SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ संयोगमात्रमिह पर्यवसानहेतु संयोगजातमिह यल फलं हि तत् स्यात् । यस्मादिदं नियमतो विनिपातशीलं मोहादबोधजनता बहु मन्यते तत् ॥६ मोहाद्विपर्ययमतिस्तदनु प्रवृत्तिमिथ्येत्यपर्यवसिताश्च ततस्त्वनाः । मोहो ह्ययं भगवता गदितोऽस्ति भावशत्रुः परोऽस्य विगमो हि मता विमुक्तिः ॥७ मुक्तस्य नो भवति केन सहाऽपि योगो नाऽस्त्येव तस्य नभसाऽपि हि कोऽपि योगः । नैजं स्वपमधितिष्ठति सिद्धजीव आधार एव नभसोऽपि च नाऽस्ति कश्चित् ॥ ८ सत्तान्तरं न खलु गच्छति सत्पदार्थ एतत्त्वचिन्त्यमति केवलिगम्यतत्त्वम् । एतद्धि निश्चयनयाश्रयणेन गूढतत्त्वावबोधरसिकेन विचारणीयम् ॥ ९ योगा भवन्ति सकला हि वियोगवन्तः सिद्धस्य नो भवति तलभसा वियोगः । तल्लक्षणाननुगमाल किलैष योगः सिद्धस्य नास्ति नभसोऽपि च काऽप्यपेक्षा ॥ १० Jain Education International 109 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy