________________
अष्टमपरिच्छेदे-वादिप्रवादिन्यायनिर्णयः । एतद्ग्रन्थमुद्रणावसरे पञ्चषाणि पुस्तकानि प्राप्तानि, तेषांमध्ये १ श्री महामान्यधन्यतम धर्मविजयमुनीन्द्रतो लब्धमेकं
पुस्तकम् । २ श्री मुनिराज वीरविजयेन दत्तमेकं पुस्तकम् । ३ श्रीमुनिना अमिविजयेन महाशयेनापिपुस्तकमेकंसमर्पितम्। ४ श्रीकेशरविनयमुनितोपि पुस्तकमेकं समासादितम् ।
५ भावनगरस्थश्राद्धवर्य कुंवरजी आनन्दजी इत्यनेन श्रावकेनात्र महती सहायता दत्ता ।।
६ श्रीपं. अम्बादत्तशास्त्रिणां समीपेपुस्तमेकमाप्तम् ।
पूर्वोक्तमहाशयानां भूयांसं परिश्रमं चोपकृतिं च तेषां सप्रश्रयमङ्गीकरोतीयं पाठशाला । यद्यपि पूर्वोक्तानि पुस्तकानि दृष्ट्वा शोधितोयं ग्रन्थस्तथापि मनुष्यसहभान्तिदुर्वारा तदत्र दृष्टिदोषात् शीशकाक्षरयोजनदोषावा या काचना ऽशुद्धिर्भवेत् तत्स्वपुस्तके परिमृज्य कृपया पाठशालामपि सूचयेयुः सज्जनाः इतिप्रार्थयते
काशीस्थजैनयशोविजयसंस्कृतपाठशाला ।