SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ (शालिनीवृत्तम्) अर्हत्सिद्धाचार्यसद्वाचकेषु साधुव्राते सर्वसाध्वीषु किं वा । अन्येषूच्चैः पूजनीयेषु धर्मस्थानेषु स्याद् दृष्कृतं मे यदेव ॥११॥ मातापित्रोर्बन्धुमित्रोपकारिलोके मार्गोन्मार्गसंस्थे जनौघे । सन्मार्गस्याssराधके चेतरे वा यत्किञ्चित् स्याद् दुष्कृतं मे वितथ्यम् ॥१२॥ जन्मन्यस्मिन् पूर्वजन्मान्तरे चा कृत्वा बाढं कारयित्वाऽनुमत्य । स्थूलं सूक्ष्मं कायवाङ्मानसोत्थं रागाद् द्वेषान्मोहदोषात् पुनर्वा ॥१३॥ जातं पापं पापकर्मानुबन्धि गर्हाम्येषोऽनिच्छनीयं निषिद्धम् । एतज्ज्ञातं सद्गुरूणां वचोभिये वै सत्यं विश्वकल्याणमित्रम् ॥ १४ ॥ मह्यं चैतद् रोचते सद्गुरूक्तं त्याज्यं सर्वं दुष्कृतं गर्हणीयम् । गर्हाम्यर्हत्सिद्धसाक्ष्ये तथैव (चतुर्भिः कुलकम् ) मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ मिथ्या मे स्याद् दुष्कृतं सर्वमेव मिथ्या मे स्याद् दुष्कृतं सर्वमेव ॥ १५ ॥ Jain Education International 11 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy