________________
२२
प्रमाणन्यतत्त्वालांकालङ्कारः ।
विरुद्ध कार्यकारणस्वभावव्यापकसहचरा
नुपलम्भभेदात् ॥ १०० ॥ विरुद्ध कार्यानुपलब्धिर्यथाऽत्रशरीरिणि रोगातिशयः समस्ति निरोगव्यापारानुपलब्धेः॥१०१॥ विरुद्धकारणानुपलब्धिर्यथा विद्यते ऽत्र प्रागिनि कष्टमिष्टसंयोगाभावात् ॥१०२॥ विरुद्धस्वभावानुपलब्धिर्यथा वस्तुजातमनेकान्तात्मकमेकान्तस्वभावानुपलम्भात १०३ विरुद्धव्यापकानुपलब्धिर्यथा ऽस्त्यत्र च्छाया औष्ण्यानुपलब्धेः ॥ १०४॥ विरुद्धसहचरानुपलब्धिर्यथा ऽस्त्यस्य मिध्याज्ञानं सम्यग्दर्शनानुपलब्धेः ॥१०५॥ इतिस्मरणप्रत्यभिज्ञान तर्कानुमानस्वरूपनिर्णयानामतृतीयः परिच्छेदः ॥ ३ ॥