SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पञ्चमं प्रव्रज्याफलसूत्रम् सिद्धिं समभ्युपगतो विधिना ह्यनेन ब्रह्मत्वमेष लभते वरमङ्गलाढ्यम् । क्षीणाशुभो जनिजरामरणादिमुक्तः कर्मानुबन्धकरशक्तिवियुग भवेच्च ॥ १ प्रोद्भूतशुद्धनिजरूपमयोऽक्रियश्च सांसिद्धिक प्रकृतिसंस्थित एष पूर्णः । ज्ञानं च दर्शनमनन्तमवाप्य सिद्धो लोकोत्तरं कमपि सल्लभते पदं सः ॥ २ शब्दो न रूपमपि नो न च गन्ध एषः स्पर्शों न वा न च रसः किल भाव्यतेऽसौ । सत्ता तु केवलमरूपवती प्रसिद्धा संस्थानमित्थमिति न व्यपदिश्यतेऽस्याः ॥३ वीर्यं त्वनन्तमपि चाऽत्र न कार्यशेषस्तस्मादिहाऽस्ति पमा कृतकृत्यता हि । बाधा भवन्ति विगताः खलु चाऽत्र सर्वाश्छिन्ना यदत्र सकला बत सन्त्यपेक्षाः ॥४ सत्ता किलेयमभितः स्तिमिता प्रशान्ता संयोगमुक्तमिति चात्र सुखं प्रकृष्टम् । आनन्द एष परमो विदुषां मतोऽस्ति दुःखस्य मूलमियमेव यतोऽस्त्यपेक्षा ॥ ५ ___ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy