________________
प्रमाणनयतत्त्वालोकालङ्कारः। १५ विविः सदंशः प्रतिषेधोऽसदंशः॥५३॥ सचतुर्दा प्रागभावः प्रध्वंसाभाव इतरेतराभावात्यन्ताभावश्च ॥५४॥ यन्निवृत्तावेव कार्यस्यसमुत्पत्तिः सोस्यप्रा. गभावः ।।५५॥ यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्डः ॥५६॥ यत्पत्तो कार्यस्यावश्यं विपत्तिः सोस्य प्रधंसाभावः ॥५७॥ यथा कपालकदम्बकोत्पत्तौ नियमतोविपद्यमानस्य कलशस्य कपालकदम्बकम् ॥५०॥ स्वरूपान्तरात स्वरूपव्यावृत्तिरितरतराभावः यथा स्तंभस्वभावात् कुंभस्वभावव्यावृत्तिः६० कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावः ॥६१॥