SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्राप्ता गुणा अभिनवाश्चिरसङ्गतास्तु दोषा अतः परिहरेद् गुणहीनसङ्गम् । सो धार्मिक जनस्य भवेदधर्मप्रोत्साहकोऽत्यशुभयोगपरम्पराकृत् ॥६॥ त्याज्यं समस्तमपि लोक विरुद्धमत्र निन्दास्पदो भवति येन जनेषु धर्मः । संक्लेश एष इति तीव्रमबोधिबीजं स्वस्याऽऽत्मनोऽप्यलमबोधिफलं परस्य ॥७॥ अस्मात्परो जगति नास्ति महाननर्थः संसारकाननगतस्य किलाऽन्धतैषा । या केवलं विकटसङ्कटजन्मदात्री पापानुबन्धनकरी च भयङ्करी च ॥८॥ अन्धोऽनुकर्षक जनं भिषजं नु रुग्णो भीतस्तु वीरपुरुषं धनिकं दरिद्रः । सेवेत भावसहितं विधिना तथैव मित्राणि धर्मसहितानि भजेद् गुणेच्छुः ॥९॥ अस्मान्न सुन्दरतरं किमपीति मत्वा मित्रेषु तेषु निबिडं बहुमानयुक्तः । काङ्क्षेत् तदीयवचनं प्रतिपद्य सम्यङ् निष्पादयेच्च सकलं न तु खण्डयेच्च ॥ १० ॥ Jain Education International For Priva35 & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy