________________
२४ प्रमाणनयतत्त्वालोकालङ्कारः। स्वभाविकसामर्थ्यसमयाभ्यामर्थबांधनिबन्धनं शब्दः ॥ ११॥ अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवत् यथार्थत्वायथार्थत्वे पुनः पुरुषगुणदोषावनुसरतः ॥ १२॥ सर्वत्रायं धनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति ॥१३॥ एकत्र वस्तुन्यकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोःसमस्तयाश्च विधिनिषेधयाः कल्पनया स्यात्काराङ्कित सप्तधावाप्रयो। गः सप्तमङ्गी ॥१४॥ तद्यथा स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमोभङ्गः ॥१५॥ स्यानास्त्येव सर्वमितिनिषेधकल्पनया द्वितीयः ॥ १६॥