SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अम्भोनिधौ पतितरत्नसमं दुरापं मानुष्यकं नहि बुधेन मुधाऽतिवाह्यम् । अन्ये भवा अकुशला अतिदुःखरूपा मोहान्धकारबहुला न सुधर्मयोग्याः ॥ ६ मानुष्यकं भवजले खलु पोतभूतं सम्मुद्र्य तस्य विवराणि तु संवरेण । सज्ज्ञाननाविकयुतं सुतपः प्रवेगं योज्यं च तद्भवजलोत्तरणे स्वकार्ये ॥ ७ दुष्प्राप एष खलु हस्तगतः क्षणोऽयं तुल्यं च तेन नहि वस्तु समस्ति किञ्चित् । सिद्धेश्व साधकतमो वरधर्मयोगस्तस्याऽपि साधनमसौ नरजन्मलाभः ॥ ८ मुक्तेः पदं मतिमतां नितरामभीष्टं नो सन्ति यज्जनिजरामरणानि तत्र । नाऽपि प्रियाप्रियपदार्थवियोगयोगा नैव क्षुधा न च तृषा न तथाऽन्यदोषाः ॥ s यत्राऽऽत्मनः स्थितिरहो परमस्वतन्त्रा रागादिदोषरहिता शिवशान्तरूपा । संसार एष किल तद्विपरीतरूपः प्रत्यक्षमेव परिवर्तनशीलधर्मा ॥ १० Jain Education International 59 For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy