________________
प्रमाणनयतत्वालोकालङ्कारः
1 २३
आप्तवचनादाविर्भूतमर्थ संवेदनमागमः॥१॥
उपचारादाप्तवचनञ्च ॥ २ ॥ यथा समस्त्यत्र प्रदेशे रत्ननिधानं सन्ति रत्न
सानुप्रभृतयः ॥ ३॥ अभिघयं वस्तु यथावस्थितं योजानीते यथा ज्ञातञ्चाभिधत्ते स आप्तः ॥ ४ ॥ तस्य हि वचनमविसंवादि भवति ॥ ५ ॥ सच देवा लौकिकोलोकोत्तरश्च ॥ ६ ॥ लौकिको जनकादिर्लोकोत्तरस्तु तीर्थकरादिः ॥ ७ ॥
वर्णपदवाक्यात्मकं वचनम् ॥ ८ ॥ अकारादिः पौडलिको वर्णः ॥ २ ॥ वर्णानामन्योन्यापेक्षाणां निरपेक्षा संहतिः
पदं पदानान्तु वाक्यम् ॥ १० ॥