SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ तस्या निवृत्तिरपि चेत् स्थितिरात्मनोऽपि न स्याद्यतः सहजलक्षणनाश एषः । सांसिद्धिकी भवितुमर्हति सा दिदृक्षा भव्यत्वतुल्यकथनं च न नीतियुक्तम् ॥ २६ भव्यत्वमस्ति नहि केवलजीवमात्रमेषा स्वभावघटिता बत जीवभूता । नो केवला यत इहाऽस्ति हि भाविकाले संयोग इत्यपि मतं न समञ्जसं स्यात् ॥ २७ चेत् केवला प्रथमतो न ततस्तु शक्यः केनाऽपि योग इति नो विकृतिप्रसंग: । किंवाऽन्ययोगभवनोत्तरतोऽपि तस्याः सत्ता किलाssपतति साहजिकत्वतस्तु ॥ २८ योगादनन्तरमियं च निवर्त्तते तत्स्वाभाव्यतः कथनमित्यपि न प्रमाणम् । नव्यः पदार्थ इति शास्त्रविरोधदोषो दोषः प्रमाणविरहः किल कल्पितायाम् ॥ २९ योगो वियोग इतरेण य आत्मनः स्यातेनैव तस्य तु भवेत् परिणामभेदः । हेतुर्हि बन्धनविमुक्तिगते तु भेदे सिद्धः सुसंगततया परिणामभेद: ॥ ३० Jain Education International 117 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy