________________
प्रमाणनयतत्त्वालाकालङ्कारः ।
तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् || ८॥ निश्चिनान्यथानुपपत्त्येकलक्षणो हेतुः॥९॥ नतु विलक्षणकादिः ॥१०॥ तस्य हेत्वाभासस्यापिसम्भवात् ॥११॥ अप्रतीतमनिराकृतमभीप्सितं साध्यम्॥१२॥ शङ्कितविपरीतानध्यासितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतवचनम् ॥ १३ ॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यता मित्यनिराकृतग्रहणम् ॥१४॥ अनभिमतस्यासाध्यत्वप्रतिपत्तये भीप्सितपदोपादानम् ॥ १५॥ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्मएवान्यथा तदनुपपत्तेः ॥१६॥