SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सन्तापको नहि भवेत् स्वकुटुम्बिनां तु शक्त्या भवेद् गुणकरः करुणापरश्च । एवं ममत्वविगमात् करुणैकबुद्ध्या तत्पालनेऽप्यपरपालनवद्धि धर्मः ॥१६॥ यति जीवाः पृथक् पृथिगह प्रकटं नु सर्वे कर्मानुसारमथ संगमनं च तेषाम् । जीवो ममत्वमुपयाति च बध्यते च तस्मान्ममत्वरहितेन सदा प्रवर्त्यम् ॥१७॥ तत्तत्स्वकार्यविषये स्मृतिमान् सदा स्यादस्मिन् कुलेडमुकसुतोऽमुकशिष्यकोऽहम् । एतत्समाचरणमत्र मया विधेयं तत्खण्डनं न च कृतं न च कर्तुमीहे ॥१८॥ वृद्धिं च याति मम धर्मविधानमेतद् एतद्धि सारमथ चैतदिहाऽऽत्मभूतम् । एतद्धि मे हितकरं विधिनाऽऽदृतं चेद् एतद् विहाय किल सर्वमसारमन्यत् ॥१९॥ सर्वं हि नूनमहिताय विधिव्यपेतमित्युक्तवान् परमकारुणिको जिनेन्द्रः । धर्माविरोधमिति कर्मणि संप्रवर्त्यमेतद् भवेत् पममंगलमिष्टसिद्धौ ॥२०॥ Jain Education International For Private43Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy