SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ लोकान्तदेशगमनं सहजस्वभावात् सौख्यस्वभाव इव चाऽयमपि स्वभावः । कर्मक्षये प्रकटितश्च भवेत्स्वभावः सर्वं समञ्जसमिति प्रकृतं श्रयामः ॥ ११ नैवोपमाऽस्ति किल सिद्धसुखस्य विश्वे तस्य प्रमाणमथ चाऽनुभवः किलैकः । स्यानूनमेष बत सिद्धिगतस्य तस्य नाऽन्यस्य चेति नियता स्थितिरत्र बोध्या ॥ १२ सर्वज्ञभाषितमिदं सकलं स्वपं तन्नाऽन्यथा भवितुमर्हति निश्चयेन । तेषां निमित्तमपि नाऽनृतभाषणेऽस्ति नैवानिमित्तमपि संभवतीह कार्यम् ॥ १३ प्रस्तूयते तदपि सिद्धसुखस्य किञ्चिद्बोधाय लौकिकनिदर्शनमात्रमेतत् । यादृक् सुखं सकलशत्रुविनाशतः स्याद् यादृक् च सर्वविधरोगसमाप्तितः स्यात् ॥ १४ सर्वार्थलाभसमये च सुखं नु यत् स्यात् सर्वाभिलाषपरिपूर्तिवशाच्च यत् स्यात् । तस्मादनन्तगुणमेव सुखं तु मुक्तौ स्याद् भावशत्रुविलयादिकहेतुभिर्हि ॥ १५ युग्मम् ॥ Jain Education International For Privateta Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy