SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ॥ चतुःशरणगमनम् ॥ (स्रग्धरावृत्तम्) पुण्यप्राग्भारपूर्णा भवजलतरणे पोतरूपा अचिन्त्यचिन्तारलोपमानास्त्रिभुवनगुरवो वीतरागा विमोहाः । सर्वज्ञाः क्षीणदोषाः सकलगुणयुता विश्ववात्सल्यसारा अर्हन्तो विश्वपूज्याः शरणमभिमतं सन्तु मे सर्वकालम् ॥६॥ प्रक्षीणाशेषदोषा निरुपमसुखिनो धूतकर्मप्रपञ्चाः रूपातीतस्वरूपा अविकलविलसद्दर्शन-ज्ञानरूपाः । निर्बन्धा नष्टबाधा अजनिमृतिजराः सिद्धिसौधाधिरूढाः सिद्धाः संसिद्धसाध्याः शरणमभिमतं सन्तु मे सर्वकालम् ॥७॥ पञ्चाचारप्रवीणाः प्रहितनिरतास्त्यक्तसावद्ययोगा ध्यानस्वाध्यायलीना वकमलनिभाः शान्तगम्भीरभावाः । निःसङ्गाः शुध्यमानस्वरसशुचिहृदो विश्वकल्याणकामाः सम्बुद्धाः साधवस्ते शरणमभिमतं सन्तु मे सर्वकालम् ॥८॥ त्रैलोक्ये माननीयः सुरनमहितः सर्वमाङ्गल्यहेतुः । सन्मत्रो दुष्टरागोरगविषशमने कर्मकाष्ठौघवह्निः । मिथ्यात्वध्वान्तभानुः शिवपदवरदः सर्वविद्भिः प्रणीतो धर्मोऽयं शर्मदाता शरणमभिमतं मे भवेत् सर्वकालम् ॥॥ ॥ दुष्कृतगर्हा ॥ (वसन्ततिलकावृत्तम्) स्वीकृत्य पावनमिदं शरणं चतुर्णां प्रक्षालयामि मम सञ्चितकल्मषाणि । यत्किञ्चिदप्यनुचितं मयका कृतं स्याद् गर्हामि दुष्कृतमिदं न पुनर्भजामि ॥१०॥ Jain Education International For Private 7 Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy