________________
किञ्चिद्वक्तव्यम् श्रीजिनशासनस्य चित्कोशे रत्नोपमान्यनेकानि शास्त्राणि विद्यन्ते । श्री पञ्चसूत्रेत्यभिधानं शास्त्रं तेष्वन्यतमं परमपावनमर्थगम्भीरमध्यात्म-पथदिग्दर्शकं साधकवर्गप्रियं चेति विदितमेव विदुषाम् । आत्मनः परमात्मतां प्रति विकासयात्रा कस्माद् बिन्दोरारभ्यते ? अस्या ऊर्ध्वयात्रायाः सोपानानि भवितुमर्हन्ति, कानि तानि सोपानानि ? कश्च तदुपलब्ध्युपायः ? एतादृशप्रश्नानामधिकृतं समाधानं यः कोऽपि विज्ञातुमभिलषेत्तेन श्रीमत्पञ्चसूत्रकमिदं सम्यक् परिशीलनीयं स्यात् । शास्त्रेऽस्मिन् पञ्च विभागाः सन्ति - १. पापप्रतिघात-गुणबीजाधानसूत्रम् । २. साधुधर्मपरिभावनासूत्रम् । ३. प्रव्रज्याग्रहणविधिसूत्रम् । ४. प्रव्रज्यापरिपालनासूत्रम् । ५. प्रव्रज्याफलसूत्रम् । गुणबीजाधानादारभ्य प्रव्रज्याफलरूपमुक्तिं यावत् यां यां भूमिकां साधकः स्पृशति तस्यास्तस्या लक्षणानि साधकमनःपरिणतावेव लक्ष्यानि स्युः। शास्त्रेऽस्मिन् तत्तद्भूमिकासंस्थितस्य साधकस्य विचारश्रेणयः संदर्शिताः, यदनुसारतस्तत्तद्भूमिकायां तस्य व्यवहाराः प्रतिफलन्ति । मनोव्यापारगतानि तानि लक्षणानि शास्त्रेऽस्मिन् सम्यगुपदर्शितानि । एतदाधारेणाऽऽराधकः स्वीयाचरणपरीक्षणं स्वभूमिकानिर्धारणं च सुखेन कर्तुं क्षमो भवति । प्राकृतभाषानिबद्धस्याऽस्य शास्त्रस्य रचयिता कोऽपि चिरन्तनाचार्य इत्यनुश्रुतिजैनसाहित्यक्षेत्रेऽनुवर्तते। विषय-शैली-शब्दप्रयोग-धर्मपरीक्षाग्रन्थगतोल्लेखादिबाह्यान्तरप्रमाणैः परीक्षिते सति कृतिरेषा समदर्शिनो हरिभद्राचार्यस्यैव संभाव्यते इति श्रीविजयशीलचन्द्रसूरिमतं, ममाऽपि च तत्सङ्गतं प्रतिभाति । सूत्रस्याऽस्य वृत्तिस्तु हरिभद्राचार्य-विरचितैव, तत्र च सूरीणां विवरणरीतिरपि मूलकार-वृत्तिकारयोरेकतामभिव्यनक्ति । सूत्रे बहूनि स्थानानि सन्ति यत्र विवरणमपेक्ष्यते, किन्तु वृत्तिकारस्तत् सुगमं मन्यमान इव न विवृणोति, नाममात्रं वा विवृणोति । मूलकाव्यतिरिक्तो यदि वृत्तिकारः स्यात्तदा विस्तरेण विवरणं कुर्यादेव। यत्र तत्र स्वाभिप्रायं विशदीकर्तुमर्थविशेषं पूरयितुं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org