________________
विज्ञाय दुःखमयमत्र भवस्वरूप निर्विण्णभावमधिगम्य ततश्च बाढम् । संप्राप्य धर्ममथ सद्गुरुसंगयोगाच्चारित्रमुक्त विधिना प्रतिपद्यतेऽसौ ॥२६॥
स्वेच्छाप्रमादविहितं सकलं रुणद्धि गृणाति शुद्धमशनं विरसं च तुच्छम् । मुक्तिं क्रमादयमुपैति हि कर्मरोगात् पीडाऽपि चाऽस्य विनिवर्तत आर्तिरूपा ॥२७॥
नीरोगतां चणशोधनजां च लब्ध्या संवर्धमानशुभभावतया विशेषात् । तल्लाभनिर्वृतिबलादधिकानुरक्तो धैर्यं जहाति नहि कष्टपरीषहेषु ॥२८॥
किन्त्वेषु चैव कुशलाशयवृद्धिमेष तत्त्वानुशीलनबलेन लभेत बाढम् । शान्तस्य कार्यकुशलस्य ततोऽस्य तेजोलेश्या स्थिराशयवतः परिवर्धते च ॥२९॥
निर्लालसेन मनसा हि गुरुं प्रपन्नो धत्ते गुरौ सुबहुमानमसौ निसर्गात् । गुर्वी मता मुनिजनैः प्रतिपत्तिरेषा कर्मक्षयोपशमजा किल भावसार ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org