________________
सम्यग्रूपा स्यान्ममेयं तु गर्दा नाऽहं कुर्यामायतौ तत्पुनश्च । इष्टं चेति प्रार्थयेवाडनुशास्तिं श्रीअर्हद्भ्यः सद्गुरुभ्यश्च भूरि ॥१६॥
भूयादेभिः सङ्गमो मेऽपि भूयो भूयादेषा प्रार्थना शुद्धरुपा। भूयाद् भूयानादर: प्रार्थनायां भूयादस्या मोक्षबीजं ममेति ॥१७॥
प्राप्तेषु स्यां सेवनार्होडप्यमीषां संपूज्यानामर्हतां सद्गुरूणाम् । आज्ञार्हः स्यां तत्क्रियावानपि स्यां निर्दोष स्यां पारगश्चापि तस्याः ॥१८॥
॥ सुकृतानुमोदनम् ॥
(उपजातिवृत्तम्) प्रमोदभावादमनुमोदयामि यदेव किञ्चित् सुकृतं जगत्याम् । सेवे यथाशक्ति यथोचितं च संवेगपूर्णः सुकृतं प्रशस्यम् ॥१९॥
जिनेश्वराणामनुमोदयामि स्वान्योपकारप्रवणं पुमर्थम् । सिद्धात्मनां चिन्मयसिद्धभावमाचारमाचार्यगणस्य शस्यम् ॥२०॥
17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org