Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुप्रकाशनम् - ३
पञ्चसूचकम्
उपाध्याय श्रीभुवनचन्द्र कृत - संस्कृतपद्यानुवाद समेतं
HTTARATHI.ME
सं, कीर्तित्रयी
Juli Education International
for larvele & Pusomal Use Only
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुप्रकाशनम् - ३
श्रीहरिभद्रसूरिसन्हब्ध उपाध्याय श्रीभुवनचन्द्र कृत - संस्कृतपद्यानुवाद समेतं
पञ्चसूत्रकम्
कीर्तित्रयी
नादयः
जयतुभव
R
HERE शिशु
प्रकाशकः श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा वि.सं. २०६२
इ.स. २००६
Page #3
--------------------------------------------------------------------------
________________
पञ्चसूत्रकम् (Illustrated Versified Translation of Panchasutra of Haribhadrasuri in Sanskrit)
सं. कीर्तित्रयी
प्रथमं मुद्रणम्
वि.सं. २०६३ इ.स. २००७
© सर्वाधिकाराः स्वायत्ताः
प्रकाशकः
श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा.
प्रतिकृतयः
१०००
मूल्यम्
१२५/
प्राप्तिस्थानम्
श्री विजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर १२, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, पालडी, अमदावाद - ३८०००७
चित्रकार
श्रीनैनेश सरैया, सुरत
Designing elu Printing by
AnandShah
M.: 9825011414 E.: prarambhdzine@gmail.com
Page #4
--------------------------------------------------------------------------
________________
समर्पणम् समर्पोते ग्रन्थमणिः किलैष मुनीशजम्बूविजयाय प्रेम्णा । सम्पादकै श्वाऽप्यनुवादकेन भक्तिप्रणुन्नैर्चिबुधोत्तमाय ॥
Page #5
--------------------------------------------------------------------------
________________
पृष्ठम्
२९
शुद्धिपत्रकम् श्लोकक्रमाङ्कः अशुद्धम्
रुचिः लोका दारा न क्रिया
पृथिगह (पङ्क्तिः )५
गृणाति
शुद्धम् रुचिरः लोको दारान्न क्रियाः पृथगिह
गुरुं
२७
गृह्णाति
१९
न तथा
नु तथा
द्रव्यसाहाय्यम् शासनसम्राट-समुदायवर्तिसाध्वीश्रीश्रीमतीश्रीशिष्या-साध्वीचारूप्रज्ञाश्री-उदययशाश्री-चन्द्रलेखाश्री प्रेरणया ज्ञानद्रव्यतः । शासनसम्राट्-समुदायवर्तिसाध्वीश्रीदेवीश्रीशिष्या-साध्वीश्री
राजेन्द्रप्रभाश्री प्रेरणया ज्ञानद्रव्यतः । ३. उपा.श्रीभुवनचन्द्रजीप्रेरणया ज्ञानद्रव्यतः, मोटी खाखर
(कच्छ)सत्क-पार्श्वचन्द्रगच्छ जैन संघ ।
Page #6
--------------------------------------------------------------------------
________________
सम्पादकीयम्
नन्दनवनकल्पतरुप्रकाशनश्रेण्यास्तृतीयग्रन्थत्वेन सचित्रं सानुवादं च श्रीपञ्चसूत्रकम् इह प्रकाश्यते - इत्ययं प्रमोदावहो वृत्तान्तः । इतः पूर्वमस्यामेव श्रेण्यां हास्यमेव जयते तथा सागरविहङ्गमः इति द्वे पुस्तके प्रकाशिते। प्रस्तुते पुस्तके सूरिपुरन्दरश्रीहरिभद्रसूरिविरचितस्य प्राकृतभाषामयस्य श्रीपञ्चसूत्राभिधग्रन्थस्य पञ्चानामपि सूत्राणां संस्कृतभाषायां छन्दोबद्धोऽनुवादस्तत्तद्भावानुसारिभिश्चित्रैः सह प्रकाशितोऽस्ति । तथा सूत्रमर्मविशदीकरणार्थं टीकात उद्धृतानि कानिचित् सूत्रात्मकवाक्यान्यपि टिप्पणीरूपेणाऽत्र निर्दिष्टानि । अनुवादो ह्ययं चारुकवित्वक्षमतायुतेन गभीरभाषाज्ञान-तीक्ष्णप्रज्ञाबलाच्च शास्त्रमर्मोद्घाटननिपुणेन पार्श्वचन्द्रगच्छीय-पूज्योपाध्यायश्रीभुवनचन्द्रजीमहाराजेन कृतोऽस्ति । हरिभद्रसूरीवचनानां भाषानुवादोऽपि कियान् कठिन इति तु तदीयग्रन्थाभ्यासिनो विदन्त्येव । एतावता तेषां मर्म गृहीत्वा संस्कृतभाषायां पद्यबन्धैश्चाऽनुवादकरणकाठिन्यं तु विद्वज्जनानामेवाऽनुमानगोचरम् । एते पञ्चाऽप्यनुवादा नन्दनवनकल्पतरोरन्यान्यशाखासु प्रकाशिताः सन्ति । अतोऽस्माभिश्चिन्तितं यत् पञ्चानामप्यनुवादानां सम्मील्यैकं पुस्तकं यदि नन्दनवनकल्पतरुप्रकाशनश्रेणावेव प्रकाश्येत तदोचितम्' इति । अथ चैतदर्थमस्माभिः श्रीउपाध्यायमहाराजपाद्वेऽनुमतिर्याचिता तैश्च सानन्दं प्रदत्तेति कार्तझ्यं निवेदयामः । सहैव, विद्वज्जनवल्लभैः पूज्याचार्यश्रीविजयप्रद्युम्नसूरिभिः स्वीयैः पुरोवचनैः पुस्तकमेतत् समलङ्कतमिति तेषामप्याभारं मन्यामहे । प्रान्ते, पुस्तकमेतत् पठित्वा सुज्ञाः पञ्चसूत्रस्य भावानवगच्छेयुरनुसरेयुश्चेत्यभिलाषोऽस्माकम्।
फाल्गुनकृष्णतृतीया, वि.सं. २०६३ गिरनारतीर्थम्
कीर्तित्रयी (मुनिरत्नकीर्तिविजय-धर्मकीर्तिविजयकल्याणकीर्तिविजयाः)
Page #7
--------------------------------------------------------------------------
________________
॥ सिद्धं मनोवाञ्छितम् ॥
नित्यं स्वाध्याय-संयमरतानां साधूनां शब्दसंयमोपासना कदाऽर्थवती भवेत् ? यदा तया उपासनया संसारवृक्षमूलानां कषायाणां मन्दता स्यात् तदा सा उपासना फलवती भवेत् । यदा कषायाणां मन्दता भवति तदा मनसि संकल्पविकल्पमालाकुला विचारधारा न संभवति ; समत्वं च समुच्छलति । प्रत्युत मनः स्तिमितोदधिसन्निभं भवति ।
,
अन्ततो गत्वा स्वाध्यायसंयमसाधनायाः फलं तु आत्मदर्शनमेव गीयते । तत्र आत्मनि न तर्काः, न शब्दाः तेन निःशब्दत्वं निर्विचारत्वं च साध्यं भवति । तस्य साधने द्वे शास्त्रसंपर्क: शास्त्रज्ञसंपर्कश्च । शास्त्र - शब्दसाधना तदा समीचीना प्रतिभाति यदा निःशब्दत्वे प्रचुरा प्रीतिः सम्पद्यते । तेन कषायमन्दताकृते शास्त्राभ्यास उपादेयः, कषायमन्दता यदा सम्पादिता स्यात् तदा तदा शब्दव्यापारः परम-समीचीनो भवति ।
कथम् एतद् भवति ?
ये शब्दाः कषायमन्दतायाः कारणं भवन्ति ते शास्त्रज्ञहृदयगुहाया: प्रकटीभूता भवन्ति । येषां शास्त्रज्ञमहर्षीणां जीवने कषाया मन्दीभूता भवन्ति तेषां वचनानि कषायजये सहायभूतानि भवन्ति ।
इदं पञ्चसूत्रकं तादृशेन महर्षिणा रचितमस्ति । तदभ्यासात् निश्चितं कषायवृत्तीनां मन्द-मन्दतर-मन्दतमावस्थालाभो जायते इति निश्चप्रचम् ।
एकदा मे मनसि एतादृक् सङ्कल्पः समुद्भूतः । गभीरार्थभृतानि पञ्चसूत्राणि यदि गीर्वाणगिरि पद्यबद्धानि स्युस्तदाऽऽत्मदर्शनलिप्सूनां साधकानां तत्कण्ठस्थकरणं सुकरं भवेत् । विद्वद्वरेण्यैर्मन्मित्रवर्यैः साधकोत्तमैरुपाध्यायपदालङ्कृतैः श्रीभुवनचन्द्रैस्तत् कार्यं सहजतया परिपूर्णं कृतम् ।
तत्सर्वं ज्ञात्वा मन्मनोमयूरो हर्षभरेण नृत्यति वदति च सिद्धं मनोवाञ्छितम् इति श्रीः ।
मार्गशुक्ल एकादशी २०६३, भावनगर
श्रीनेमि - अमृत - देवसूरिपट्टालङ्कारहेमचन्द्रसूरिशिष्यः प्रद्युम्नसूरिः
$
Page #8
--------------------------------------------------------------------------
________________
किञ्चिद्वक्तव्यम् श्रीजिनशासनस्य चित्कोशे रत्नोपमान्यनेकानि शास्त्राणि विद्यन्ते । श्री पञ्चसूत्रेत्यभिधानं शास्त्रं तेष्वन्यतमं परमपावनमर्थगम्भीरमध्यात्म-पथदिग्दर्शकं साधकवर्गप्रियं चेति विदितमेव विदुषाम् । आत्मनः परमात्मतां प्रति विकासयात्रा कस्माद् बिन्दोरारभ्यते ? अस्या ऊर्ध्वयात्रायाः सोपानानि भवितुमर्हन्ति, कानि तानि सोपानानि ? कश्च तदुपलब्ध्युपायः ? एतादृशप्रश्नानामधिकृतं समाधानं यः कोऽपि विज्ञातुमभिलषेत्तेन श्रीमत्पञ्चसूत्रकमिदं सम्यक् परिशीलनीयं स्यात् । शास्त्रेऽस्मिन् पञ्च विभागाः सन्ति - १. पापप्रतिघात-गुणबीजाधानसूत्रम् । २. साधुधर्मपरिभावनासूत्रम् । ३. प्रव्रज्याग्रहणविधिसूत्रम् । ४. प्रव्रज्यापरिपालनासूत्रम् । ५. प्रव्रज्याफलसूत्रम् । गुणबीजाधानादारभ्य प्रव्रज्याफलरूपमुक्तिं यावत् यां यां भूमिकां साधकः स्पृशति तस्यास्तस्या लक्षणानि साधकमनःपरिणतावेव लक्ष्यानि स्युः। शास्त्रेऽस्मिन् तत्तद्भूमिकासंस्थितस्य साधकस्य विचारश्रेणयः संदर्शिताः, यदनुसारतस्तत्तद्भूमिकायां तस्य व्यवहाराः प्रतिफलन्ति । मनोव्यापारगतानि तानि लक्षणानि शास्त्रेऽस्मिन् सम्यगुपदर्शितानि । एतदाधारेणाऽऽराधकः स्वीयाचरणपरीक्षणं स्वभूमिकानिर्धारणं च सुखेन कर्तुं क्षमो भवति । प्राकृतभाषानिबद्धस्याऽस्य शास्त्रस्य रचयिता कोऽपि चिरन्तनाचार्य इत्यनुश्रुतिजैनसाहित्यक्षेत्रेऽनुवर्तते। विषय-शैली-शब्दप्रयोग-धर्मपरीक्षाग्रन्थगतोल्लेखादिबाह्यान्तरप्रमाणैः परीक्षिते सति कृतिरेषा समदर्शिनो हरिभद्राचार्यस्यैव संभाव्यते इति श्रीविजयशीलचन्द्रसूरिमतं, ममाऽपि च तत्सङ्गतं प्रतिभाति । सूत्रस्याऽस्य वृत्तिस्तु हरिभद्राचार्य-विरचितैव, तत्र च सूरीणां विवरणरीतिरपि मूलकार-वृत्तिकारयोरेकतामभिव्यनक्ति । सूत्रे बहूनि स्थानानि सन्ति यत्र विवरणमपेक्ष्यते, किन्तु वृत्तिकारस्तत् सुगमं मन्यमान इव न विवृणोति, नाममात्रं वा विवृणोति । मूलकाव्यतिरिक्तो यदि वृत्तिकारः स्यात्तदा विस्तरेण विवरणं कुर्यादेव। यत्र तत्र स्वाभिप्रायं विशदीकर्तुमर्थविशेषं पूरयितुं वा
Page #9
--------------------------------------------------------------------------
________________
ग्रन्थकार एव वृत्तिमाध्यमेन पूर्तिं करोतीत्येतद् वृत्तिपरिशीलनेन विद्वांसः प्रतीयुरेव । हारिभद्रीयान्यकृतिभिः शैलीसादृश्यं विषयवस्तुसादृश्यं चाऽपि तुलनार्हम्। वृत्त्यन्ते वीक्ष्यमाणाः “समाप्तं पञ्चसूत्रकं व्याख्यानतोऽपि " इत्येते शब्दा मूलकारेण सह तादात्म्यं विना वृत्तिकृल्लेखिनीतः कथङ्काएं निःसृताः स्युः ? ग्रन्थ- तद्वृत्त्योरेककर्तृकत्वे हि "समाप्तो ग्रन्थः समाप्ता च तदृत्तिः" इत्यर्थकवाक्यस्य सार्थक्यम् ।
शास्त्रमिदमध्यात्मरसिकानां प्रियं प्रेरणास्त्रोतश्च । अस्य प्रथमसूत्रस्य पाठोऽनेकैः गृहि त्यागिजनैरनुदिनं विधीयते । द्वितीयादीनि सूत्राण्युत्तरोत्तरं कठिनानि, सूत्रात्मिका च शैलीति तदर्थावबोधो न सुगमः । स्यादेष सुगमः स्याच्चेदं शास्त्रं संस्कृतेऽवतीर्णमिति विहितोऽयं संस्कृतगिरा छन्दोबद्धानुवादस्य प्रयासो मया। वाक्यपूर्तये स्पष्टीकरणाय च वृत्तिगतशब्दानामसकृद्ग्रहणमत्र कृतमस्ति । अन्यथा मूलसूत्रगतशब्दावलिरेव गृहीता । छन्दोऽनुरोधेन कुत्रचित् समानार्थकशब्दान्तराण्युपयोक्तव्यानि जातानि । प्रयासोऽयं कियान्मूलसूत्रानुगतः, कियान् सफलः समुचितो वा तत्तु गुणागुणविवेकिनस्तद्विदो विद्वांस एव वक्तुमर्हन्ति । अत्र यत्किचिद्वितथं विपरीतं वा संदृब्धं स्यात्तन्मे दुष्कृतं गर्हाम, मिथ्या मे दुष्कृतं स्यादिति प्रार्थयामि च । अस्मिन्ननुवादकार्ये मम प्रेरयिताऽस्ति विद्वद्वरो विद्वज्जनवत्सलश्चाऽऽचार्यो मम धर्ममित्रं श्रीविजयप्रद्युम्नसूरिः । धर्मस्नेहं सत्यापयन्नसौ पुनः पुनरनुवादकरणे प्रेरितवान् माम् । तथैव च सन्मार्मिकः साहित्यसेवाव्यसनी संशोधनशील: श्रीविजयशीलचन्द्रसूरिश्चाऽनुवादसंशोधनं कृतवान्, 'नन्दनवनकल्पतरु' नाम्नि सामयिकपत्रे प्रकाशितवान्, अथ च मूलसूत्रेण सह पद्यानुवादमिमं पुस्तकस्वरूपेण मुद्रापितवानपि ।
I
तपागच्छे शासनसम्राडित्युपाख्याधारिणां श्रीमतां विजयनेमिसूरीश्वराणामन्वये विराजमानयारेतयोर्द्वयोर्धर्ममित्रयोः सूरिवर्ययोः साहाय्यं सौजन्यं सद्भावं च केनोपायेन प्रतिविदध्याम् - इत्येतदजानन्नहं धर्मस्थानयोरेनयोः सुकृतं सुकृतानुरागं च भावतोऽनुमोदयामि ।
अनुवादकालेऽनुप्रेक्षा- घोलना - धारणादिव्यापृततया य: शुभो मनोयोगः साधितः, सूत्रपङ्क्तिमर्मस्फोटे यश्च प्रमोदोऽनूभूतः, चित्तचमत्कृतिकरेण तात्पर्यबोधेन
Page #10
--------------------------------------------------------------------------
________________
या धर्मोत्साहवृद्धि-र्गिविशुद्धिश्च समासादिता - सर्वं शुभानुबन्धि सुकृतमिदं दुष्कृतविरहाय विशिष्टतरसुकृतलाभाय च मे भूयादित्याशासमानो विरमामि ।
उपाध्यायो भुवनचन्द्रः
ध्रांगध्रानगरम् । सं. २०६२ आश्विनकृष्णैकादशी ।
Page #11
--------------------------------------------------------------------------
________________
Introduction
Panchasutra occupies a position of high esteem in the noncanonical scriptures of Jains. It is written in the Prakrita language and deals with the description of the gradual phases of soul's upward Journey. What is the starting point of soul's upward march? What are Soul's mental as well as physical acts and struggles that mark its particular state of development? What are its perceptions and ponderings underlying its behaviour and actions on the path? In this sutra, one can find answers to such queries, depicted in a very pragmatic and functional style and still coloured with idealistic fervor.
In other words, in this treatise, we can see a complete picture of aspirant's assent to his ultimate goal. This treatise inspires and gives guidence to a seeker coming from any religion or tradition.
Of course, the theoratical side is also present here, but it is limited to the later part and that also not as a debate, but as a part of clarification of the particular point.
Panchasutra contains five chapters having names suggestive of their contents:
1. A sutra on combating evil and sawing seeds of virtues. 2. A sutra on preparing oneself for an ascetic life. 3. A sutra on the proper course of getting initiated. 4. A sutra on proper practice of asceticism. 5. A sutra on the results of asceticism.
Traditionally Panchsutra is believed to be a work of some unknown ancient Jain Acharya, but recently found proofs indicate that it might be a work of Shri Haribhadra Suri,
Page #12
--------------------------------------------------------------------------
________________
a prolific and authentic writer and a great Jain Acharya (700-770 A.D.). He has also written a Sanskrit commentary on Panchsutra, though concise, but exposing and expounding the meanings beautifully.*
In this edition, the text of Panchasutra is given along with its Sanskrit translation in verseform. Some quotations from the commentary are also placed here and there for better comprehension of the particular point in the text.
Upadhyaya Bhuvanchandra
For critically edited text and commentary, see 'Panchasutrakam', ed. by Muniraja Shri Jambuvijayji, 1986, B. L. Institute of Indology, Delhi.
*
Page #13
--------------------------------------------------------------------------
________________
सुस्वागतम्
प्रपञ्चसूत्रे परितः प्रवृत्तान् पूज्यान् प्रणम्य प्रतिवेदयामि । श्रीपञ्चसूत्रं किल हारिभद्रं सेव्यं यदीच्छाऽऽत्महिते समस्ति ॥१॥ एतस्य भाषान्तरकर्म चारु निष्पादितं श्रीभुवनाद्यचन्द्रैः । पद्यात्मकस्याऽस्य मुदा करोमि सुस्वागतं सूत्रविबोधकस्य ॥२॥ प्रकाश्यते सूत्रमिदं पवित्रं कीर्तित्रयेणाऽद्य मनोज्ञचित्रम् । स्वाध्याय एतस्य समस्तसङ्के तनोतु सर्वत्र सुखं विचित्रम् ॥३॥
-विजयशीलचन्द्ररिः ।
Page #14
--------------------------------------------------------------------------
________________
21सनम
णमो वीतरागाणं
For Privaté & Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
सूरिपुरन्दर-याकिनीमहत्तरासूनु-आचार्यश्री हरिभद्रसूरिविरचितं
पञ्चसूत्रकम् पढमं 'पावपडिघाय-गुणबीयाहाणसुत्तं णमो वीतरागाणं सव्वण्णूणं देविंदपूइयाणं जहट्ठियवत्थुवाईणं तेलोक्कगुरूणं अरुहंताणं भगवंताणं जे एवमाइक्खंति-इह खलु अणाइजीवे, अणादिजीवस्स भवे अणादिकम्मसंजोगणिव्वत्तिए, दुक्खरूवे, दुक्खफले, दुक्खाणुबंधे। एयस्स णं वोच्छित्ती सुद्धधम्माओ। सुद्धधम्मसंपत्ती पावकम्मविगमाओ। पावकम्मविगमो तहाभव्वत्तादिभावाओ। तस्स पुण विवागसाहणाणि-चउसरणगमणं, दुक्कडगरिहा, सुकडासेवणं । अओ कायव्वमिणं होउकामेणं सया सुप्पणिहाणं, भुज्जो भुज्जो संकिलिसे, तिकालमसंकिलिसे।
१. नहि प्रायः पापप्रतिघातेन गुणबीजाधानं विना तत्त्वतस्तच्छ्रद्धाभाव-प्ररोहः, न चाऽसत्यस्मिन्
साधुधर्मपरिभावना, न चाऽपरिभावित-साधुधर्मस्य प्रव्रज्याग्रहणविधावधिकारः, न चाऽप्रति
पन्नस्तां तत्पालनाय यतते, न चाऽपालने एतत्फलमाप्नोतीति ।। २. शरणगमनं प्रधानशरणोपगमः .... महानयं प्रत्यपायपरिरक्षणोपायः । ३. गर्दा अकर्तव्यबुद्धिसारा परसाक्षिकी । तथानिवेदनाप्रतिपत्तिर्दुष्कृतगर्यो । ४. सुकृतस्य सति विवेके नियतभाविनोऽखण्डभावसिद्धेः परकृतस्याऽनुमोदनरूपस्याऽऽसेवनं,
महदेतत्कुशलाशयनिबन्धनम् । ५. सुप्रणिधानस्य फलसिद्धौ प्रधानाङ्गत्वात् ।
Page #16
--------------------------------------------------------------------------
________________
पञ्चसूत्रकम् प्रथमं गुणबीजाधानसूत्रम्
(वसन्ततिलकावृत्तम्)
देवेन्द्रपूजित ! यथास्थितवस्तुवादिन् ! अर्हन् ! प्रभो ! त्रिभुवनैकगुरो ! जिनेन्द्र ! । सर्वज्ञ ! मुक्तिपथसार्थपते ! मुनीन्द्र ! हे वीतराग ! भगवन् ! भवते नमोऽस्तु ॥१॥
आत्मा ह्यनादिरयमित्युदितं जिनेन्द्रैः कर्मानुषङ्गजनितं भ्रमणं तथैव । दुःखार्त्त - दुःखफल - दुःखमयानुबन्धे भ्राम्यत्यहो ! भववनेऽयमनादिकालात् ॥२॥
व्युच्छित्तिरस्य भवचक्रगतेः सुधर्मात् पापव्यपोहसुलभः खलु धर्मलाभः । पापिष्ठकर्मविगमस्तु तथाविधायाः पाकेन सम्भवति जैविक भव्यतायाः ॥३॥
पूज्यातिपूज्यजिन-सिद्ध- सुसाधु-धर्मा एतच्चतुष्कशरणग्रहणं पवित्रम् । दुष्कृत्यगर्हणमथो सुकृतप्रशंसा तद्भव्यतासुपरिपाक निबन्धनानि ॥४॥
शुद्धाशयैर्भवितुकामजनैस्त्रिकालमेतत्त्रयं निजहृदि प्रणिधेयमुच्चैः । क्लेशाभिभूतमनसि प्रणिधानमेतत् कार्यं पुनः पुनरपि स्वहितप्रवीणैः ॥५॥
For Private 3& Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
चउसरणगमणं
Page #18
--------------------------------------------------------------------------
________________
CERA
For Private Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
जावज्जीवं मे भगवंतो परमतिलोगणाहा अणुत्तरपुण्णसंभारा खीणरागदोसमोहा अचिंतचिंतामणी भवजलहिपोया एगंतसरण्णा अरहंता सरणं । तहा पहीणजरामरणा अवेयकम्मकलंका पणट्ठवाबाहा केवलनाणंदसणा सिद्धिपुरवासी णिरुवमसुहसंगया सव्वहा कयकिच्चा सिद्धा सरणं । तहा पसंतगंभीरासया सावज्जजोगविरया पंचविहायारजाणगा परोवयारनिरया पउमाइणिदंसणा झाणज्झयणसंगया विसुज्झमाणभावा साहू सरणं। तहा सुरासुरमणुयपूइओ मोहतिमिरंसुमाली, राग-दोसविसपरममंतो, हेऊ सयलकल्लाणाणं, कम्मवणविहावसू, साहगो सिद्धभावस्स, केवलिपण्णत्तो धम्मो जावज्जीवं मे भगवं सरणं। सरणमुवगओ य एएसिं गरिहामि दुक्कडं
For Private & 6ersonal Use Only
Page #20
--------------------------------------------------------------------------
________________
॥ चतुःशरणगमनम् ॥
(स्रग्धरावृत्तम्) पुण्यप्राग्भारपूर्णा भवजलतरणे पोतरूपा अचिन्त्यचिन्तारलोपमानास्त्रिभुवनगुरवो वीतरागा विमोहाः । सर्वज्ञाः क्षीणदोषाः सकलगुणयुता विश्ववात्सल्यसारा अर्हन्तो विश्वपूज्याः शरणमभिमतं सन्तु मे सर्वकालम् ॥६॥
प्रक्षीणाशेषदोषा निरुपमसुखिनो धूतकर्मप्रपञ्चाः रूपातीतस्वरूपा अविकलविलसद्दर्शन-ज्ञानरूपाः । निर्बन्धा नष्टबाधा अजनिमृतिजराः सिद्धिसौधाधिरूढाः सिद्धाः संसिद्धसाध्याः शरणमभिमतं सन्तु मे सर्वकालम् ॥७॥
पञ्चाचारप्रवीणाः प्रहितनिरतास्त्यक्तसावद्ययोगा ध्यानस्वाध्यायलीना वकमलनिभाः शान्तगम्भीरभावाः । निःसङ्गाः शुध्यमानस्वरसशुचिहृदो विश्वकल्याणकामाः सम्बुद्धाः साधवस्ते शरणमभिमतं सन्तु मे सर्वकालम् ॥८॥
त्रैलोक्ये माननीयः सुरनमहितः सर्वमाङ्गल्यहेतुः । सन्मत्रो दुष्टरागोरगविषशमने कर्मकाष्ठौघवह्निः । मिथ्यात्वध्वान्तभानुः शिवपदवरदः सर्वविद्भिः प्रणीतो धर्मोऽयं शर्मदाता शरणमभिमतं मे भवेत् सर्वकालम् ॥॥
॥ दुष्कृतगर्हा ॥
(वसन्ततिलकावृत्तम्) स्वीकृत्य पावनमिदं शरणं चतुर्णां प्रक्षालयामि मम सञ्चितकल्मषाणि । यत्किञ्चिदप्यनुचितं मयका कृतं स्याद् गर्हामि दुष्कृतमिदं न पुनर्भजामि ॥१०॥
For Private 7 Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
વિદ્યા વિનયથી શોભે
दुक्क डगरिहा
200
8
Page #22
--------------------------------------------------------------------------
________________
दुक्कडगरिहा
Page #23
--------------------------------------------------------------------------
________________
जण्णं अरहंतेसु वा, सिद्धेसु वा, आयरिएसु वा, उवज्झाएसु वा, साहूसु वा, साहुणीसु वा, अन्नेसु वा धम्मट्ठाणेसु माणणिज्जेसु पूणिज्जेसु तहा माईसु वा, पिईसु वा, बंधूसु वा, मित्तेसु वा, उवयारीसु वा, ओहेण वा जीवेसु मग्गट्ठिएसु, अमग्गट्ठिएसु, मग्गसाहणेसु, अमग्गसाहणेसु, जं किंचि वितहमायरियं अणायरियव्वं अणिच्छियव्वं पावं पावाणुबंधि सुहमं वा बायरं वा मणेण वा वायाए वा काएण वा कयं वा कारियं वा अणुमोइयं वा रागेण वा दोसेण वा मोहेण वा, एत्थ वा जम्मे जम्मंतरेसु वा, गरहियमेयं दुक्कडमेयं उज्झियव्वमेयं, वियाणियं मए कल्लाणमित्तगुरुभयवंतवयणाओ, एवमेयं ति रोइयं सद्धाए, अरहंतसिद्धसमक्खं गरहामि अहमिणं 'दुक्कडमेयं उज्झियव्वमेयं । एत्थ मिच्छामि दुक्कडं, मिच्छामि दुक्कडं, मिच्छामि दुक्कडं।
10
Page #24
--------------------------------------------------------------------------
________________
(शालिनीवृत्तम्) अर्हत्सिद्धाचार्यसद्वाचकेषु साधुव्राते सर्वसाध्वीषु किं वा । अन्येषूच्चैः पूजनीयेषु धर्मस्थानेषु स्याद् दृष्कृतं मे यदेव ॥११॥
मातापित्रोर्बन्धुमित्रोपकारिलोके मार्गोन्मार्गसंस्थे जनौघे । सन्मार्गस्याssराधके चेतरे वा यत्किञ्चित् स्याद् दुष्कृतं मे वितथ्यम् ॥१२॥
जन्मन्यस्मिन् पूर्वजन्मान्तरे चा कृत्वा बाढं कारयित्वाऽनुमत्य । स्थूलं सूक्ष्मं कायवाङ्मानसोत्थं रागाद् द्वेषान्मोहदोषात् पुनर्वा ॥१३॥
जातं पापं पापकर्मानुबन्धि गर्हाम्येषोऽनिच्छनीयं निषिद्धम् । एतज्ज्ञातं सद्गुरूणां वचोभिये वै सत्यं विश्वकल्याणमित्रम् ॥ १४ ॥
मह्यं चैतद् रोचते सद्गुरूक्तं त्याज्यं सर्वं दुष्कृतं गर्हणीयम् । गर्हाम्यर्हत्सिद्धसाक्ष्ये तथैव
(चतुर्भिः कुलकम् )
मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ मिथ्या मे स्याद् दुष्कृतं सर्वमेव मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ १५ ॥
11
Page #25
--------------------------------------------------------------------------
________________
PROUD
सुकडासेवणं
12
Page #26
--------------------------------------------------------------------------
________________
सुकडासेवणं For Privata & Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
सुकडासेवणं
Page #28
--------------------------------------------------------------------------
________________
TAR
सुकडासेवणं
For F
Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
होउ मे एसा सम्मं गरहा । होउ मे अकरणनियमो । बहुमयं ममेयं ति इच्छामि अणुसट्टि अरहंताणं भगवंताणं गुरूणं कल्लाणमित्ताणं ति । होउ मे एएहिं संजोगो। होउ मे एसा सुपत्थणा । होउ मे एत्थ बहुमाणो। होउ मे इओ मोक्खबीयं। पत्तेसु एएसु अहं सेवारिहे सिया, आणारिहे सिया, पडिवत्तिजुत्ते सिया, निरइयारपारगे सिया। संविग्गो जहासत्तीए सेवेमि सुकडं । अणुमोएमि सव्वेसिं अरहंताणं अणुट्ठाणं, सव्वेसि सिद्धाणं सिद्धभावं, सव्वेसिं आयरियाणं आयारं,
६. प्रतिपन्नतत्त्वानां गुणाधिकविषयैव प्रवृत्तिाय्या ।
16
Page #30
--------------------------------------------------------------------------
________________
सम्यग्रूपा स्यान्ममेयं तु गर्दा नाऽहं कुर्यामायतौ तत्पुनश्च । इष्टं चेति प्रार्थयेवाडनुशास्तिं श्रीअर्हद्भ्यः सद्गुरुभ्यश्च भूरि ॥१६॥
भूयादेभिः सङ्गमो मेऽपि भूयो भूयादेषा प्रार्थना शुद्धरुपा। भूयाद् भूयानादर: प्रार्थनायां भूयादस्या मोक्षबीजं ममेति ॥१७॥
प्राप्तेषु स्यां सेवनार्होडप्यमीषां संपूज्यानामर्हतां सद्गुरूणाम् । आज्ञार्हः स्यां तत्क्रियावानपि स्यां निर्दोष स्यां पारगश्चापि तस्याः ॥१८॥
॥ सुकृतानुमोदनम् ॥
(उपजातिवृत्तम्) प्रमोदभावादमनुमोदयामि यदेव किञ्चित् सुकृतं जगत्याम् । सेवे यथाशक्ति यथोचितं च संवेगपूर्णः सुकृतं प्रशस्यम् ॥१९॥
जिनेश्वराणामनुमोदयामि स्वान्योपकारप्रवणं पुमर्थम् । सिद्धात्मनां चिन्मयसिद्धभावमाचारमाचार्यगणस्य शस्यम् ॥२०॥
17
Page #31
--------------------------------------------------------------------------
________________
सव्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसिं साहूणं साहुकिरियं, सव्वेसि सावगाणं मोक्खसाहणजोगे, एवं सव्वेसिं देवाणं सव्वेसिं जीवाणं होउकामाणं कल्लाणासयाणं मग्गसाहणजोगे। होउ मे एसा अणुमोयणा सम्मं विहिपुव्विगा, सम्मं सुद्धासया, सम्म पडिवत्तिरूवा, सम्म निरइयारा, परमगुणजुत्तअरहंतादिसामत्थओ । अचिंतसत्तिजुत्ता हि ते भगवंतो वीयरागा सव्वण्णू परमकल्लाणा परमकल्लाणहेऊ सत्ताणं । मूढे अम्हि पावे अणाइमोहवासिए, अणभिण्णे भावओ हियाहियाणं अभिण्णे सिया,
७. भवन्ति चैतेषामपि मार्गसाधनयोगा, मिथ्यादृष्टीनामपि गुणस्थानकत्वाभ्युपगमात् ।
18
Page #32
--------------------------------------------------------------------------
________________
सूत्रार्थदानं किल पाठकानां साधुक्रियां साधुगणस्य शुद्धाम् । उपासकानां वरमुक्तिमार्गसंसाधकान् सर्वसुधर्मयोगान् ॥२१॥
माङ्गल्यलाभाय समुत्सुकानां शुभाशयानां सनरामराणाम् । मार्गानुकूलाचरणं सुचारु सर्वात्मनां सर्वमहं प्रशंसे ॥२२॥
(त्रिभिः कुलकम्)
एषा प्रशंसा विधिपूर्वका स्याछुद्धाशया सत्प्रतिपत्तियुक्ता । अनुत्तरानन्यगुणार्हदादिदिव्यानुभावाद् गतदूषणा स्यात् ॥२३॥
ये वीतरागा विदिताखिला अचिन्त्यसामर्थ्ययुता जिनेशाः । शिवात्मकाः सर्वशिवकराश्च यच्छन्तु ते मे सुकृतेषु शक्तिम् ॥२४॥
मोहाभिभूतोऽहमनादिकालान्मूढोऽस्मि पापोऽस्मि सुदुःखितोऽस्मि । हिताहितानामनभिज्ञ एव सुज्ञो भवेयं भगवत्प्रसादात् ॥२५॥
19
Page #33
--------------------------------------------------------------------------
________________
अहियनिवित्ते सिया, हियपवित्ते सिया, आराहगे सिया, उचियपडिवत्तीए सव्वसत्ताणं, सहियं ति इच्छामि सुक्कडं, इच्छामि सुक्कडं, इच्छामि सुक्कडं। एवमेयं सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स सिढिलीभवति परिहायंति खिज्जंति असुहकम्माणुबंधा । निरणुबंधे वाऽसुहकम्मे भग्गसामत्थे सुहपरिणामेणं कडगबद्ध विय विसे अप्पफले सिया, सुहावणिज्जे सिया, अपुणभावे सिया। तहा आसगलिज्जंति परिपोसिज्जति निम्मविज्जंति सुहकम्माणुबंधा। साणुबंधं च सुहकम्मं पगिटुं पगिट्ठभावज्जियं नियमफलयं सुप्पउत्ते विय महागए सुहफले सिया, सुहपवत्तगे सिया, परमसुहसाहगे सिया।
20
Page #34
--------------------------------------------------------------------------
________________
त्यक्त्वा समग्रामहितप्रवृत्तिं भजेयमुच्चैः स्वहितप्रवृत्तिम् । सर्वत्र कुर्वन्नुचितोपचारमिच्छामि कर्तुं सुकृतानि सम्यक् ॥ इच्छामि कर्तुं सुकृतानि सम्यक् । इच्छामि कर्तुं सुकृतानि सम्यक् ॥२६॥
(वसन्ततिलकावृत्तम्) एवं चतुःशरण-निन्दन-कीर्तनानां श्रुत्या स्फुटं पठनतः परिशीलनेन । पापानुबन्धिनिचयाः शिथिलीभवन्ति हानं क्रमादुपगताः क्षयमाप्नुवन्ति ॥२७॥
पापानि बाढमनुबन्धविनाकृतानि निःशक्तभावमधिगम्य शुभाशयेन् । अल्पं फलं ददति बद्धविषं यथा वा गत्वा सुख्खेन विलयं न पुनर्भवन्ति ॥२८॥
पुण्यानुबन्धनिचयाश्च दृढीभवन्ति पुष्यन्ति तेऽप्यभिनवाश्च समुद्भवन्ति । उत्कृष्टभावजनितं च शुभानुबन्धं कर्म प्रकूष्टफलदं भवति प्रभूतम् ॥२९॥
सम्यक्प्रयुक्तशुभभेषजवच्च सानुबन्धं नु कर्म नियमेन फले शुभं स्यात् । एवं विशिष्टतरपुण्यपथप्रवृत्त्या प्रान्तेऽप्यनुत्तरविमुक्तिसुखावहं स्यात् ॥३०॥
Page #35
--------------------------------------------------------------------------
________________
अओ अप्पडिबंधमेयं असुहभावनिरोहेणं सुहभावबीयं ति सुप्पणिहाणं सम्मं पढियव्वं सोयव्वं अणुप्पेहियव्वं ति । नमो नमियनमियाणं परमगुरुवीयरागाणं । नमो सेसनमोक्कारारिहाणं । जयउ सव्वण्णुसासणं । परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा।
इति पावपडिघायगुणबीजाहाणसुत्तं समत्तं ॥१॥
22
Page #36
--------------------------------------------------------------------------
________________
एतत् परं मलिनभावनिरोधनेन प्रोच्चैः शुभाशयविवृद्धिकरं सुबीजम् । निर्बन्धभावमिति सत्प्रणिधानमेवं सम्यक् पठेच्च शृणुयाच्च विचिन्तयेच्च ॥ ३१ ॥
वन्द्योत्तमान् जिनवरान् प्रणमामि शास्तृन् शेषानपि प्रणमनीयजनान् नमामि । सर्वज्ञशासनमिदं जयताज्जगत्यां सर्वे भवन्तु सुखिनो वरबोधिलाभात् ॥ सर्वे भवन्तु सुखिनो वरबोधिलाभात् । सर्वे भवन्तु सुखिनो वरबोधिलाभात् ॥३२॥
Page #37
--------------------------------------------------------------------------
________________
स्वकृतं दुष्कृतं गर्हन्, सुकृतं चाऽनुमोदयन् । नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ॥१॥ मनोवाक्कायजे पापे, कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूया-दपुनःक्रिययान्वितम् ॥२॥ यत्कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् । तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि ॥३॥ सर्वेषामर्हदादीनां, यो योऽर्हत्त्वादिको गुणः । अनुमोदयामि तं तं, सर्वं तेषां महात्मनाम् ॥४॥ त्वां त्वत्फलभूतान् सिद्धां-स्त्वच्छासनरतान् मुनीन् । त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः ॥५॥ क्षमयामि सर्वान् सत्त्वान्, सर्व क्षाम्यन्तु ते मयि । मैत्र्यस्तु तेषु सर्वेषु, त्वदेकशरणस्य मे ॥६॥ एकोऽहं नास्ति मे कश्चि-न चाऽहमपि कस्यचित् । त्वदमिशरणस्थस्य, मम दैन्यं न किञ्चन ॥७॥ यावन्नाऽऽप्नोमि पदवी, परां त्वदनुभावजाम् । तावन्मयि शरण्यत्वं, मा मुञ्च शरणं श्रिते ॥८॥
(श्रीहेमचन्द्राचार्यः)
24
Page #38
--------------------------------------------------------------------------
________________
परमसंबोहीए सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा, सुहिणो भवंतु जीवा
Page #39
--------------------------------------------------------------------------
________________
आणा हि मोहविसपरममंतो
जलं दोसाइजलणस्स For Private & P2&onal Use Only
Page #40
--------------------------------------------------------------------------
________________
कम्मवाहिचिगिच्छासत्थं
कप्पपायवो सिवफलस्स For Private Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
बीयं साहुधम्मपरिभावणासुत्तं जायाए धम्मगुणपडिवत्तिसद्धाए, भावेज्जा एएसिं सरूवं पयइसुंदरत्तं, आणुगामित्तं, परोवयारित्तं, परमत्थहेउत्तं । तहा दुरणुचरत्तं, भंगदारुणतं, महामोहजणगत्तं, भूयो दुल्लहत्तं ति । भावेऊणेवं जहासत्तीए उचियविहाणमेव अच्तभावसारं पडिवज्जेज्जा, तं जहा-थूलगपाणाइवायविरमणं १, थूलगमुसावायविरमणं २, थूलगअदत्तादानविरमणं ३, थूलगमेहुणविरमणं ४, थूलगपरिग्गहविरमण- ५ मिच्चाइ। पडिवज्जिऊण पालणे जइज्जा, सयाऽऽणागाहगे सिया, सयाऽऽणाभावगे सिया, सयाऽऽणापरतंते सिया । आणा हि मोहविसपरममंतो, जलं दोसाइजलणस्स, कम्मवाहिचिगिच्छासत्थं, कप्पपायवो सिवफलस्स।
१.
