________________
प्रमाणनयतत्वालोकालङ्कारः
यवमविकलः सन्दिग्धसाध्यधर्म्मा सन्दिधसाधनम्मी सन्दिग्धोभयधमनन्वयोऽप्रदर्शितान्वयां विपरीतान्वयश्चेति५९ । तत्रापौरुषेयः शब्दोऽमूर्त्तत्वादुःखवदिति साध्यधर्म्मविकलः ॥ १ ॥ ६० ॥ तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवदिति साधनधर्म्मविकलः ॥ १ ॥ ६१ ॥ कलशवदित्युभयधर्म्मविकलः ॥ १ ॥ ६२ ॥ रागादिमानयं वक्तृत्वाद्देवदत्तवदिति सन्दिग्धसाध्यधर्मा || ३ ॥ ६३ ॥ मरणधर्मायं रागादिमत्वान् मैत्रवदिति संदिग्धसाधनधर्मा || ५ ||६४ ॥ नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धमयधर्मा । ६ । ६५ ।।