________________
प्रमाणत्रयतत्त्व लोकालङ्कारः ।
विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्चौ सप्त
प्रकारा ।। ७९ ॥ तत्राद्या स्वभावविरुद्धोपलब्धिर्यथा ॥८०॥ नास्त्येव सर्वथैकान्तोनेकान्तस्योपलम्भात ८१ प्रतिषेध्यविरुद्धव्याप्तादीनामुपलब्धयः षट्ट२ विरुद्धव्याप्तोपलब्धिर्यथा नास्त्यस्य पुंसस्त त्रेषु निश्चयस्तत्र सन्देहात् ॥ ८३ ॥ विरुद्धकार्योपलब्धिर्यथा न विद्यते ऽस्य कोधाद्युपशान्तिर्वदनविकारादः ॥ ८४ ॥ विरुदकारणापलब्धिर्यथा नास्य महर्षेरसत्यं वचः समस्तिरागद्वेषकालुष्याकलङ्कितज्ञानसंपन्नत्वात् ॥ ८५ ।। विरुद्धपूर्व चरोपलब्धिर्यथा नोदुगमिष्यति मुहूर्त्तान्ते पुष्यतारा रोहिण्युद्गात् ॥ ८६ ॥