________________
प्रमाणनयतत्त्वालोकालङ्कारः। ११ धानःकः खलु न पक्षप्रयोगमङ्गीकुरुते॥२३॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायिवचनं परार्थ प्रत्यक्षं परप्रत्यक्षहेतुतात् ॥२४॥ यथा पश्य पुरः स्फुरत्किरणमणिखण्डमण्डि. ताभरणभारिणीं जिनपतिप्रतिमामिति२५॥ पक्षहेतुवचनलक्षगमवयवद्वयमेव परप्रतिपत्तेरङ्गं न दृष्टान्तादिवचनम् ॥२६॥ हेतुप्रयोगस्तथापपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारः ॥२७॥ सत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः। असति साध्य हेतोरनुपपत्तिवान्यथानुपपत्तिः२८ यथा कृशानुमानयंपाकप्रदेशः सत्येव कृशानुमत्त्वे धूमवत्वस्यापपत्तेरसत्यनुपपत्तेति२९