आज्ञा आगम उच्यते ।
28
Page #42
--------------------------------------------------------------------------
________________
द्वितीयं धर्मपरिभावनासूत्रम्
(वसन्ततिलकावृत्तम्) जाते सुधर्मगुणलाभशुभाभिलाषे भाव्यं हृदि प्रवधर्मगुणस्वरूपम् । धर्मः स्वभावरुचिरः परमार्थहेतुधर्मः परो हितकरश्च सहानुगामी ॥१॥
धर्मोऽस्ति दुष्करतरः परिपालने हि भङ्गे च दारुणफलो भवति प्रमादात् । बाढं विमोहजनकः खलु तस्य भङ्गो धर्मोऽपि दुर्लभतरो भवतीति भाव्यम् ॥२॥
हिंसा-मृषावचन-चौर्य-परिग्रहान्यदाराभिलाषविरतिप्रमुखं यथार्हम् । स्थूलात्मकं गृहिजनोचितसद्विधानं श्राद्धोऽतिभावसहितं समुपाददीत ॥३॥
स्वीकृत्य चैतदथ तत्परिपालनायां सम्यग् यतेत सततं प्रतिबद्धकक्षः । संसाधयेच्च तदथो विमृशेज्जिनाज्ञां तिष्ठेत् तथैव सततं तदधीनतायाम् ॥४॥
आज्ञा हि मोहविषवारणमूलमत्र आज्ञा क्रुदादिदहनोपशमे जलं च । कर्मोग्ररोगशमने प्रमं चिकित्साशास्त्रं तथा शिवफलप्रदकल्पशाखी ॥५॥
29
Page #43
--------------------------------------------------------------------------
________________
वज्जेज्जा अधम्ममित्तजोगं
30
Page #44
--------------------------------------------------------------------------
________________
सेवेज्ज धम्ममित्ते विहाणेणं
अंधो विय अणुकड्ढगे
वाहिओ विव वेज्जे
31
Page #45
--------------------------------------------------------------------------
________________
Vol
•HET
aftet fau sut
32
Page #46
--------------------------------------------------------------------------
________________
भीओ विय महानायगे For Private33 Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
वज्जेज्जा अधम्ममित्तजोगं । चिंतेज्जा अभिणवपाविए गुणे, अणाइभवसंगए य अगुणे, उदग्गसहकारित्तं अधम्ममित्ताणं, उभयलोगगरहियत्तं, असुहजोगपरंपरं च। परिहरेज्जा सम्मं लोगविरुद्ध अणुकंपापरे जणाणं, न खिसावेज्ज धम्म, संकिलेसो खु एसा, परमबोहिबीयं अबोहिफलमप्पणो त्ति । एवमालोचेज्जा-न खलु एत्तो परो अणत्थो,अंधत्तमेयं संसाराडवीए, जणगमणिट्ठवायाणं, अइदारुणं सरूवेणं असुहाणुबंधमच्चत्थं । सेवेज्ज धम्ममित्ते विहाणेणं, अंधो विय अणुकड्ढगे, वाहिओ विव वेज्जे, दरिदो विय ईसरे, भीओ विय महानायगे । न इओ सुंदरतरमन्नं ति बहुमाणजुत्ते सिया, आणाकंखी, आणापडिच्छगे, आणाअविराहगे, आणानिप्फायगे त्ति।
२. संक्लेश एवैषा खिसाऽशुभभावत्वेन ।
34
Page #48
--------------------------------------------------------------------------
________________
प्राप्ता गुणा अभिनवाश्चिरसङ्गतास्तु दोषा अतः परिहरेद् गुणहीनसङ्गम् । सो धार्मिक जनस्य भवेदधर्मप्रोत्साहकोऽत्यशुभयोगपरम्पराकृत् ॥६॥
त्याज्यं समस्तमपि लोक विरुद्धमत्र निन्दास्पदो भवति येन जनेषु धर्मः । संक्लेश एष इति तीव्रमबोधिबीजं स्वस्याऽऽत्मनोऽप्यलमबोधिफलं परस्य ॥७॥
अस्मात्परो जगति नास्ति महाननर्थः संसारकाननगतस्य किलाऽन्धतैषा । या केवलं विकटसङ्कटजन्मदात्री पापानुबन्धनकरी च भयङ्करी च ॥८॥
अन्धोऽनुकर्षक जनं भिषजं नु रुग्णो भीतस्तु वीरपुरुषं धनिकं दरिद्रः । सेवेत भावसहितं विधिना तथैव मित्राणि धर्मसहितानि भजेद् गुणेच्छुः ॥९॥
अस्मान्न सुन्दरतरं किमपीति मत्वा मित्रेषु तेषु निबिडं बहुमानयुक्तः । काङ्क्षेत् तदीयवचनं प्रतिपद्य सम्यङ् निष्पादयेच्च सकलं न तु खण्डयेच्च ॥ १० ॥
For Priva35 & Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
न भावेज्ज दीणयं
न गच्छेज्ज हरिसं
For Private 836ersonal Use Only
Page #50
--------------------------------------------------------------------------
________________
न भासेज्ज अलियं
न फरुसं
For Private 37
न सेवेज्ज वितहाभिणिवेसं
Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
www
46 Cha
було
в
чивы TOY
न हिंसेज्ज भूयाणि
38
Page #52
--------------------------------------------------------------------------
________________
न गिण्हेज्ज अदत्तं
न निरिक्खेज्ज परदारं For Private39 Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
पडिवन्नधम्मगुणारिहं च वट्टिज्जा गिहिसमुचिएसु गिहिसमायारेसु परिसुद्धाणुट्ठाणे परिसुद्धमणकिरिए परिसुद्धवइकिरिए परिसुद्धकायकिरिए। वज्जेज्जाऽणेगोवघायकारगं गरहणिज्जं बहुकिलेसं आयइविराहगंसमारंभं । न चिंतेज्ज परपीडं। न भावेज्ज दीणयं । न गच्छेज्ज हरिसं । न सेवेज्ज वितहाभिणिवेसं । उचियमणपवत्तगे सिया। एवं न भासेज्ज अलियं, न फरुसं, न पेसुन्नं, नाणिबद्धं । हिय-मिय-भासगे सिया। एवं न हिंसेज्ज भूयाणि । न गिण्हेज्ज अदत्तं । न निरिक्खेज्ज परदारं । न कुज्जा अणत्थदंडं । सुहकायजोगे सिया । तहा लाभोचियदाणे लाभोचियभोगे लाभोचियपरिवारे लाभोचियनिहिकरे
Page #54
--------------------------------------------------------------------------
________________
सम्यग यतेत गृहियोग्यसमस्तकार्यजाले प्रपन्ननिजधर्मगुणानुरूपम् । निर्दोषकर्मणि रतो निजदेहवाणीचित्तक्रियासु शुचितां नितरामुपेयात् ॥११॥
लोकापघातजनकं बहुकष्टसाध्यमारम्भमायतिविराधकमृत्सृजेत् तु । नो दीनतां हि बिभूयान्न तथा हि गर्वं मिथ्याग्रहादपसरेद् ऋजुतां श्रयेच्च ॥१२॥
भाषेत नो वितथकर्कशहीनभाषां पैशुन्यवाक्यमपि नैव न चाऽनिबद्धम् । भाषां वदेद्धित-मित-प्रिय-पथ्य-सत्यां कार्ये सदा सुजनभावमुपाश्रयेच्च ॥१३॥
कुर्यान्न जीववधमत्र सुखाभिलाषी नैवाऽऽददीत परकीयमदत्तवस्तु । दारा न कामुकतयाऽन्यजनस्य पश्येद् व्यर्थक्रिया परिहरेच्छुचिकायका ॥१४॥
लाभोचितं सुचतुरो विदधीत दानं . लाभोचितं च सुखभोगपरायणः स्यात् । लाभोचितं च विदधीत कुटुम्बकाएँ लाभोचितं निधिगतं हि धनं स कुर्यात् ॥१५॥
For Private Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
सिया, असंतावगे परिवारस्स, गुणकरे जहासत्ति, अणुकंपापरे, निम्ममे भावेणं । एवं खु तप्पालणे वि धम्मो जहऽन्नपालणे त्ति । सव्वे जीवा पुढो पुढो, ममत्तं बंधकारणं। तहा तेसु तेसु समायारेसु सइसमन्नागए सिया, अमुगे अहं, अमुगकुले, अमुगसीसे, अमुगधम्मट्ठाणट्ठिए, न मे तव्विराहणा, न मे तदारंभो, वुड्ढी ममेयस्स, एयमेत्थ सारं, एयमायभूयं, एयं हियं । असारमन्नं सव्वं विसेसओ अविहिगहणेणं विवागदारुणं च त्ति । एवमाह तिलोगबंधू परमकारुणिगे सम्म संबुद्धे भगवं अरहंते त्ति ! एवं समालोचिय तदविरुद्धेसु समायारेसु सम्मं वट्टेज्जा । भावमंगलमेयं तन्निप्फत्तीए।
Page #56
--------------------------------------------------------------------------
________________
सन्तापको नहि भवेत् स्वकुटुम्बिनां तु शक्त्या भवेद् गुणकरः करुणापरश्च । एवं ममत्वविगमात् करुणैकबुद्ध्या तत्पालनेऽप्यपरपालनवद्धि धर्मः ॥१६॥
यति जीवाः पृथक् पृथिगह प्रकटं नु सर्वे कर्मानुसारमथ संगमनं च तेषाम् । जीवो ममत्वमुपयाति च बध्यते च तस्मान्ममत्वरहितेन सदा प्रवर्त्यम् ॥१७॥
तत्तत्स्वकार्यविषये स्मृतिमान् सदा स्यादस्मिन् कुलेडमुकसुतोऽमुकशिष्यकोऽहम् । एतत्समाचरणमत्र मया विधेयं तत्खण्डनं न च कृतं न च कर्तुमीहे ॥१८॥
वृद्धिं च याति मम धर्मविधानमेतद् एतद्धि सारमथ चैतदिहाऽऽत्मभूतम् । एतद्धि मे हितकरं विधिनाऽऽदृतं चेद् एतद् विहाय किल सर्वमसारमन्यत् ॥१९॥
सर्वं हि नूनमहिताय विधिव्यपेतमित्युक्तवान् परमकारुणिको जिनेन्द्रः । धर्माविरोधमिति कर्मणि संप्रवर्त्यमेतद् भवेत् पममंगलमिष्टसिद्धौ ॥२०॥
For Private43Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
असारा विसयाFor Private & Pasonal Use Only
Page #58
--------------------------------------------------------------------------
________________
J oooou
www
for
Haywy
ww
ECLARAT
विरसावसाणा For Priva45& Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
IBLEEDERABADMERHIT
भीसणो मच्चू
46
Page #60
--------------------------------------------------------------------------
________________
सव्वाभावकारी
Page #61
--------------------------------------------------------------------------
________________
तहा जागरिज्ज धम्मजागरियाए - को मम कालो, किमेयस्स उचियं । असारा विसया नियमगामिणो विरसावसाणा । भीसणो मच्चू, सव्वाभावकारी, अविनायागमणो, अणिवारणिज्जो, पुणो पुणोऽणुबंधी। धम्मो एयस्स ओसहं एगंतविसुद्धो महापुरिससेविओ सव्वहियकारी निरइयारो परमाणंदहेऊ। नमो इमस्स धम्मस्स । नमो एयधम्मपयासयाणं । नमो एयधम्मपालयाणं । नमो एयधम्मपरूवयाणं । नमो एयधम्मपवज्जगाणं । इच्छामि अहमिणं धम्म पडिवज्जित्तए सम्मं मण-वयण-कायजोगेहिं । होउ ममेयं कल्लाणं परमकल्लाणाणं जिणाणमणुभावओ।
३. स्वाशयादेव तन्निमित्तोऽनुग्रहः ।
48
Page #62
--------------------------------------------------------------------------
________________
धर्माय जागृतिमताऽनुदिनं समीक्ष्यं कोऽयं नु काल ? इह किं च ममोचितं स्यात् ? । संप्रेक्षमाण इति योऽनुदिनं तु तिष्ठेत् तस्य प्रमादरहितस्य न धर्महानिः ॥२१॥
आपातरम्यसुखदा विरसावसानाः सर्वे इमे हि विषया नितरामसाराः । सर्वप्रमाथ्यनियतागमनश्च मृत्युनों वार्यते ह्यनुगमस्तु पुनः पुनश्च ॥२२॥
आसेवितः सुपुरुषैः परमं विशुद्धः सर्वात्मनां हितकरो विगतातिचारः । आनन्दमत्र परमं प्रददाति यश्च धर्मः स ओषिधरलं जगतीह तस्य ॥२३॥
धर्माय सर्वसुखदाय सदा नमोऽस्तु धर्मप्रकाशनकराय नमो जिनाय । एतत्प्रपालक-निरूपक-साधकेभ्यो नित्यं नमोऽस्तु शुचिधर्मगवेषकेभ्यः ॥२४॥
स्वीकर्तुमेनमुचितं रुचितं समीहे सम्यङ् मनोवचनकायसमस्तयोगैः । भूयादसौ परममङ्गलकृन्ममेह कल्याणमूर्तिजिनराजपरानुभावात् ॥२५॥
Page #63
--------------------------------------------------------------------------
________________
सुप्पणिहाणमेवं चिंतेज्जा पुणो पुणो। एयधम्मजुत्ताणं अववायकारी सिया । पहाणं मोहच्छेयणमेयं । एवं विसुज्झमाणे विसुज्झमाणे भावणाए कम्मापगमेणं उवेइ एयस्स जोग्गयं । तहा संसारविरत्ते संविग्गे भवइ अममे अपरोवयावी विसुद्धे विसुज्झमाणभावे त्ति ।
साहुधम्मपरिभावणासुत्तं समत्तं ॥ २ ॥
४. प्रधानं मोहच्छेदनमेतत् तदाज्ञाकारित्वं तन्मोहच्छेदनयोगनिष्पत्त्यङ्गतया ।
50
Page #64
--------------------------------------------------------------------------
________________
सद्धर्मचिन्तनमिदं विदधीत भूयः स्याद्धर्मयुक्त पुरुषप्रणिपातकारी । मोहच्छिदे प्रमुख एष भवेन्नु हेतुरेवं हि शुध्यति यतो मनसः प्रचारः ॥२६॥
शुध्यच्छुभाशयवशात् परिहीयमाणकर्मा भवेद् विरतिधर्मसुपात्रमेवम् । संविग्न-निर्मम-विरक्त-विशुध्यमानभावो गृहे स निवसेदपरोपतापी ॥२७॥
For Priva31 & Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
पडिबोहज्जा अम्मापियरे
52
Page #66
--------------------------------------------------------------------------
________________
کن
Tuly
LAN
एगरुखनिवासिसउणतुलमेयं
For Privas & Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
तइयं पव्वज्जागहणविहिसुत्तं परिभाविए साहुधम्मे, जहोदियगुणे जएज्जा सम्ममेयं पडिवज्जित्तए अपरोवतावं । परोवतावो हि तप्पडिवत्तिविग्यो । अणुपाओ खु एसो। न खलु अकुसलारंभओ हियं । अप्पडिबुद्धे कर्हिचि पडिबोहेज्जा अम्मापियरे । उभयलोगसफलं जीवियं, समुदायकडा कम्मा समुदायफल त्ति । एवं सुदीहो अविओगो। अण्णहा एगरुक्खनिवासिसउणतुल्लमेयं । उद्दामो मच्चू पच्चासण्णो य।
१. परोपतापो यस्माद् धर्मप्रतिपत्त्यन्तरायः । २. अकुशलारम्भश्च धर्मप्रतिपत्तावपि परोपतापः ।
For Private & P54onal Use Only
Page #68
--------------------------------------------------------------------------
________________
तृतीयं प्रव्रज्याग्रहणविधिसूत्रम् एवं यथोक्तमुनिधर्मविभावनेन सञ्जाततीव्रतरतद्ग्रहणाभिलाषः। तत्प्राप्तये प्रयतनं विधिना तु कुर्यादन्योपतापरहितं स्वहितप्रवीणः ॥ १
अन्योपताप इह तत्प्रतिपत्तिविघ्नमेषोऽनुपाय इति सुज्ञजनेन हेयः । आरभ्यते यदशुभेन पथा नु कार्य जायेत तद्धितकरं न कदापि कर्तुः ॥ २
बोध्यौ कथंचिदपि चाऽप्रतिबुद्धभावौ वैराग्यसारवचनैः पितरौ स्वकीयौ । “तज्जीवितं यदुभयत्र फलावहं स्यात् सद्धर्मसेवनपुरस्सरमेव तच्च ॥ ३
कर्माणि यानि समुदायगतैः कृतानि भोग्यानि तानि समुदायगतैः पुनस्तैः । कुर्याम तत्समुदिता वयमत्र धर्म येनाऽऽयतौ भवति नूनमविप्रयोगः ॥ ४
अस्माकमेकतरुसंश्रितपक्षिसङ्घ - तुल्यो ह्ययं स्वजनसङ्घकृतप्रसङ्गः । स्वच्छन्द-निर्पूण-सुनिश्चित-पार्श्ववर्ती मृत्युर्ग्रहीष्यति कदा- तदहं न जाने ॥५
For Private55 Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
दुल्लहं मणुयत्तं समुद्दपडियरयणलाभतुलं । For Private 56ersonal Use Only
Page #70
--------------------------------------------------------------------------
________________
एयं पोयभूयं भवसमुद्दे
For Priva& Personal Use Only
WWFL
Page #71
--------------------------------------------------------------------------
________________
दुल्लहं मणुयत्तं समुद्दपडियरयणलाभतुल्लं । अइप्पभूया अन्ने भवा दुक्खबहुला मोहंधयारा अकुसलाणुबंधिणो अजोग्गा सुद्धधम्मस्स । जोग्गं च एयं पोयभूयं भवसमुद्दे, जुत्तं सकज्जे निउंजिउं संवरटुइयछिदं नाणकण्णधारं तवपवणजवणं । खणे एस दुल्लहे सव्वकज्जोवमाईए सिद्धिसाहगधम्मसाहगत्तेण । उवादेया य एसा जीवाणं । जं न इमीए जम्मो, न जरा, न मरणं, न इट्ठविओगो, नाणिट्ठसंपओगो,न खुहा, न पिवासा, न अन्नो कोइ दोसो, सव्वहा अपरतंतं जीवावत्थाणं
असुभरागाइरहियं संतं सिवं अव्वाबाहं ति । विवरीओ य संसारो इमीए अणवट्ठियसहावो ।
58
Page #72
--------------------------------------------------------------------------
________________
अम्भोनिधौ पतितरत्नसमं दुरापं मानुष्यकं नहि बुधेन मुधाऽतिवाह्यम् । अन्ये भवा अकुशला अतिदुःखरूपा मोहान्धकारबहुला न सुधर्मयोग्याः ॥ ६
मानुष्यकं भवजले खलु पोतभूतं सम्मुद्र्य तस्य विवराणि तु संवरेण । सज्ज्ञाननाविकयुतं सुतपः प्रवेगं योज्यं च तद्भवजलोत्तरणे स्वकार्ये ॥ ७
दुष्प्राप एष खलु हस्तगतः क्षणोऽयं तुल्यं च तेन नहि वस्तु समस्ति किञ्चित् । सिद्धेश्व साधकतमो वरधर्मयोगस्तस्याऽपि साधनमसौ नरजन्मलाभः ॥ ८
मुक्तेः पदं मतिमतां नितरामभीष्टं नो सन्ति यज्जनिजरामरणानि तत्र । नाऽपि प्रियाप्रियपदार्थवियोगयोगा नैव क्षुधा न च तृषा न तथाऽन्यदोषाः ॥ s
यत्राऽऽत्मनः स्थितिरहो परमस्वतन्त्रा रागादिदोषरहिता शिवशान्तरूपा । संसार एष किल तद्विपरीतरूपः प्रत्यक्षमेव परिवर्तनशीलधर्मा ॥ १०
59
Page #73
--------------------------------------------------------------------------
________________
तओ सममेएहिं सेवेज्ज धम्मं
60
Page #74
--------------------------------------------------------------------------
________________
सुविणे व सब्वमाउलं
Page #75
--------------------------------------------------------------------------
________________
एत्थ खलु सुही वि असुही, संतमसंतं, सुविणे व सव्वमाउलं ति । अलमेत्थ पडिबंधेणं । करेह मे अणुग्गहं । उज्जमह एयं वोच्छिदित्तए। अहं पि तुम्हाणुमईए साहेमि एवं निविण्णो जम्ममरणेहिं । समिज्झइ य मे समीहियं गुरुपभावेणं । एवं सेसे वि बोहेज्जा । तओ सममेएहिं सेवेज्ज धम्मं । करेज्जोचियकरणिज्जं निरासंसो हु सव्वदा । एयं परममुणिसासणं। अबुज्झमाणेसु य कम्मपरिणईए विहेज्जा जहासत्तिं तदुवकरणं आओवायसुद्धं समईए। कयण्णुया खु एसा । करुणा य धम्मप्पहाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जेज्ज धम्म ।
62
Page #76
--------------------------------------------------------------------------
________________
एकक्षणे भवति यन्नहि तद्वितीये दृष्ट: सुखी य इह सोऽप्यसुखी निमेषात् । स्वप्नेन संवदति सर्वजगत्प्रपञ्चो योग्यः कथं तदिह बुद्धिमतां विमोहः? ॥ ११
तत्प्रार्थये मयि कृपां कुरुतां भवन्तौ व्युच्छित्तयेऽस्य भवतां किल बद्धक क्षौ । सानोमि चाऽहमपि युष्मदनुज्ञयैतत् प्राप्नोमि दुःखपरिहाणमभीष्टलाभम् ॥” १२
बोध्यो ह्यनेन विधिनेतरबन्धुवर्ग एतैः समं श्रमणधर्मरतो भवेत् सः । नित्यं निजोचितविधानपरो निराशः संसाधयेदिति जिनेश्वरशासनं च ॥ १३
मात्रादिक प्रबलमोहवशस्वकीयलोकप्रबोधनविधौ यदि न प्रभुः स्यात् । कुर्यात् तदा तदुपकारकरं विशुद्धमाजीविकार्हमुचितं किल संविधानम् ॥ १४
सैषा परा नु करुणा च कृतज्ञता च धर्मप्रधानजननी जगति प्रसिद्धा । एवं प्रसाद्य पितरावितरांश्च बन्धून् धर्मं ततोऽनुमतिमाप्य समाददीत ॥ १५
For Priva63 & Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
एस चाए अचाए
For Private & Felsonal Use Only
Page #78
--------------------------------------------------------------------------
________________
Cor
Mored
s
tihd DRON
Pips A
एस चाए अचाए, तत्तभावणाओ For Private 65ersonal Use Only
Page #79
--------------------------------------------------------------------------
________________
1
अण्णा अणुवहे चेवोवहाजुत्ते सिया । धम्माराहणं खु हियं सव्वसत्ताणं । तहा तहेयं संपाडेज्जा। सव्वहा अपडिवज्जमाणे चएज्ज ते अट्ठाणगिलाणोसहत्थचागनाएणं ।
I
से जहा नाम केइ पुरिसे कहंचि कंतारगए अम्मापितिसमेए तप्पडिबद्धे वच्चेज्जा । तेसिं तत्थ नियमघाई पुरिसमित्तासज्झे संभवतोसहे महायंके सिया । तत्थ से पुरिसे तप्पडिबंधाओ एवमालोचिय ' न भवंति एए नियमओ ओसहमंतरेण, ओसहभावे य संसओ, कालसहाणि य एयाणि', तहा संठविय संठविय तदोसहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहू ।
For Private & P 65onal Use Only
Page #80
--------------------------------------------------------------------------
________________
एवं कृतेऽप्यनुमतिर्यदि नोपलब्धा निर्माय एव विदधीत ततोऽत्र मायाम् । सर्वात्मनां हि हितकूद्वरधर्मलाभः सम्पादनीय इति सोऽत्र यथाकथञ्चित् ॥ १६
स्वप्नादिकल्पितकथाभिरपि प्रबोधं नो प्राप्नुयुः परिहरेदथ तान् प्रबुद्धः । न्यायः किलात्र विषये त्यजनं स्वपित्रोः रुग्णस्थितावगदलाभकृते वनादौ ॥ १७
कश्चित्पुमान् गहनकाननमध्यभागे पित्रादियुक् स्वपितृभक्तिपर: प्रयाति । शक्यौषधो नियमघातक उग्ररूपो रोगो भवेत् पितॄजनस्य कदापि तस्य ॥ १८
आलोचयेत् स गुरुषु प्रतिबद्धभावो “योग्यौषधेन रहिता न भवेयुरेते । शङ्का किलात्र गहने विपिने चिकित्सालाभेऽथ कालसहना अधुना किलाडमी ॥” १९
संस्थाप्य तान् कथमपि क्वचन प्रदेशे निर्वाहसाधनतदौषधमार्गणार्थम् । दूरं व्रजन्नपि सुतो नहि दोषपात्रं मेधाविनां पुनरहोऽर्हति साधुवादम् ॥ २०
For Private Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
एस चाए अचाए । अचाए चेव चाए । फलमेत्थ पहाणं बुहाणं । धीरा एयदंसिणो। स ते ओसहसंपाडणेण जीवावेज्जा । संभवाओ पुरिसोचियमेयं। एवं सुक्कपक्खिगे महापुरिसे संसारकंतारपडिए अम्मापिइसंगए धम्मपडिबद्ध विहरेज्जा। तेसिं तत्थ नियमविणासगे अपत्तबीजाइपुरिसमित्तासज्झे संभवंतसम्मत्ताइओसहे मरणाइविवागे कम्मायंके सिया । तत्थ से सुक्कपक्खिगपुरिसे धम्मपडिबंधाओ एवं समालोचिय 'विणस्संति एए अवस्सं सम्मत्ताइओसहविरहेण, तस्संपायणे विभासा, कालसहाणि य एयाणि ववहारओ',
For Private 68ersonal Use Only
Page #82
--------------------------------------------------------------------------
________________
त्यक्ता नहि स्वगुरवस्त्यजताऽपि तेन त्यक्तास्तु तेन सुतरां न जहाति यस्तु । निश्चिन्वते हि विबुधाः सकलं फलेन जानन्ति धीरपुरुषाः परमार्थमेतम् ॥ २१
प्राप्तौषधः प्रतिनिवृत्त्य पितॄन् स दद्यादेवं च रोगविगमात् किल जीवयेत् तान् । यद्यद् भवेज्जगति सम्भवकोटिशुद्धं तत्कर्तुमर्हति नरो निजशक्तिसारम् ॥ २२
मात्रादियुङ् नरवरोऽथ भवाटवीस्थः सच्छुक्लपाक्षिकतया दृढधर्मरागः । आदातुमिच्छति परं श्रमणीयधर्मं मिथ्यात्वमूढपरिवारजनावरुद्धः ॥ २३
“स्वजना ममैते
आलोचयेदिदमसौ कर्मोग्ररोगविकला न विबोधयोग्याः । अप्राप्तबीजपुरुषेण न साधनीयो
रोगो ह्ययं परमनिर्मलबोधिसाध्यः ॥ २४
――――
सम्यक्त्वरूपपरमौषधमन्तरेण नंक्ष्यन्त्यमी नियमतो गुरुकर्मरोगात् । सम्पादनेन खलु तस्य परं विभाषा कालक्षमाश्च पितरो व्यवहारदृष्ट्या ॥” २५
69
Page #83
--------------------------------------------------------------------------
________________
तहा संठविय संठविय इहलोगचिंताए तेसिं सम्मत्ताइओसहनिमित्तं विसिट्ठगुरुमाइभावेणं सवित्तिनिमित्तं च किच्चकरणेण चयमाणे संयमपडिवत्तीए ते साहु (हू ?) सिद्धीए । एस चाए अचाए, तत्तभावणाओ । अचाए चेव चाए, मिच्छाभावणाओ। तत्तफलमत्थ पहाणं बुहाणं परमत्थओ । धीरा एयदंसिणो आसन्नभव्वा । स ते सम्मत्ताइओसहसंपाडणेण जीवावेज्जा अच्वंतियं अमरणमरणावंझबीअजोगेणं । संभवाओ सुपुरिसोचियमेयं । दुप्पडियाराणि अम्मापिईणि । एस धम्मो सयाणं । भगवं एत्थ नायं परिहरमाणे अकुसलाणुबंधि अम्मापिइसोगं ति ।
For Private & PCO onal Use Only
Page #84
--------------------------------------------------------------------------
________________
एवं विचार्य स पितॄनिहलोक योग्यनिर्वाहसाधनयुतान् विधिवद् विधाय । सम्यक्त्वमुख्यपरमौषधलाभहेतोः स्वश्रेयसे च वरसद्गुरुमाश्रयेत ॥ २६
इत्थं विधाय सकलं करणीयकृत्यं त्यक्त्वा कुटुम्बमभिनिष्क्रममाण एषः । सम्प्राप्य सिद्धिमथ तान् प्रतिबोधयंश्च सत्यं भवेत् स्वजनवर्गमहोपकारी ॥ २७
अत्याग एष किल तत्त्वविभावनेन तत्त्याग एव फलितोऽत्यजने तु मौढ्यात् । यत्तात्त्विकं हि फलमत्र मतं प्रधानमासन्नभव्यशुचिधीरजनैस्तु दृष्टम् ॥ २८
सद्दर्शनादिक वरौषधदानतः स मृत्युप्रचाररहितस्थितिबीजयोगात् । संस्थापयेदिति च शाश्वतजीवने तानेतत्सुसम्भवमतः पुरुषानुरूपम् ॥ २९
शक्या नहि प्रतिकृतिः प्रकटं तु पित्रोधर्मः सतां पितृजनेषु परानुकम्पा । पित्रोः परं परिहरन् परितापहेतुं ज्ञातं किलाऽत्र विषये प्रभुवर्धमानः ॥ ३०
71
Page #85
--------------------------------------------------------------------------
________________
एवमपरोवतावं सव्वहा सुगुरुसमीवे, पूजिऊण भगवंते वीयरागे साहू य, तोसिऊण विहवोचियं किवणाई, सुप्पउत्तावस्सगे सुविसुद्धनिमित्ते समहिवासिए विसुद्धजोगे विसुज्झमाणे महया पमोएणं सम्मं पव्वएज्जा लोगधम्मेहंतो लोगुत्तरधम्मगमणेणं । एसा जिणाणमाणा महाकल्लाण त्ति न विराहियव्वा बुहेणं महाणत्थभयाओ सिद्धिकंखिण त्ति ।
पव्वज्जागहणविहिसुत्तं समत्तं ॥ ३ ॥
३. नाऽऽज्ञाविराधनतोऽन्योऽनर्थः । ४. न खल्वाज्ञाराधनातोऽन्यः सिद्धिपथः ।
72
Page #86
--------------------------------------------------------------------------
________________
अन्योपतापविगमेन च सर्वथैवं गुर्वन्ति भवति निष्क्रमणाय सज्जः । सम्पूजयेज्जिनवरानथ वीतरागान् साधूंश्व शुद्धवसनादिकवस्तुदानात् ॥ ३१
सन्तोषयेत् कृपणकान् विभवानुसारमावश्यकानि च यथाविधि सम्प्रयुञ्ज्यात् । लब्ध्वा सुमङ्गलनिमित्तयुतं च कालं प्राप्याऽधिवासनमथो गुरुपादमूले ॥ ३२
स्फूर्जत्प्रमोदरसकञ्चुकिताङ्गभागः संशुध्यमानहृदयाध्यवसायशाली । त्यक्त्वा स लौकिक गृहस्थजनार्हधर्मान् लोकोत्तरे प्रविशति श्रमणार्हधर्मे ॥ ३३
सैषा किल प्रवरमङ्गलकृज्जिनाज्ञा सिद्ध्यर्थिना बुधजनेन न खण्डनीया । तत्खण्डनं परमनर्थकरं मुमुक्षोस्तत्पालनं भवति मङ्गलहेतुरुच्चैः ॥ ३४
73
Page #87
--------------------------------------------------------------------------
________________
स एवमभिपब्वइए
74
Page #88
--------------------------------------------------------------------------
________________
01/12/
2
011
अलंकार
से समलेढुकंवणे समसत्तुमित्ते
सम्मं सिक्खमाइयडू, गुरुकुलवासी
75
Page #89
--------------------------------------------------------------------------
________________
चउत्थं पव्वज्जापरिपालणासुत्तं स एवमभिपव्वइए समाणे सुविहिभावओ किरियाफलेण जुज्जइ, विसुद्धचरणे महासत्ते, न विवज्जयमेइ । एयाभावेऽभिप्पेयसिद्धी उवायपवित्तीओ। नाविवज्जत्थोऽणुवाए पयट्टइ। उवाओ य उवेयसाहगो नियमेण । तस्सतत्तच्चाओ अण्णहा, अइप्पसंगाओ, निच्छयमयमेयं । से समले/कंचणे समसत्तुमित्ते नियत्तग्गहदुक्खे पसमसुहसमेए सम्म सिक्खमाइयइ, गुरुकुलवासी, गुरुपडिबद्धे, विणीए, भूयत्थदरिसी, न इओ हियतरं ति मन्नइ,
१. विपर्ययाभावेऽभिप्रेतसिद्धिः सामान्येनैव । २. इयमेवाऽविपर्यस्तस्याऽविपर्यस्तता यदुतोपाये प्रवृत्तिः ।
76
Page #90
--------------------------------------------------------------------------
________________
चतुर्थं प्रव्रज्यापरिपालनासूत्रम् रीत्याउनया गृहविनिर्गत एष सम्यग विध्याश्रयाद् भवति सत्फलभाक् क्रियायाः । शुद्धक्रियश्च विकसच्छुभसत्त्वशाली धर्मे विपर्ययमसौ न कदापि याति ॥१॥
एवं विपर्ययविनाकृतशुद्धबुद्धेरिष्टार्थसिद्धिरपि तस्य सुखप्रसाध्या । नैवाउनुपायरचनाऽस्त्यविमूढभावानैवाऽप्युपायरचना विफला स्वकार्ये ॥२॥
यत्किञ्चिदत्र निजकार्यविधावशक्तं तस्य प्रसिध्यति हठादनुपायतैव । कस्याऽपि किञ्चिदपि हेतुरिहाऽन्यथा स्याद् धार्या हृदि प्रकटनिश्चयदृष्टिरेषा ॥३॥
साम्यं प्रयाति कनकोपल-शत्रुमित्रादिद्वन्द्वयोगसमये प्रशमोपलब्ध्या । जित्वाऽऽग्रहग्रहकृतं निजचित्ततापमादाति सम्यगथ सद्गुरुदत्तशिक्षाम् ॥४॥
संवेगवान् गुरुकुले निवसन् विनीतो बाढं गुरुप्रतिनिबद्धमना विवेकी । भूतार्थदृग ‘हिततरं नहि किंचिदस्मा'दित्थं सदा कृतमतिर्मुरुमभ्युपास्ते ॥५॥
For Private77 Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
सुस्सूसाइगुणजुत्ते तत्ताभिनिवेसा विहिपरे परममंतो त्ति अहिज्जइ सुत्तं बद्धलक्खे आसंसाविप्पमुक्के आययट्ठी । स तमवेइ सव्वहा । तओ सम्मं निउंजइ । एयं धीराण सासणं । अण्णहा अणिओगो, अविहिगहियमंतनाएणं। अणारोहणाए न किंचि, तदणारंभओ धुवं । एत्थ मग्गदेसणाए दुक्खं, अवधीरणा, अप्पडिवत्ती । नेवमहीयमहीयं, अवगमविरहेण । न एसा मग्गगामिणो। विराहणा अणत्थमुहा, अत्थहेऊ, तस्सारंभओ धुवं । एत्थ मग्गदेसणाए
३.
सदनुष्ठानं हि मोक्षफलमेव ।
78 .
Page #92
--------------------------------------------------------------------------
________________
शुश्रूषुतादिगुणयुग् दृढतत्त्वनिष्ठो लिप्सादिदोषरहितः प्रतिबद्धलक्ष्यः । सूत्रं हासौ परममन्त्रमिव प्रगृह्णन्नध्येति सद्गुरुमुखात् स्वहितैकलक्षी ॥६॥
एवं ह्यसौ समधिगच्छति शास्त्रसारं सम्यङ् नियोजयति तच्च परेषु नीत्या । मुक्त्यर्थिनां मतिमतां सुमहाशयानामेषैव शिष्यजनशासनरीतिरिष्टा ॥७॥
यत्राऽविधिर्न विनियोगफलं हि तत्र मन्त्रो यथाsविधिवशाद् विफलः प्रयोगे । नाऽस्त्यत्र धर्मचरणस्य तु सूत्रपातः सर्वं धीतमपि तद्विरहे न किञ्चित् ॥८॥
यो धर्मसाधनविधावकृतप्रवेशो दुःखं हि मार्गकथने किल तस्य दृष्टम् । किं वाऽवधीरणमथ प्रतिपत्त्यभाव एवं हाथीतमपि शून्यममर्मबोधात् ॥ ॥
मार्गस्थितेन विहिता तु विराधना स्यादारम्भकारक तया शुभकृन्न दुष्टा । आरब्धधर्मचरणस्य सुमार्गशिक्षा नो कष्टदाऽनभिनिवेशफला च भाव्या ॥ १० ॥
For Private Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
we.
www
ww
симетил
ساس سه س لمال لسا سه است
निरवाए जहोदिए सुत्तुत्तकारी हवड़
80
Page #94
--------------------------------------------------------------------------
________________
वियत्ते एत्थ केवली एयफलभूए
81
Page #95
--------------------------------------------------------------------------
________________
अणभिनिवेसो, पडिवत्तिमेत्तं, किरियारंभो । एवं पि अहीयं अहीयं, अवगमलेसजोगओ । अयं सबीओ नियमेण । मग्गगामिणो खु एसा अवायबहुलस्स। निरवाए जहोदिए सुत्तुत्तकारी हवइ पवयणमाइसंगए पंचसमिए तिगुत्ते । अणत्थपरे एयच्चाए अवियत्तस्स, सिसुजणणिचायनाएण। वियत्ते एत्थ केवली एयफलभूए । सम्ममेयं वियाणइ दुविहाए परिण्णाए ।
82
Page #96
--------------------------------------------------------------------------
________________
कस्याऽपि सम्भवति तत्प्रतिपत्तिमात्रमारम्भयोग इह कस्यचन क्रियायाः । यद् वै श्रुतं विधियुतं समधीतमेवं ज्ञेयं त्वधीतमिति तत्किल मर्मबोधात् ॥११॥
प्रारब्धधर्मचरणो नियमात् सबीजो मार्गस्थितः प्रयतते तु सदाशयेन । तस्याऽप्यपायबहुलस्य विराधनायाः स्यात् सम्भवस्तु मतिविभ्रममुख्यदोषैः ॥ १२ ॥
सूत्रानुसारमनुतिष्ठति सोऽप्यपायमुक्तेऽनुकूलसमये स्वहितप्रवीणः । गुप्तित्रयं समितिपञ्चकमेवमष्टमातृर्भजेत् प्रवचनस्य सदोद्यतः सन् ॥ १३ ॥
त्यागो यथा हितकरः शिशवे जनन्या अव्यक्त भावसहितस्य मुनेस्तथैव । आसां परित्यजनमत्र ततो न योग्यं व्यक्तत्वमत्र बत केवलिनो हि पूर्णम् ॥१४॥
आसां च सेवनफलं किल केवलित्वं त्याज्यास्तु मातर इमाः प्रथमं कथं स्युः ? जानात्यसौ द्विविधयाऽपि परिज्ञयैतज्ज्ञानक्रियोभयविधौ विशदावधानः ॥१५॥
83
Page #97
--------------------------------------------------------------------------
________________
तहा आसासपयासदीवं संदीणाऽथिराइभेयं । असंदीण-थिरत्थमुज्जमइ । जहासत्तिमसंभंते अणूसगे, असंसत्तजोगाराहए भवइ । उत्तरुत्तरजोगसिद्धीए मुच्चइ पावकम्मुण त्ति विसुज्झमाणे आभवं भावकिरियामाराहेइ । पसमसुहमणुहवइ अपीडिए संजम - तवकिरिआए, अव्वहिए परीसहोवसग्गेहिं, वाहियसुकिरियानाएणं ।
84
Page #98
--------------------------------------------------------------------------
________________
द्वीपं महोदधिनिमज्जनभीतलोका अप्लावितं शरणदं मृगयन्ति बाढम् । दीपं च घोरगहने स्थिरसुप्रकाशमिच्छन्ति मार्गपरिशोधनसत्सहायम् ॥१६॥
एवं क्षयोपशमजं चरितं च बोधं प्राप्तोऽपि वेत्त्युभययोः प्लवनास्थिरत्वे । तस्मात् स सूत्रविधिना यतते क्षयोत्थचारित्रबोधसमुपार्जनदत्तचित्तः ॥१७॥
सर्वत्र चाऽन्यतमयोगमबाधमानो मुक्त्वा त्वामथ समुत्सुकतां च धीरः । भ्रान्त्यादिदोषपरिवर्जित एष शक्त्या चारित्रधर्ममनुतिष्ठति भावसारम् ॥१८॥
योगप्रकर्षवशतो वृणुतेऽथ मुक्तिं तत्तद्गुणोद्गमविरोधककर्मराशेः । भावक्रियां सुविशदामधिरोहतीत्थं यावद्भवं परिणतौ परिशुद्ध्यमानः ॥१९॥
नो पीडितः स तु तपश्चरणक्रियाभिनों बाधितो बहुपरीषहकष्टजालैः । रोगोपचारसहभाविशरीरकष्टन्यायेन विन्दति परां प्रशमानुभूतिम् ॥२०॥
For Priva 85 Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
से जहा केइ महावाहिगहिए, अणुभूयतव्वेयणे, विण्णाया सरूवेण, निविण्णे तत्तओ, सुवेज्जवयणेण सम्मं तमवगच्छिय जहाविहाणओ पवन्ने सुकिरियं, निरुद्धजहिच्छाचारे, तुच्छपत्थभोई मुच्चमाणे वाहिणा नियत्तमाणवेयणे समुवलब्भारोग्गं पवड्ढमाणतब्भावे, तल्लाभनिव्वुईए तप्पडिबंधाओ सिराखाराइजोगे वि वाहिसमारोग्गविण्णाणेण इट्ठनिप्फत्तीओ अणाकुलभावयाए किरिओवओगेण, अपीडिए, अव्वहिए, सुहलेस्साए वड्ढइ, वेज्जं च बहु मन्नइ । एवं कम्मवाहिगहिए, अणुभूयजम्माइवेयणे, विण्णाया दुक्खरूवेणं, निव्विण्णे तत्तओ तओ, सुगुरुवयणेण अणुट्ठाणाइणा तमवगच्छिय
For Private & P85.nal Use Only
Page #100
--------------------------------------------------------------------------
________________
कश्चिद्रुजा विषमया परिपीडितः सन् तद्वेदनानुभववान् विदितस्वरूपः । निर्विण्णभावमधिगम्य ततश्च सुज्ञवैद्योपदेशमनुसृत्य करोत्युपायान् ॥ २१ ॥
सर्वं यथेच्छचरणं निरुणद्धि सोडसावल्पं भुनक्ति हितकृद् विरसं च पथ्यम् । दुर्व्याधिना क्रमश एष विमुच्यमानः पीडानिवृत्तिमपि वेदयति क्रमेण ॥२२॥
आरोग्यलाभपरिवर्तनजाततोषस्तज्जन्यनिर्वृतिसुखेन दृढीकृतेच्छ: । क्षारोपलेपमथ शल्यचिकित्सितं च स स्वीकरोति गदशान्तिकरं प्रतीत्य ॥ २३॥
अव्याकुलो भवति च स्वसमीहिताप्तेः पीडाव्यथाविरहितोऽवहितः क्रियायाम् । लेश्या शुभा प्रतिदिनं किल वर्धतेऽस्य वैद्ये तथा हृदयतो बहुमानभावः ॥२४॥
रोगोपचारविषये सहजः क्रमोऽयं मोक्षार्थिसाधुविषयेऽप्ययमेवमेव । कर्माणि रुग् जनिजरामरणादि पीडा, वैद्यस्तु सद्गुरुरिति प्रकृतेऽवसेयम् ॥२५॥
For Private Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
पुव्वत्तविहाणओ पवन्ने सुकिरियं पवज्जं निरुद्धपमायचारे, असारसुद्धभोई, मुच्चमाणे कम्मवाहिणा, नियत्तमाणिट्ठवियोगाइवेयणे, समुवलब्भ चरणारोग्गं पवड्ढमाणसुहभावे, तल्लाभनिव्वुईए तप्पडिबंधविसेसओ परीसहोवसग्गभावे वि तत्तसंवेयणाओ कुसलसिद्धीए थिरासयत्तेण धम्मोवओगाओ सा थिमिए तेउल्लेसाए वड्ढइ, गुरू च बहु मन्नइ जहोचियं असंगपडिवत्तीए, निसग्गपवित्तिभावेण एसा गुरू वियाहिया भावसारा विसेसओ भगवंतबहुमाणेणं ।
88
Page #102
--------------------------------------------------------------------------
________________
विज्ञाय दुःखमयमत्र भवस्वरूप निर्विण्णभावमधिगम्य ततश्च बाढम् । संप्राप्य धर्ममथ सद्गुरुसंगयोगाच्चारित्रमुक्त विधिना प्रतिपद्यतेऽसौ ॥२६॥
स्वेच्छाप्रमादविहितं सकलं रुणद्धि गृणाति शुद्धमशनं विरसं च तुच्छम् । मुक्तिं क्रमादयमुपैति हि कर्मरोगात् पीडाऽपि चाऽस्य विनिवर्तत आर्तिरूपा ॥२७॥
नीरोगतां चणशोधनजां च लब्ध्या संवर्धमानशुभभावतया विशेषात् । तल्लाभनिर्वृतिबलादधिकानुरक्तो धैर्यं जहाति नहि कष्टपरीषहेषु ॥२८॥
किन्त्वेषु चैव कुशलाशयवृद्धिमेष तत्त्वानुशीलनबलेन लभेत बाढम् । शान्तस्य कार्यकुशलस्य ततोऽस्य तेजोलेश्या स्थिराशयवतः परिवर्धते च ॥२९॥
निर्लालसेन मनसा हि गुरुं प्रपन्नो धत्ते गुरौ सुबहुमानमसौ निसर्गात् । गुर्वी मता मुनिजनैः प्रतिपत्तिरेषा कर्मक्षयोपशमजा किल भावसार ॥३०॥
Page #103
--------------------------------------------------------------------------
________________
आयओ गुरुबहुमाणो
अओ परमगुरुसंजोगो
90
Page #104
--------------------------------------------------------------------------
________________
mer
ArtissuanLUARin
-
तओ सिद्धी असंसयं
Page #105
--------------------------------------------------------------------------
________________
जो मं पडिमन्नइ से गुरुं ति तयाणा। अन्नहा किरिया अकिरिया कुलडानारीकिरियासमा, गरहिया तत्तवेईणं, अफलफलजोगओ। विसन्नतत्तीफलमेत्थ नायं । आवट्टे खु तप्फलं असुहाणुबंधे। आयओ गुरुबहुमाणो अवंझकारणत्तेण । अओ परमगुरुसंजोगो । तओ सिद्धी असंसयं । एसेह सुहोदए, पगिट्ठतयणुबंधे, भववाहितेगिच्छी। न इओ सुंदरं परं । उवमा एत्थ न विज्जई ।
४. गुरुबहुमानव्यतिरेकेण क्रिया उपधिप्रत्युपेक्षणादिरूपा अक्रिया सक्रियातोऽन्या ।
92
Page #106
--------------------------------------------------------------------------
________________
अत्राऽऽहितोऽस्ति भगवद्बहुमानभावो 'मां मन्यते स गुरु'मित्यभवद् यदाज्ञा । एतां विना सकलमाचरणं तु मिथ्या स्यात्पुंश्चलीजनसुसेवितसक्रियावत् ॥३१॥
तद् गर्हितं हि नितरां परमार्थविद्भिर्यस्मादभीष्टफलतोऽन्यफलं फलं न । तृप्तिर्विषान्नजनिता विदुषामनिष्टा तद्वत् प्रपत्तिरहिता सकला क्रियाऽपि ॥३२॥
एतद्विषं गुरुषु योऽबहुमानभावो धर्मं निहन्ति सकलं तु विराधनैषा । आवर्त एव खलु तत्फलमत्र बोध्यं पापानुबन्धि विदुषां नितरामनिष्टम् ॥३३॥
मोक्षो ह्ययं गुरुषु यो बहुमानभावो मुक्ते रवन्ध्यमयमस्ति यतो निमित्तम् । अस्मात् परेण गुरुणा परमात्मना वै योगो भवेत् तदनु सिद्धिरसंशयं यत् ॥३४॥
उच्चैः शुभोदयमयः प्रवरानुबन्धी संसाररोगशमनो बहुमान एषः । नाऽस्त्येव सुन्दरतरं किमपीह तस्मानैवोपमा जगति काऽपि किलाऽस्य दृष्टा ॥३५॥
For Private 93ersonal Use Only
Page #107
--------------------------------------------------------------------------
________________
ThulourationEWROCURUUUpay S uwaldhunuwaunual
अक्कमइ सब्बदेवतेउलेसं
94
Page #108
--------------------------------------------------------------------------
________________
खवड़ लोगसण्णं
For Private &P695nal Use Only
Page #109
--------------------------------------------------------------------------
________________
से एवंपण्णे एवंभावे एवंपरिणामे अप्पडिवडिए वड्ढमाणे तेउलेसाए दुवालसमासिएणं परियाएणं अइक्कमइ सव्वदेवतेउलेसं । एवमाह . महामुणी । तओ सुक्क सुक्काभिजाई भवइ । पायं छिण्णकम्माणुबंधे। खवइ लोगसण्णं । पडिसोयगामी, अणुसोयनियत्ते, सया सुहजोगे, एस जोगी वियाहिए । एस आराहगे सामण्णस्स । जहागहियपइण्णे सव्वोवहासुद्धे संधइ सुद्धगं भवं सम्मं अभवसाहगं भोगकिरियासुरूवाइकप्पं ।
५. तेजोलेश्या चित्तसुखलाभलक्षणा ।। ६. प्रायश्छिनकर्मानुबन्धः न तद्वेदयन्स्तथाविधमन्यद् बघ्नाति ।
For Private & P96. nal Use Only
Page #110
--------------------------------------------------------------------------
________________
प्रज्ञेदृशी भवति तस्य विवेकयोगाद् भावोऽपि तस्य खलु साहजिकस्तथैव । स्यात् तादृशी परिणतिर्गुरुमन्तरेण मार्गात् परिच्यवति नैव ततोऽयमिष्टात् ॥३६॥
लेश्याऽपि वृद्धिमुपयाति हि तेजसोऽस्य प्रोक्तं यथा किल महामुनिनाडगमेषु । 'अत्येति वै मुनिरिहाऽखिलदेवतेजोलेश्यां तु वत्सरमितश्रमणत्वकाले' ॥३७॥
संप्राप्नुवन् क्रमिकशुक्लतरस्थितिं च शुक्लाभिजातिरयमत्र भवेन्मुनीन्द्रः । प्रायो भवन्त्यशुभकर्मरसानुबन्धाः क्षीणास्तथा क्षयमुपैति हि लोकसंज्ञा ॥३८॥
त्यक्तानुकूलगमनः प्रतिकूलगामी योगीति नाम लभते श्रमणार्हयोगैः । श्रामण्यमेष भजते तु यथाप्रतिज्ञं सर्वोपधाविरहितं विधिभावसारम् ॥३९॥
एवं लभेत भवमन्त्यभवस्य हेतुं रूपादिकं विलसिते करणं यथा स्यात् । भोगक्रिया भवति पूर्णपदा किलैतैर्यत् साधनान्यविकलानि हि साधकानि ॥४०॥
For Priva97 & Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
तओ ता संपुण्णा पाउणइ अविगलहेउभावओ असंकिलिट्ठसुहरूवाओ अपरोवताविणीओ सुंदराओ अणुबंधेणं । न य अण्णा संपुण्णा, तत्तत्तखंडणेणं । एयं नाणं ति वुच्चइ । एयंमि सुहजोगसिद्धी उचियपडिवत्तिपहाणा । एत्थ भावे पवत्तगे । पायं विग्घो न विज्जइ निरणुबंधासुहकम्मभावेण । अक्खित्ता उइमे जोगा भावाराहणाओ तहा, तओ सम्मं पवत्तइ, निप्फाएइ अणाउले । एवं किरिया सुकिरिया एगंतनिक्कलंका निक्कलंकत्थसाहिया, तहा सुहाणुबंधा उत्तरुत्तरजोगसिद्धीए ।
७.
न ज्ञस्तदारभते यद्विनाशयति ।
For Private & Pedonal Use Only
Page #112
--------------------------------------------------------------------------
________________
भोगक्रिया सकलसाधनसंभृता स्यादन्योपतापरहिता सशुभानुबन्धा । संक्लेशदोषविगमात् प्रवरा मता सा तत्तत्त्वखण्डनवशादितर न पूर्णा ॥४१॥
एवं हि सुन्दरभवादिकमाप्यतेऽत्र मोक्षार्थसाधकमनेन शुभानुबन्धम् । जानाति सर्वमिदमेष विशुद्धचेता ज्ञानं प्रयोजकमिदं किल कथ्यतेऽत्र ॥४२॥
ज्ञाने सतीह किल संभवति प्रवृत्तिः सद्धर्मसाधनविधावुचिताधिकारा । भावः प्रवर्तक इहाऽस्ति न मोहभावः प्रायोऽत्र विघ्नविरहः सदुपाययोगात् ॥४३॥
यत्कर्मणामपगता अशुभानुबन्धा यत्स्वीकृताश्चिरसुभावितधर्मयोगाः । तस्मात् प्रवर्तत इहाउधिकृते स सम्यङ् निष्पादयत्ययमनाकुल इष्टसाध्यम् ॥४४॥
एवं क्रियाऽस्य सकला खलु निष्कलङ्का स्यात् साधिकाडलमकलङ्कपदोपलब्धः । सर्वानुबन्धरचनाऽपि सदा शुभा स्यादुच्चोच्वशुद्धतरयोगविधानसिद्ध्या ॥४५॥
For Private99 Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
तओ से साहइ परं परत्थं सम्मं तक्कुसले सया तेहिं तेहिं पगारेहि साणुबंध, महोदए बीजबीजादिट्ठावणेणं, कत्तिविरिआइजुत्ते, अवंझसुहचेटे, समंतभद्दे, सुप्पणिहाणाइहेऊ, मोहतिमिरदीवे, रागामयवेज्जे दोसाणलजलनिही, संवेगसिद्धिकरे हवइ अचिंतचिंतामणिकप्पे । से एवं परपरत्थसाहए तहा करुणाइभावओ अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा, पवड्ढमाणे अ सुहभावेहिं अणेगभवियाए आराहणाए पाउणइ सव्वुत्तमं भवं चरमं अचरमभवहेउं अविगलपरपरत्थनिमित्तं । तत्थ काऊण निरवसेसं किच्चं विहूयरयमले सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ त्ति ।
पव्वज्जापरिपालणासुत्तं समत्तं ॥ ४ ॥
100
Page #114
--------------------------------------------------------------------------
________________
अर्थं परात्पमयं च ततः प्रकारैस्तैस्तैस्तु साधयति तत्कुशलः प्रकामम् । संस्थापयत्यपरहृत्सु च धर्मबीजबीजानि मोदनमुखानि महोदयोऽसौ ॥४६॥
सत्कर्तृवीर्यसहितश्च समन्तभद्राकारो वन्ध्यशुभचेष्ट उदारचेताः । हेतुः परः प्रणिधिमुख्यशुभाशयानां दीपश्च मोहतिमिरे प्रसरत्प्रकाशः ॥४७॥
रागामयप्रशमने वरवैद्यरुपो द्वेषानलप्रशमने जलधिस्वरूपः । संवेगसिद्धिकर एष भवेदचिन्त्यचिन्तामणिः सकलजन्तुसुखावहत्वात् ॥४८॥
(युग्मम्)
एवं पार्थवरसाधक एष बाद नैकेषु जन्मसु कूतप्रतिसेवनातः । संक्षीयमाणकलुषो विक्सच्छुभांशः प्राप्नोति जन्म चम चमाप्तिहेतु ॥४९॥
तस्मिन् भवे त्वविकलस्वपरार्थहेतौ संपाद्य सर्वकरणीयमपास्तकर्मा । सिद्धिं विमुक्तिमथ निर्वृतिमेष याति निःशेषदुःखनिचयस्य करोति चाऽन्तम् ॥५०॥
101
Page #115
--------------------------------------------------------------------------
________________
स एवमभिसिद्धे
102
Page #116
--------------------------------------------------------------------------
________________
AILATIO
अवेक्खा अणाणंदे
103
Page #117
--------------------------------------------------------------------------
________________
पंचमं पव्वज्जाफलसुत्तं स एवमभिसिद्धे, परमबंभे, मंगलालए, जम्म-जरा-मरणरहिए, पहीणासुहे, अणुबंधसत्तिवज्जिए, संपत्तनियसरूवे, अकिरिए, सहावसंठिए, अणंत- . नाणे, अणंतदंसणे। से न सद्दे, न रूवे, न गंधे, न रसे, न फासे, अरूविणी सत्ता, अणित्थंत्थसंठाणा, अणंतवीरिया, कयकिच्चा, सव्वाबाहाविवज्जिया, सव्वहा निरवेक्खा, थिमिया, पसंता । असंजोगिए एसाणंदे, अओ चेव परे मए। अवेक्खा अणाणंदे,
104
Page #118
--------------------------------------------------------------------------
________________
पञ्चमं प्रव्रज्याफलसूत्रम् सिद्धिं समभ्युपगतो विधिना ह्यनेन ब्रह्मत्वमेष लभते वरमङ्गलाढ्यम् । क्षीणाशुभो जनिजरामरणादिमुक्तः कर्मानुबन्धकरशक्तिवियुग भवेच्च ॥ १
प्रोद्भूतशुद्धनिजरूपमयोऽक्रियश्च सांसिद्धिक प्रकृतिसंस्थित एष पूर्णः । ज्ञानं च दर्शनमनन्तमवाप्य सिद्धो लोकोत्तरं कमपि सल्लभते पदं सः ॥ २
शब्दो न रूपमपि नो न च गन्ध एषः स्पर्शों न वा न च रसः किल भाव्यतेऽसौ । सत्ता तु केवलमरूपवती प्रसिद्धा संस्थानमित्थमिति न व्यपदिश्यतेऽस्याः ॥३
वीर्यं त्वनन्तमपि चाऽत्र न कार्यशेषस्तस्मादिहाऽस्ति पमा कृतकृत्यता हि । बाधा भवन्ति विगताः खलु चाऽत्र सर्वाश्छिन्ना यदत्र सकला बत सन्त्यपेक्षाः ॥४
सत्ता किलेयमभितः स्तिमिता प्रशान्ता संयोगमुक्तमिति चात्र सुखं प्रकृष्टम् । आनन्द एष परमो विदुषां मतोऽस्ति दुःखस्य मूलमियमेव यतोऽस्त्यपेक्षा ॥ ५
___
For Private
Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
संजोगो
106
Page #120
--------------------------------------------------------------------------
________________
विओगकारणं For Private 10 Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
संजोगो विओगकारणं, अफलं फलमेयाओ, विणिवायपरंखुतं, बहुमयं मोहाओ अबुहाणं, जमेत्तो विवज्जओ, तओ अणत्था अपज्जवसिया। एस भावरिपू परे अओ वुत्ते उ भगवया। नागासेण जोगो एयस्स । से सरूवसंठिए । नागासमण्णत्थ, न सत्ता सदंतरमुवेइ । अचिंतमेयं केवलिगम्मं तत्तं । निच्छयमयमेयं । विजोगवं च जोगो त्ति न एस जोगो, भिण्णं लक्खणमेयस्स । न एत्थावेक्खा,
108
Page #122
--------------------------------------------------------------------------
________________
संयोगमात्रमिह पर्यवसानहेतु संयोगजातमिह यल फलं हि तत् स्यात् । यस्मादिदं नियमतो विनिपातशीलं मोहादबोधजनता बहु मन्यते तत् ॥६
मोहाद्विपर्ययमतिस्तदनु प्रवृत्तिमिथ्येत्यपर्यवसिताश्च ततस्त्वनाः । मोहो ह्ययं भगवता गदितोऽस्ति भावशत्रुः परोऽस्य विगमो हि मता विमुक्तिः ॥७
मुक्तस्य नो भवति केन सहाऽपि योगो नाऽस्त्येव तस्य नभसाऽपि हि कोऽपि योगः । नैजं स्वपमधितिष्ठति सिद्धजीव आधार एव नभसोऽपि च नाऽस्ति कश्चित् ॥ ८
सत्तान्तरं न खलु गच्छति सत्पदार्थ एतत्त्वचिन्त्यमति केवलिगम्यतत्त्वम् । एतद्धि निश्चयनयाश्रयणेन गूढतत्त्वावबोधरसिकेन विचारणीयम् ॥ ९
योगा भवन्ति सकला हि वियोगवन्तः सिद्धस्य नो भवति तलभसा वियोगः । तल्लक्षणाननुगमाल किलैष योगः सिद्धस्य नास्ति नभसोऽपि च काऽप्यपेक्षा ॥ १०
109
Page #123
--------------------------------------------------------------------------
________________
सहावो खु एसो अणंतसुहसहावकप्पो । उवमा एत्थ न विज्जइ । तब्भावेऽणुभवो परं तस्सेव । आणा एसा जिणाणं सव्वण्णूणं अवितहा एगंतओ । न वितत्ते निमित्तं । न चानिमित्तं कज्जं ति ।
निदंसणमेत्तं तु नवरं सव्वसत्तुक्खए सव्ववाहिविगमे सव्वत्थसंजोगेणं सव्विच्छासंपत्तीए जारिसमेयं एत्तोऽणंतगुणं खुतं, भावसत्तुक्खयादितो ।
110
Page #124
--------------------------------------------------------------------------
________________
लोकान्तदेशगमनं सहजस्वभावात् सौख्यस्वभाव इव चाऽयमपि स्वभावः । कर्मक्षये प्रकटितश्च भवेत्स्वभावः सर्वं समञ्जसमिति प्रकृतं श्रयामः ॥ ११
नैवोपमाऽस्ति किल सिद्धसुखस्य विश्वे तस्य प्रमाणमथ चाऽनुभवः किलैकः । स्यानूनमेष बत सिद्धिगतस्य तस्य नाऽन्यस्य चेति नियता स्थितिरत्र बोध्या ॥ १२
सर्वज्ञभाषितमिदं सकलं स्वपं तन्नाऽन्यथा भवितुमर्हति निश्चयेन । तेषां निमित्तमपि नाऽनृतभाषणेऽस्ति नैवानिमित्तमपि संभवतीह कार्यम् ॥ १३
प्रस्तूयते तदपि सिद्धसुखस्य किञ्चिद्बोधाय लौकिकनिदर्शनमात्रमेतत् । यादृक् सुखं सकलशत्रुविनाशतः स्याद् यादृक् च सर्वविधरोगसमाप्तितः स्यात् ॥ १४
सर्वार्थलाभसमये च सुखं नु यत् स्यात् सर्वाभिलाषपरिपूर्तिवशाच्च यत् स्यात् । तस्मादनन्तगुणमेव सुखं तु मुक्तौ स्याद् भावशत्रुविलयादिकहेतुभिर्हि ॥ १५
युग्मम् ॥
For Privateta Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
रागादयो भावसत्तू, कम्मोदया वाहिणो, परमलद्धीओ उ अत्था, अणिच्छेच्छा इच्छा । एवं सुहुममेयं, न तत्तओ इयरेण गम्मइ, जइसुहमिवाजइणा, आरुग्गसुहं व रोगिण त्ति विभासा।। अचिंतमेयं सरूवेणं । साइअपज्जवसियं एगसिद्धावेक्खाए । पवाहओ अणाई । ते वि भगवंतो एवं, तहाभव्वत्ताइभावओ। विचित्तमेयं तहाफलभेएणं । नाविचित्ते सहकारिभेओ। तदवेक्खो तओ त्ति अणेगंतवाओ तत्तवाओ । स खलु एवं ।
112
Page #126
--------------------------------------------------------------------------
________________
भावारयो जगति सन्ति च रागमुख्याः कर्मादयश्च विदिताः किल भावोगाः । लाभो मतः परमलब्धिगणस्य नूनमिच्छा तु केवलमनिच्छपदस्य चाऽत्र ॥ १६
एतत्सुसूक्ष्ममिति सिद्धिसुखं न गम्यं सिद्धेतरेण किल तात्त्विकभावसारम् । न ज्ञायते यतिसुखं गृहिणा यथा वा रुग्णेन वा बत निरामयतासुखं तु ॥ १७
मोक्षे सुखं किल नितान्तमचिन्त्यरूपमेकं तु सिद्धमनुलक्ष्य च साद्यनन्तम् । किन्तु प्रवाहमनुलक्ष्य भवेदनादि मुक्तौ यतो भगवतां स्थितिरीदृशी हि ॥ १८
भव्यत्वमस्ति विविधं नु तथाप्रकारं वैविध्यमस्य फलभेदवशात्तु लक्ष्यम् । भेदोऽन्यथा न सहकारिषु संभवेन्लु सापेक्षभाव इह सर्वनियामको यत् ॥ १९
तत्त्वार्थबोधविषये श्रयणीय एषोऽनेकान्त एव स भवेदिह चैवमेव । भव्यत्वनैकविधताश्रयणेन सिद्धोअनेकान्तवाद इति सुन्दरजैनदृष्टिः ॥ २०
For Prills & Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
इयरहेगंतो। मिच्छत्तमेसो। न एत्तो ववत्था । अणारहयमेयं । संसारिणो उ सिद्धत्तं । नाबद्धस्स मुत्ती सद्दत्थरहिया। अणाइमं बंधो पवाहेणं अईयकालतुल्लो । अबद्धबंधणे अमुत्ती पुणोबंधपसंगाओ। अविसेसो बद्ध-मुक्काणं । अणाइजोगे वि विओगो कंचणोवलनाएणं । ण दिदिक्खा अकरणस्स। ण यादिट्टम्मि एसा। ण सहजाए णिवित्ती ।
For Private 114rsonal Use Only
Page #128
--------------------------------------------------------------------------
