३॥ अप्राधान्यनैव ध्वनिस्तमभिधत्तइत्यप्यमारम२४ Page #36 -------------------------------------------------------------------------- ________________ २३ प्रमागायतत्वालोकालङ्कारः । चित्कदावित्कथञ्चित्पाधान्येनाप्रतिपनस्य तस्याप्राधान्याऽनुपपत्तः ॥२५॥ निषेधप्रधानएवशब्द इत्यपिप्रागुक्तन्यायादपातम् ॥ २६॥ क्रमादुभयप्रधानएवायमित्यपि नसाधीयः२७ अस्य विधिनिषेधाऽन्यतरप्रधानत्वानुभवस्याप्यबाध्यमानत्वात् ॥२८॥ युगपद्विधिनषेधात्मनो ऽर्थस्यावाचक एवासो इतिवचो न चतुरस्रम् ॥२९॥ तस्यावक्तव्यशब्देनाप्यवाच्यत्वप्रसङ्गात् ३० विध्यात्मनोऽर्थस्य वाचकासन्नुभयात्मनोयु गपदवाचकएव स इत्येकान्तापिनकान्तः३१ निषेधात्मनः सहृदयात्मनश्चार्थस्य वाचकवावाचकत्वाभ्यामपिशब्दस्य प्रतीयमानत्वात् ॥ ३२ ॥ Page #37 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्यालंकालङ्कारः। २७ निषधात्मनोऽर्थस्य वाचकःसन्नुभयात्मनोयुगपदवाचकएवायमित्यप्यवधारणं न रमणीयम् ॥ ३३॥ इतरथापि संवेदनात् ॥३४॥ क्रमाक्रमाभ्यामुभयस्वभावस्य भावस्य वाचकश्चावाचकश्च ध्वनि न्यथा इत्यपि मिथ्या ॥ ३५॥ विधिमात्रादिप्रधानतयाऽपि तस्य प्रसिद्ध:३६ एकत्र वस्तुनि विधीयमाननिषिध्यमानानन्तधर्माभ्युपगमेनानन्तभङ्गीप्रसङ्गादसङ्गतैव सप्तभङ्गीति न चतसि निधेयम्॥३७॥ विधिनिषेधप्रकारापेक्षया प्रतिपर्यायं वस्तून्यनन्तानामपि सप्तमङ्गीनामेव संभवात् ३८ प्रतिपर्यायं प्रतिपाद्यपर्यनुयोगानां सप्ता Page #38 -------------------------------------------------------------------------- ________________ २८ प्रमाणनयतत्त्वालाकालङ्कारः। नामेव संभवात् ।।३९॥ तेषामपि सप्तत्वं सप्तविधतज्जिज्ञासानिय मात् ॥ ४०॥ तस्या ऽपि सप्तविधवंसप्तधैव तत्सन्देहममुत्पादात् ॥४१॥ तस्याऽपिसप्तप्रकारत्वनियमः स्वगोचरवस्तुधर्माणां सप्तविधत्वस्यैवोपपत्तेः ॥४२॥ इयंसप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावाविकलादशस्त्रभावा च ॥४३॥ प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनःकालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराबायोगपद्येन प्रतिपादकं वचःसकलादेशः४४ तद्धिपरीतस्तु विकलादेशः॥४५॥ तविभेदमपिप्रमाणमात्मायप्रतिबन्धकाप Page #39 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालाकालङ्कारः। २९ गमविशेषस्वरूपसामर्थ्यतः प्रतिनियतमर्थमवद्यालयति ॥ ४६॥ मतदुत्पत्तितदाकारताभ्यां तयोःपार्सेक्ये न सामस्त्येन च व्यभिचारोयलम्भात्॥४७॥ इति आगमाख्यप्रमाणस्वरूपनिर्ण योनामचतुर्थः परिच्छेदः ४ ------ --- तस्य विश्यः सामान्यविशेषाद्यनेकान्तात्मकं वस्तु ॥१॥ अनुगतविशिष्टाकारप्रतीतिविषयत्वात् प्राचीनोत्तराकारपरित्यागोपादानावस्थानखरूपपरिणत्यार्थकियासामर्थ्यघटनाच २ सामान्यं द्विप्रकारं तिर्यक्सामान्यमूर्द्धता: सामान्यञ्च ॥३॥ Page #40 -------------------------------------------------------------------------- ________________ ३० प्रमाणन यतत्त्वालोकालङ्कारः।। प्रतिव्यक्तितुल्यापरिणतिस्तिर्यमामान्य शबलशाबलेयादिपिण्डेषु गोत्वं यथा॥४॥ पूर्वापरपरिणामसाधारणद्रव्यमूर्द्रतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवत् ॥५॥ विशेषोपि द्विरूपो गुणः पर्यायश्च ।। ६।। गुणः सहभावीधर्मो यथात्मनि विज्ञानव्यक्तिशक्तगादिः ॥ ७॥ पर्यायस्तूक्रमभावी यथातत्रैवसुखदुःखादिः८ इतिविषयस्वरूपनिर्णयोनामपञ्चमः - परिच्छेदः । यत्प्रमाणेन प्रसाध्यते तदस्य फलम् ॥१॥ तद्विविधमानन्तर्येण पारमर्येण च ॥२॥ तत्राऽऽनन्तर्येग सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् ॥ ३॥ Page #41 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः। ३. पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥ ४॥ शेषप्रमाणानां पुनरुपादानहानोपक्षाबुछयः ॥ ५॥ तत्प्रमाणतः स्याद्भिन्नमभिन्नं चप्रमाणफलवान्यथानुपपत्तः ॥ ६॥ उपादानबुध्यादिना प्रमाणाद्भिन्नेन व्यवहितफलन हेतोयभिचारइति न विभावनीयम् ॥७॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः॥८॥ प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः ॥ ९॥ यःप्रमिमीते सएगोपादत्ते परित्यजत्युपेक्ष Page #42 -------------------------------------------------------------------------- ________________ ३२ प्रमाणस्यतत्त्वालोकालङ्कारः। ते ची सर्वसंव्यवहारिभिरस्खलितमम वात् ॥ १०॥ रथा वपरयाःप्रमाणफलव्यवस्थाविप्लः प्रसज्येत ॥ ११ ॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्नेन साक्षात्फलेन साधनस्यानेकान्तइति नाराकनीयम् ॥ १२ ॥ कथञ्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्थानात्१३ साध्यसाधनभावन प्रमाणफलयोःप्रतीयमानत्वात् ॥ १४ ॥ प्रमाणंहि करणाख्यं सायनं स्वपरव्यवसितौ साधकतमत्वात् ॥ १५॥ खारव्यवसितिक्रियारूपाऽज्ञाननिवृत्वाख्यं फलंतु साध्यं प्रमाणनिष्पाद्यत्वात् ॥१६॥ Page #43 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। ३३ प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथञ्चिद्भेदः ॥ १७॥ कर्तृक्रिययोःसाध्यसाधकभावनोपलम्भात्॥ कर्ता हि साधकः स्वतन्त्रत्वात् क्रियातु साध्या कर्तृनिर्वर्त्यत्वात् ॥१९॥ न च क्रियाक्रियावतः सकाशादभिन्नैव मिन्नैव वा प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गात् ॥ २० ॥ संवृत्या प्रमाणफलव्यवहार इत्यप्रामाणिकप्रलापः परमार्थतः स्वाभिमतसिद्धिविरोधात् ॥ २१॥ ततः पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्तव्यः॥२२॥ प्रमाणस्य स्वरूपादिचतुष्टयाद्विपरीतं तदा Page #44 -------------------------------------------------------------------------- ________________ ३४ प्रमाणनयतत्त्वालोकालङ्कारः। भासम् ॥ २३॥ अज्ञानात्मकानात्मप्रकाशकस्वमात्रावभासकनिर्विकल्पकसमारोपाः प्रमाणस्य स्वरूपाभासाः॥२४॥ यथासन्निकर्षाद्यस्वसंविदितपरानवमासकज्ञानदर्शनविपर्ययसंशयानध्यवसायाः। तेभ्यः स्वपरव्यवसायस्यानुपपत्तेः ॥२६॥ सांव्यवहारिकपत्यक्षमिव यदाभासते तत्तदाभासम् ॥ २७॥ यथाऽम्बुधरेषु गन्धर्वनगरज्ञानं दुःखे सुखज्ञानञ्च ॥ २८ ॥ पारमार्थिकप्रत्यक्षमिव यदाभासते तत्तदाभासम् ॥ २१॥ यथाशिवाख्यस्य राजर्षरसंख्यातद्वीपसमु. Page #45 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः। ३५ देषु सप्तद्वीपममुद्रज्ञानम् ॥ ३० ॥ अननुभूते वस्तुनि तदिति ज्ञानं स्मरणाभासम् ॥ ३१॥ अननुभूते मुनिमण्डलेतन्मुनिमण्डलमितियथा तुल्ये पदार्थ स एवायमित्येकसिश्च तेन तुल्य इत्यादिज्ञानं प्रत्यभिज्ञाभासम्॥३३॥ यमलकजातवत् ॥३४॥ असत्यामपिव्याप्तौतदवभास्ताभासः३५ सश्यामोमैत्रतनयत्वात् इत्यत्र यावान मैत्रतनयः सश्यामः इति यथा ॥३६॥ पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासमवसेयम् ॥३७॥ तत्र प्रतीतानिराकृतानभीप्सितसाध्यवर्मविशेषणास्त्रयः पक्षामासाः ॥३८॥.. Page #46 -------------------------------------------------------------------------- ________________ ३६ प्रमाणनयतत्वालोकालङ्कारः । प्रतीतसाध्यधर्मविशेषणां यथाहतान् प्रत्यवधारणवर्ज परेण प्रयुज्यमानः समस्तिजीव इत्यादि ॥ ३९॥ निराकृतसाध्यधर्मविशेषणः प्रत्याक्षानुमा नागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप्रकारः ॥ ४० ॥ प्रत्यक्षनिराकृतसाध्यधर्म्मविशेषणो यथा नास्तिभूतविलक्षण आत्मा ॥ ४१ ॥ अनुमाननिराकृत्साध्यधर्मविशेषणो नास्ति सर्वज्ञो वीतरगो वा ॥४२॥ आगमनिराकृत साध्यधर्म विशेषणो यथा जैनै रजनिभोजनं भजनीयम् ॥ ४३ ॥ लोकनिराकृतसाध्यधर्म्मविशेषणों यथा नापारमार्थिकः प्रमाणप्रमेयव्यवहारः ॥ ४४ ॥ यथा Page #47 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः। ३७ स्ववचननिराकृतसाध्यधर्माविशेषणो यथा नास्ति प्रमेयपरिच्छेदकं प्रमाणम्॥४५॥ अनभीप्सितसाध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिकएव कलशादिरशासतिक एक्वेति वदतः ॥४६॥असिद्धविरुद्धानकान्तिकास्त्रयोहेत्वाभासाः॥४७॥ यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयतेसोऽसिद्धः॥४८॥ सद्विविध उभयासिद्धोऽन्यतरासिद्धश्च ४९ उभयासिद्धो यथा परिणामीशाब्दश्चाक्षु. षत्वात् ॥५०॥ अन्यतरासिद्धो यथा अचेतनास्तरवो विज्ञा. | नेन्द्रियायुर्निरोधलक्षणमरणरहितत्वात्। ५१। Page #48 -------------------------------------------------------------------------- ________________ ३८ प्रमाणनयतत्त्वालोकालङ्कारः। साध्यविपर्ययेगैव यस्यान्यथानुपपत्तिरध्यासीयते स विरुद्वः ॥५२॥ यथा नित्यएव पुरुषोऽनित्यएव वा प्रत्यभि ज्ञानादिमत्वात् ॥५३॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैका. न्तिकः ॥ ५४॥ सद्देवा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षत्तिकश्च ॥५५॥ निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वात् ।। ५६॥ सन्दिग्यविपक्षवृत्तिको यथा विवादापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥५७॥ साधर्येण दृष्टान्ताभासोनवप्रकारः ॥५८॥ साध्यधर्मविकलः साधनधर्मविकलः उभ Page #49 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः यवमविकलः सन्दिग्धसाध्यधर्म्मा सन्दिधसाधनम्मी सन्दिग्धोभयधमनन्वयोऽप्रदर्शितान्वयां विपरीतान्वयश्चेति५९ । तत्रापौरुषेयः शब्दोऽमूर्त्तत्वादुःखवदिति साध्यधर्म्मविकलः ॥ १ ॥ ६० ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्म्मविकलः ॥ १ ॥ ६१ ॥ कलशवदित्युभयधर्म्मविकलः ॥ १ ॥ ६२ ॥ रागादिमानयं वक्तृत्वाद्देवदत्तवदिति सन्दिग्धसाध्यधर्मा || ३ ॥ ६३ ॥ मरणधर्मायं रागादिमत्वान् मैत्रवदिति संदिग्धसाधनधर्मा || ५ ||६४ ॥ नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धमयधर्मा । ६ । ६५ ।। Page #50 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । रागादिमान् विवक्षितः पुरुषोवक्तृत्वादिष्टपुरुषवादित्यनन्त्रयः । ७ । ६६ ॥ अनित्यः शब्दः कृतकत्वात् घटवदित्य प्रदर्शितान्वयः । ८ । ६७ ॥ अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकं घटवदिति विपरीतान्वयः॥९॥६८॥ वैधर्म्येणापि दृष्टान्ताभासो नवधा ||६९ || असिद्धसाध्यव्यतिरेकोऽसिद्धसाधनव्यतिरेकोऽसिद्धोभयव्यतिरेकः सन्दिग्धसाध्यव्यतिरेकः सन्दिग्धसाधनव्यतिरेकः सन्दिग्वोभयव्यतिरेकोऽव्यतिरेकाऽप्रदर्शितव्यतिरको विपरीतव्यतिरेकश्च ॥ ७० ॥ तेषु भ्रान्तमनुमानं प्रमाणत्वात्यत्पुनभ्रन्तं न भवति न तत् प्रमाणं यथा स्वप्नज्ञानमिति ४० Page #51 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः । ४१ स्वप्न ज्ञानात् भ्रान्त असिद्धसाध्यव्यतिरेकः त्वस्यानिवृत्तेः । १ । ७१ ॥ निर्विकल्पकं प्रत्यक्षं प्रमाणत्वाद्यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमित्य सिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः । २ । ७२ ॥ नित्यानित्यः शब्दः सत्वात् यस्तु न नित्यानित्यः सनसंस्तद्यथा स्तम्भ इत्यसिद्धो. भयव्यतिरेकः स्तम्भान्नित्यान्नित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः । ३ । ७३ ॥ असर्वज्ञांनाप्तो वा कपिलोऽक्षीणकैकान्तवादित्वाद्यः सर्वज्ञ आप्तो वा सक्षणिककान्तवादी यथासुगत इति सन्दिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तत्वयोः साध्य Page #52 -------------------------------------------------------------------------- ________________ ४२ प्रमाणनयतत्त्वालोकालङ्कारः । धर्मयायावृत्तेः सन्दहात् । ४ । ७४ ॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषोरागादिमत्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा शोद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः शौद्धोदनी रागादिमत्वस्य निवृत्तेः संशयात् । ७५॥५॥ नवीतरागः कपिलः करुणास्पदेष्वपि परमकृपयाऽपितनिपिशितशकलवात् यस्तुवीतरागः सकरुणास्पदेषुपरमकृपया समर्पितनिजपिशितशकलस्तद्यथातपनबन्धु रितिसन्दिग्धोभयव्यतिरेकःतपनबन्धौवीतरागत्वाभावस्य करुणास्पदेष्वपि परमकृपया. नपितनिजपिशितशकलत्वस्य च व्यावृत्तेः सन्देहात् । ६॥ ७६ ॥ Page #53 -------------------------------------------------------------------------- ________________ प्रमाणत्रयतत्त्व लोकालङ्कारः 1 ४३ न वीतरागः कश्चिद्विवक्षितः पुरुषोवक्तृवात्यः पुनर्वीतरागो न स वक्ता यथोपलखण्डइत्यव्यतिरेकः । ७७ ॥ ७ ॥ अनित्यः शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः । ७८ ॥ ७ ॥ अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथाकाशमिति विपरीतव्यतिरेकः ॥७९॥२॥ उक्तलक्ष गोल्लङ्घनं नोपनयनिगमनयोर्वचने तदाभासौ ॥ ८० ॥ यथापरिणामीशब्दः कृतकत्वाद्यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकश्च कुम्भ इति च ८१ । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्दइति तस्मात्परिणामी कुम्भ इति वा ॥ ८२ ॥ Page #54 -------------------------------------------------------------------------- ________________ ४४ प्रमाणनयतत्वालोकालङ्कारः। अनाप्तवचनप्रभवंज्ञानमागमाभासम् ।८३। यथा मेकलकन्यकायाः कूले तालहिताल. योर्मूलेसुलभाः पिण्डखजूराः सन्तित्वरितं गच्छत २ शावकाः ॥ ८४ ॥ प्रत्यक्षमबैकं प्रमाणमित्यादि संख्यानं तस्य संख्याभासम् ॥ ८५ ॥ सामान्यमेव विशेषएव तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयामासः ॥ ८६ ॥ अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ ८७॥ इति फलप्रमाणस्वरूपाद्याभासनिर्णयोनाम - षष्ठः परिच्छंदः ॥ ६॥ Page #55 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। ४५ नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः सप्रतिपत्तुरभिप्रायविशेषोनयः ॥ १॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नया. भासः ॥ २॥ सव्याससमासाभ्यान्दिप्रकारः ॥ ३ ॥ व्यासतोऽनेकविकल्पः ॥ ४ ॥ समासतस्तुद्धिभेदो द्रव्यार्थिकः पर्यायार्थि. कश्च ॥५॥ . .... आद्यो नैगमसंग्रहव्यवहारभेदात्त्रेधा ॥६॥ धर्मयोधर्मिणोधर्ममिणोश्चप्रधानोपसर्जनभावेन यद्विवक्षणं सनैकगमोनैगमः ॥७॥ सञ्चैतन्यमात्मनीतिधर्मयोः ॥ ८॥ Page #56 -------------------------------------------------------------------------- ________________ ४३ प्रमाणनयतत्त्वालोकालङ्कारः। वस्तुपर्यायवद्रव्यं इति धमिणोः ॥९॥ क्षणमेकं सुखीविषयासक्तजीवइति धर्मधर्मिणोः ॥१०॥ धर्मद्रयादीनामैकान्तिकपार्थक्याभिसन्धि नँगमाभासः ॥ ११ ॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग् भूते इत्यादि ॥ १२॥ सामान्यमात्रग्राही परामर्शः संग्रहः ॥१३॥ अयमुभयविकल्पः परोऽपरश्च ॥ १४ ॥ अशेषविशेषेष्वौदासीन्यम्भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः संग्रहः१५ विश्वमेकं सदविशेषादिति यथा ॥१६॥ सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषानिरा. चक्ष गस्तदाभासः ॥ १७ ॥ Page #57 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः। ४७ यथासत्तैव तत्त्वन्ततः पृथग्भूतानां विशेष. णामदर्शनात् ॥ १८॥ द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वा. नस्तद्देदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥ १९॥ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणा. मैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥ २० ॥ द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषानिह्नवानस्तदाभासः ॥ २१॥ यथा द्रव्यत्वमेव तत्त्वं ततोर्थान्तरभूतानां द्रव्याणामनुपलब्धेः॥ २२ ॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्य. वहारः ॥ २३ ॥ Page #58 -------------------------------------------------------------------------- ________________ ४८ प्रमाणनयतत्त्वालोकालङ्कारः। यथा यत्सत्तद्रव्यं पर्यायावेत्यादि ॥२४॥ यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ॥ २५॥ यथा चार्वाकदर्शनम् ॥ २६ ॥ पर्यायार्थिकश्चतुर्दा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ॥ २७ ॥ ऋजुवर्तमानक्षणस्थायिपर्यायमाप्राधान्यतः सूत्रयन्नभिप्राय विशेष ऋजुसूत्रः ॥ २८॥ यथासुखविवर्त्तः सम्प्रत्यस्तीत्यादि॥२९॥ सर्वथाद्रव्यापलापीतदाभासः ॥ ३० ॥ यथा तथागतमतम् ॥ ३१ ॥ कालादिभेदेन भनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥३२॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादि। Page #59 -------------------------------------------------------------------------- ________________ प्रमाणनयत्तत्त्वालोकालङ्कारः । ४९ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ३४ यथा बभूव भवति भविष्यति सुमेरुरित्यादयोभिन्नकालः शब्दाभिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्तादृक्सिद्धान्यशव्दवदित्यादिः ॥ ३५ ॥ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहनसमभिरूढः ॥ ३६ ॥ इन्दनादिन्द्रः शकनाच्छकः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ३६ ॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥ ३७॥ यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाभिनाभिधेयाएव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥ ३८ ॥ Page #60 -------------------------------------------------------------------------- ________________ ५० प्रमाणनयतत्वालोकालङ्कारः। शब्दानां स्वप्रवृतिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः।३९। यथेन्दनमनुभवनिन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते।४।। क्रियानाविष्टं वस्तुशब्दवाच्यतया प्रतिक्षिपंस्तुतदाभासः ॥४२॥ यथाविशिष्टचष्टाशून्यं घटाख्यं वस्तु न घट. शब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥ एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थ. नयाःशेषास्तुत्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४४॥ पूर्वः पूर्वोनयः प्रचुरगोचरः परः परस्तु परि. मितविषयः॥४५॥ Page #61 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्वालोकालङ्कारः। ५१ सन्मात्रगोचरात्संगहान्नैगमोभावाभावभूमिकत्वात् भूमविषयः ॥ ४६ ॥ सद्धिशेषप्रकाशकाइयवहारतः संग्रह समस्त. सत्समूहोपदर्शकत्वात्बहुविषयः ॥ ४७॥ वर्तमानविषयादृजुसूत्रादयवहारस्त्रिकालविषयावलम्बित्वादनल्पार्थः ॥ ४८॥ कालादिभेदेन भिन्नार्थोपदर्शिनःशब्दाह. जुसूत्रस्तविपरीतवेदकत्वान्महार्थः॥४९॥ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छब्दस्तादपर्ययानुयायित्वात् प्रभूतविषयः ॥ ५० ॥ प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः ॥५१॥ Page #62 -------------------------------------------------------------------------- ________________ ५२ प्रमाणनयतत्त्वालोकालङ्कारः। नयवाक्यमपिस्वविषये प्रवर्त्तमानं विधि: प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति॥ ५२ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ॥५३॥ प्रमाताप्रत्यक्षादिप्रसिद्धआत्मा ॥ ५४॥ चैतन्यस्वरूपः परिणामीकर्ता साक्षाभोक्तास्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पौद्गलि. कादृष्टवांश्वायम् ॥ ५५॥ तस्योपात्तपुंस्त्रीशरीरस्य सम्यग्ज्ञानक्रियाभ्यां कृत्स्नकर्मक्षयस्वरूपासिद्धिः ॥ ५६ ॥ इति श्रीदेवाचार्यनिर्मिते प्रमाणनयतत्वालोकालङ्कारेनयात्मस्वरूपनिर्णयो नाम सप्तमः परिच्छेदः ॥ ७ ॥ Page #63 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। ५३ अष्टमः परिच्छेदः । विरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेनस्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषणवचनं वादः॥१॥ प्रारम्भकश्चात्र विजिगीषुस्तत्त्वनिर्णिनीषुश्च स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छर्जिगीषुः॥ ३॥ तथैव तत्त्वंप्रतितिष्ठापयिषुस्तत्वनिर्णिनीषुः४ अयं च वेधा स्वात्मनि परत्र च ॥५॥ आद्यः शिष्यादिः ॥ ६॥ द्वितीयोगुर्वादिः ॥७॥ अयं द्विविधः क्षायोपशमिकज्ञानशाली केवली च ॥८॥ एतेन प्रत्यारम्भकोपि व्याख्यातः ॥९॥ तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्गए Page #64 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः । वान्यतमस्याप्यङ्गस्यागाये जयपराजयव्यवस्थादिदौ स्यापत्तेः ॥१०॥ द्वितीये तृतीस्य कदाचिद्वयङ्गः कदाचित्र्यङ्गः तत्रैव दस्तुरीयस्य ॥१२॥ तृतीयप्रथमादीनां यथायोगं पूर्ववत् ॥ १३ ॥ तुरीयेप्रथमादीनामेवम् ॥ १४॥ वादिप्रतिवादिसभ्य सभापतयश्वत्वार्य्यङ्गानि प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥ १६ ॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥१७॥ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभाक्षान्तिमाध्यस्थैरुभयाभि मताः सभ्याः ॥ १८ ॥ ५४ Page #65 -------------------------------------------------------------------------- ________________ प्रमाणनयतत्त्वालोकालङ्कारः। ५५ वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारेणाप्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरन्तत्त्वप्रकाशनेन कथाविरमणं यथासंभः वं सभायांकथाफलकथनं चैषांकर्माणि ॥१९॥ प्रज्ञाज्ञैश्चर्यक्षमामाध्यस्थ्यसंपन्नःसभापतिः। वादिसभ्याभिहितावधारणकलहव्यपोहादिकं चास्य कर्म ॥२१॥ सजिगीषुकेऽस्मिन्यावत्सम्यापेक्षं स्फूर्तीवक्तव्यम् ।।२२॥ उभयोस्तत्त्वनिर्णिनीषुत्वेयावत्तत्त्वनिर्णय यावत्स्फूर्ति च वाच्यम् ॥ २३ ॥ इतिश्रीदेवाचार्यनिर्मितेप्रमाणन यतत्वालोकालङ्कारेवादिप्रतिवादिन्यायनिर्णयोनामाष्टमः पारच्छेदः ॥ ८॥ - . Page #66 -------------------------------------------------------------------------- ________________ SRN mका इदं पुस्तकं काश्यां चन्द्रप्रभामुद्रणालये मुद्रितम् । Page #67 --------------------------------------------------------------------------  Page #68 -------------------------------------------------------------------------- ________________ शुद्धिपत्रम् / पृष्ठः पंक्तिः अशुद्धम् शुहम् 28 5 तस्याऽपि तस्याअपि। 30 9 पर्यायस्तू पर्यायस्तु / बुध्यादिना बुद्धयादिना। 35 9 अवमा अवभास। र 11 स श्यामः इति स श्याम इति 15 सन्दिग्धो मय सन्दिग्धोभय / 10 नित्यानित्य नित्यानित्य / _____12 क्षीणक क्षणिक। 47 2 विशेषणाम् / विशेषाणाम् / 54 4 तृतीस्य तृतीयस्य