________________
३८ प्रमाणनयतत्त्वालोकालङ्कारः। साध्यविपर्ययेगैव यस्यान्यथानुपपत्तिरध्यासीयते स विरुद्वः ॥५२॥ यथा नित्यएव पुरुषोऽनित्यएव वा प्रत्यभि ज्ञानादिमत्वात् ॥५३॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैका. न्तिकः ॥ ५४॥ सद्देवा निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षत्तिकश्च ॥५५॥ निर्णीतविपक्षवृत्तिको यथा नित्यः शब्दः प्रमेयत्वात् ।। ५६॥ सन्दिग्यविपक्षवृत्तिको यथा विवादापन्नः पुरुषः सर्वज्ञो न भवति वक्तृत्वात् ॥५७॥ साधर्येण दृष्टान्ताभासोनवप्रकारः ॥५८॥ साध्यधर्मविकलः साधनधर्मविकलः उभ