________________
८ प्रमाणनयतत्त्वालोकालङ्कारः। बोधसंभूतमनुभूतार्थविषयं तदित्याकार संवेदनं स्मरणम् ॥१॥ ततीर्थकरबिम्बमिति यथा ॥२॥
अनुभवस्मृतिहेतुकं तिर्यगूर्द्धतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम्३ यथातजातीयएवायं गोपिण्डो गोसदृशोगवयः स एवायं जिनदत्त इत्यादि ॥४॥ उपलम्मानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसंबन्धाद्यालम्बनमिदमास्मिन् सत्येवभवतीत्याद्याकारं संवेदनमूहापरनामा तर्कः ॥५॥ यथा यावान् कश्चित्धूमःस सर्वोवह्नौमत्येवभवतीति तस्मिन्नसत्यमौ नभवत्यवेति ॥ अनुमानं द्विप्रकार स्वार्थ परार्थं च ॥७॥