________________
एकान्त आपतति चेतरथा तु नूनमेकान्ततश्च विघटेत् सकला व्यवस्था । एष त्वनार्हत इति त्यजनीय एव सिद्धिश्च संभवति संसरतो हि जन्तोः ॥ २१
एकान्ततो न खलु सिध्यति बन्धनं हि मुक्तिश्च बन्धरहितस्य तु शब्दमात्रम् । जीवस्य बन्धनमिदं प्रवहत्यनादिकालादतीतसमयेन च तुल्यमेतत् ॥ २२
बद्धो न पूर्वमथ तस्य च बन्धनं चेद् । वैयर्थ्यमेव फलितं हि ततोऽस्य मुक्तेः । यस्मात् पुनश्च खलु संभवति प्रसङ्गो बन्धस्य चेति मतमेतदसाधु भाव्यम् ॥ २३
बद्धस्य बन्धवियुजश्च न तत्र भेदो बन्धे त्वनादिमति नाऽपि च मुक्त्यभावः । योगो ह्यनादिरपि नाशमुपैति नूनं न्यायोऽत्र काञ्चनमूदोर्विनियोजनीयः ॥ २४
पूर्वं तु बन्धरहितोऽस्ति ततो दिदृक्षा तस्याश्च बन्धनमिति प्रवदन्ति केचित् । नैवं यतो न घटते खलु साडप्यदृष्टे स्वाभाविकीति कथने न निवृत्तिरस्याः ॥ २५
115
Page #129
--------------------------------------------------------------------------
________________
ण निवित्तीय आयट्ठाणं । ण यण्णहा तस्सेसा । ण भव्वत्ततुल्ला णाएणं । ण केवलजीवरूवमेयं । ण भाविजोगावेक्खाए तुल्लत्तं, तदा केवलत्तेण सयाऽविसेसाओ । तहासहावकप्पणमप्पमाणमेव । एसेव दोसो परिकप्पियाए । परिणामभेया बंधादिभेदो त्ति साहू, सव्वणयविसुद्धीए णिरुवचरिओभयभावेणं ।
|
116
Page #130
--------------------------------------------------------------------------
________________
तस्या निवृत्तिरपि चेत् स्थितिरात्मनोऽपि न स्याद्यतः सहजलक्षणनाश एषः । सांसिद्धिकी भवितुमर्हति सा दिदृक्षा भव्यत्वतुल्यकथनं च न नीतियुक्तम् ॥ २६
भव्यत्वमस्ति नहि केवलजीवमात्रमेषा स्वभावघटिता बत जीवभूता । नो केवला यत इहाऽस्ति हि भाविकाले संयोग इत्यपि मतं न समञ्जसं स्यात् ॥ २७
चेत् केवला प्रथमतो न ततस्तु शक्यः केनाऽपि योग इति नो विकृतिप्रसंग: । किंवाऽन्ययोगभवनोत्तरतोऽपि तस्याः सत्ता किलाssपतति साहजिकत्वतस्तु ॥ २८
योगादनन्तरमियं च निवर्त्तते तत्स्वाभाव्यतः कथनमित्यपि न प्रमाणम् । नव्यः पदार्थ इति शास्त्रविरोधदोषो दोषः प्रमाणविरहः किल कल्पितायाम् ॥ २९
योगो वियोग इतरेण य आत्मनः स्यातेनैव तस्य तु भवेत् परिणामभेदः । हेतुर्हि बन्धनविमुक्तिगते तु भेदे सिद्धः सुसंगततया परिणामभेद: ॥ ३०
117
Page #131
--------------------------------------------------------------------------
________________
ण अप्पभूयं कम्मं । ण परिकप्पियमेयं । ण एवं भवादिभेदो । ण भवाभावो उ सिद्धी। ण तदुच्छेदे अणुप्पाओ । ण एवं समंजसत्तं । णाणादिमं भवो । ण हेउफलभावो । तस्स तहासहावकप्पणमजुत्तं, णिराहारनयत्तओ णिओगेणं ।
For-Private 11 Bersonal Use Only
Page #132
--------------------------------------------------------------------------
________________
एतच्च सर्वनयशुद्धतया विशुद्धानारोपमुख्य-नयमुख्यतया विबोध्यम् । द्रव्यास्तिकं समधिकृत्य गतोऽधिकारः पर्यायदृष्टिमधिकृत्य तु कथ्यतेऽथ ॥ ३१
कमैव कारणमलं भवमोक्षभेदे नैवाऽऽत्मभूतमथ नाऽपि च कल्पितं तत् । यद्यात्मभूतमथ कल्पितमेव तत्स्यामोक्षे भवे च न भवेत् किल कोऽपि भेदः ॥ ३२
विध्यातदीप इव संततिभङ्गरूपो मोक्षोऽपि नो भवति संगतिभाग विचारे । सद्वस्तुनोऽपि विलयोऽभिमतो मतेऽस्मिलुत्पाद एवमसतोऽपि भवेत् सुमान्यः ॥ ३३
एतन्मते पुनरपि प्रभवो भवस्य न स्यात् समञ्जसमिदं विदुषां हि दृष्टौ । नानादिता च घटतेऽत्र मते भवस्य नो कार्यकारणनिबन्धकूता व्यवस्था ॥ ३४
तादृक् स्वभावपरिकल्पनमप्ययुक्तमन्त्यक्षणस्य हि निरन्वयता निवृत्तेः । नष्टे च वस्तुनि कथं भवतु स्वभाव ? आद्यक्षणस्य विषयेऽपि विचिन्त्यमेतत् ॥ ३५
For Priva? & Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
तस्सेव तहाभावे जुत्तमेयं । सुहुममट्ठपयमेयं । विचिंतियव्वं महापण्णाए त्ति । अपज्जवसियमेव(वं) सिद्धसुक्खं । एत्तो चेवुत्तमं इमं । सव्वहा अणुस्सुगत्ते अणंतभावाओ। लोगंतसिद्धिवासिणो एए । जत्थ एगो तत्थ णियमा अणंता । अकम्मुणो गई पुव्वपओगेण अलाबुप्पभिइणायओ।
For Private & P120nal Use Only
Page #134
--------------------------------------------------------------------------
________________
युक्तं भवेदिदमपि क्षणसान्वयत्वे न स्वीकृतं परमिदं क्षणवादपक्षे । मुक्ते: स्वरूपमिति सिध्यति नाऽत्र पक्षे सूक्ष्मोऽयमर्थ इति सूक्ष्मधिया विभाव्यः ॥ ३६
एवं ह्यपर्यवसितं सुखमत्र मोक्षे श्रेष्ठं किलैतदत एव सुखं प्रसिद्धम् । औत्सुक्यमत्र न समस्ति तु लेशमात्रं सौख्यं त्वनन्तमिति नाऽस्ति तुलाऽस्य लोके ॥ ३७
लोकाग्रसंस्थितविशुद्धतरप्रदेशे सिद्धा वसन्ति वरसिद्धशिलाख्यभूमौ । एकोऽस्ति यत्र खलु तत्र गता अनन्तास्तिष्ठन्ति शाश्वततयोज्झितकर्मणस्ते ॥ ३८
निष्कर्मणामपि गतिः पुनरुर्ध्वमेव पूर्वप्रयोगवशतो भवतीति बोध्यम् । अन्तर्जलं पतति लेपयुता ह्यलाबुलेपव्यये सहजमूर्ध्वमसौ यथेयात् ॥ ३९
ऊर्ध्वं ततोऽपि नहि याति च सिद्धजीवो नाऽधो गतागतमसौ कुरुते पुनश्च । ईदृक्स्वभावनियमोऽपि भवेदलाबुदृष्टान्ततो विशद इत्यवधारणीयम् ॥ ४०
Page #135
--------------------------------------------------------------------------
________________
नियमो अओ चेव । अफुसमाणगईए गमणं । उक्करिसविसेसओ इयं । अव्वोच्छेदो भव्वाणं अनंतभावेण । एयमणंताणंतयं । समया एत्थ णायं । भव्वत्तं जोगयामेत्तमेव केसिंचि, पडिमाजोग्गदारुणिदंसणेणं । ववहारमयमेयं । एसो वि तत्तंगं, पवित्तिविसोहणेण अणेगंतसिद्धिओ निच्छयंगभावेण । परिसुद्धो उ केवलं । एसा आणा इह भगवओ समंतभद्दा तिकोडिपरिसुद्धीए अपुणबंधगाइगम्मा ।
१.
२.
३.
फलगम्या च योग्यता ।
( व्यवहारनयः) परिशुद्धस्तु केवलमाज्ञापेक्षी पुष्टालम्बनः ।
इयं च भागवती सदाज्ञा सर्वैवाऽपुनर्बन्धकादिगम्या ।
122
Page #136
--------------------------------------------------------------------------
________________
एषा गतिर्निगदिता परमस्पृशन्ती वेगप्रकर्षवशतस्तुलनातिगा च । भव्यात्मनां जगति नाऽपि च शङ्कनीया व्युच्छिन्नतैवमिह यत् तदनन्तसंख्या ॥ ४१
यस्मादनन्तगुणितेयमनन्तसंख्या यस्या निदर्शनमलं समयावली स्यात् । भव्यत्वमप्यमुकजीवगतं नु शक्तिमात्रं यतो न परिपाकमिदं प्रयाति ॥ ४२
काष्ठं यथोचितमपि प्रतिमाविधानसंस्कारमेव लभते न कदाऽपि किञ्चित् । जीवेषु केचिदिह सन्ति तथा प्रकारा बोध्यं किलैतदिह सद्व्यवहारदृष्ट्या ॥ ४३
तत्त्वाङ्गमेव च नयो व्यवहार एष शुद्धिं प्रवृत्तिविषयां यदसौ विधत्ते । संपादयेदिति स निश्चयसाधनं चाऽनेकान्तसिद्धिरनयैव भवेत् सुनीत्या ॥ ४४
एषोऽस्तु केवलमलं परिशुद्धरूप आज्ञा त्वियं भगवतस्तु समन्तभद्रा । गम्या कषादिनिकषोत्तरणात् त्रिकोटिशुद्ध्या परं पुनरबन्धकमुख्यसत्त्वैः ॥ ४५
For Privat123 Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
एयपियत्तं खलु एत्थ लिंगं, ओचित्तपवित्तिविन्नेयं, संवेगसाहगं नियमा। न एसा अन्नेसिं देया। लिंगविवज्जयाओ तप्परिण्णा । तयणुग्गहट्ठाए आमकुंभोदगनासनाएणं। एसा करुण त्ति वुच्चइ एगंतपरिसुद्धा अविराहणाफला तिलोगनाहबहुमाणेणं निस्सेयससाहिग त्ति ।
पव्वज्जाफलसुत्तं समत्तं ॥ ५ ॥
॥ समत्तं पंचसुत्तं ॥
४. ५.
औचित्यबाधया तु प्रवृत्तौ न तत्प्रियत्वं, मोह एवाऽसौ । (तत्प्रियत्वम्-आज्ञाप्रियत्वम्) यस्य भागवती सदाज्ञा प्रिया तस्य नियमतः संवेग इति ।
For Private & Pel 24 al Use Only
Page #138
--------------------------------------------------------------------------
________________
आज्ञाप्रियत्वमुदितं किल लिङ्गमेषां तस्याऽपि लिङ्गमखिलाऽप्युचिता प्रवृत्तिः । यत्रौचितीरहितता न तदा प्रिया सा संवेगसाधकमिदं नियमात् प्रियत्वम् ॥ ४६
देया न चेयमितराय यथोक्त लिङ्गव्यत्यासतोऽस्य च भवेत् सुगमा परिज्ञा । एषोऽप्रदाननियमस्तदनुग्रहाय
न्यासो जलस्य हितकृन्न यथामकुम्भे ॥ ४७
एषोच्यते हि करुणा नितरां विशुद्धा युक्ताऽविराधनफलाऽऽयतिसौख्यदात्री । त्रैलोक्यनाथबहुमानविशेषभावान्निःश्रेयसप्रवरमङ्गलसाधयित्री ॥ ४८
For Private 8125rsonal Use Only
Page #139
--------------------------------------------------------------------------
________________
अनुवादस्य प्रशस्तिः
श्रीमद्बृहत्तपगणेऽहिपुरीयपक्षे श्रीपार्श्वचन्द्रमुनिनायक सत्कवंशे । संविज्ञमुख्यमुनिराट्कु शलाद्यचन्द्रशिष्यो बभूव मुनिसत्तमदीपचन्द्रः ॥ ४९
श्रीप्रीतिचन्द्र इति तस्य हि शिष्यवर्यस्तच्छिष्यलेशभुवनादिमचन्द्र नामा । सत्पाठकेतिपदयुक् किल पञ्चसूत्रं शास्त्रं महाशयमनूदितवान् समोदम् ॥ ५०
प्रद्युम्नसूरिरतिसौहृदभाक् च शीलचन्द्रेतिसूरिरिह भूरिगुणः प्रसिद्धः । श्रीमत्तपागणविभूषणतां दधानौ सूरी इमाविह सहायकतां व्यधाताम् ॥ ५१
श्रीपञ्चसूत्रकमिति प्रथिताभिधानं सत्प्राकृतं प्रवरशास्त्रमगाधभावम् । यत्कथ्यते खलु चिरन्तनसूरिदृब्धं यद्भासते च गुणतो बत हारिभद्रम् ॥ ५२
वर्षेऽक्षि-काय-वियदक्षिमिते (२०६२) अनुवादो धांगद्धरापुरि कृतोऽस्य सतां प्रियः स्तात् । यत्किञ्चिदत्र सुकृतं समुपार्जितं स्यात् तेनाऽस्तु मे सुविशदः सुकृतानुबन्धः ॥ ५३
For Private & Pe2hal Use Only
Page #140
--------------------------------------------------------------------------
________________
जत्थ एगो तत्थ णियमा अनंता
127
ain Education International
Page #141
--------------------------------------------------------------------------
________________
इदमपि ध्यानार्हम्
नन्नवाल
संस्कृतभाषामयी अयनपत्रिका
-नन्दनवनकल्पतरुः
हास्यमेव जयते
सचित्रहासकणिकानां सङ्ग्रहः
-हास्यमेव जयते
सागरविहङ्गमः
Jonathan Livingston Seagull - sta आङ्ग्लपुस्तकस्य संस्कृतानुवादः
-सागरविहङ्गमः
Page #142
--------------------------------------------------------------------------
________________ For Private & Personal use only