________________
१८ प्रमाणनयतत्त्वालोकालङ्कारः। न्तरीयको यथा वान्ध्येयःप्रयत्नानन्तरीयकश्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्थ साध्येनाविरुद्धस्योपलब्धिः साधर्म्यग वै. धर्मेणच ॥७३॥ अस्त्यत्र गिरिनिकुञ्ज धनञ्जयो धूमसमुपलम्भादिति कार्यस्य ॥ ७४ ॥ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य ॥७५॥ उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य ॥ ७६ ॥ उदगुर्मुहूर्त्तात्पूर्वपूर्वफल्गुन्यउत्तरफल्गुनीनामुद्गमोपलब्धेरित्युत्तरचरस्य ॥ ७७ ॥ अस्तीह सहकारफले रूपविशेषः समासाद्य. मानरसविशेषादिति सहचरस्य ॥ ७८॥