SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ एकान्त आपतति चेतरथा तु नूनमेकान्ततश्च विघटेत् सकला व्यवस्था । एष त्वनार्हत इति त्यजनीय एव सिद्धिश्च संभवति संसरतो हि जन्तोः ॥ २१ एकान्ततो न खलु सिध्यति बन्धनं हि मुक्तिश्च बन्धरहितस्य तु शब्दमात्रम् । जीवस्य बन्धनमिदं प्रवहत्यनादिकालादतीतसमयेन च तुल्यमेतत् ॥ २२ बद्धो न पूर्वमथ तस्य च बन्धनं चेद् । वैयर्थ्यमेव फलितं हि ततोऽस्य मुक्तेः । यस्मात् पुनश्च खलु संभवति प्रसङ्गो बन्धस्य चेति मतमेतदसाधु भाव्यम् ॥ २३ बद्धस्य बन्धवियुजश्च न तत्र भेदो बन्धे त्वनादिमति नाऽपि च मुक्त्यभावः । योगो ह्यनादिरपि नाशमुपैति नूनं न्यायोऽत्र काञ्चनमूदोर्विनियोजनीयः ॥ २४ पूर्वं तु बन्धरहितोऽस्ति ततो दिदृक्षा तस्याश्च बन्धनमिति प्रवदन्ति केचित् । नैवं यतो न घटते खलु साडप्यदृष्टे स्वाभाविकीति कथने न निवृत्तिरस्याः ॥ २५ 115 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy