________________
( ३ )
जाताः सलभा इव परिपतन्ति ते लभन्ते न स्वात्मविना शाहते किञ्चिदपि भावुकम् ।
श्रीवादिदेवसूरिभगवतोऽन्तेवासी श्रीरत्नप्रभसूरिर्वसुलोकार्क १२३८ मिते विक्रमाब्दे निजनिर्मितोपदेशमालाटीकायामेवं व्यलेखीत् ।
शिष्यः श्रीमुनिचन्द्रसूरिमुनिभिर्गीतार्थचूडामणिः पट्टे स्वे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः । अस्थाने जयसिंहदेवनृपतेर्येनास्तदिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ॥ तत्पट्टप्रभवोभवन्नथ गुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनाम् ॥
तथा च ।
विक्रमाद वलोकार्क १२३८ वर्षे माघे समर्थिता एकादश सहस्राणि मानं सार्धं शतं तथा ॥ १११५० अस्माद् श्रीरत्नप्रभसूरेः समयः स्फुटमेवावभाति -