________________
४४ प्रमाणनयतत्वालोकालङ्कारः।
अनाप्तवचनप्रभवंज्ञानमागमाभासम् ।८३। यथा मेकलकन्यकायाः कूले तालहिताल. योर्मूलेसुलभाः पिण्डखजूराः सन्तित्वरितं गच्छत २ शावकाः ॥ ८४ ॥ प्रत्यक्षमबैकं प्रमाणमित्यादि संख्यानं तस्य संख्याभासम् ॥ ८५ ॥ सामान्यमेव विशेषएव तद्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयामासः ॥ ८६ ॥ अभिन्नमेव भिन्नमेव वा प्रमाणात्फलं तस्य तदाभासम् ॥ ८७॥ इति फलप्रमाणस्वरूपाद्याभासनिर्णयोनाम
- षष्ठः परिच्छंदः ॥ ६॥