SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ युक्तं भवेदिदमपि क्षणसान्वयत्वे न स्वीकृतं परमिदं क्षणवादपक्षे । मुक्ते: स्वरूपमिति सिध्यति नाऽत्र पक्षे सूक्ष्मोऽयमर्थ इति सूक्ष्मधिया विभाव्यः ॥ ३६ एवं ह्यपर्यवसितं सुखमत्र मोक्षे श्रेष्ठं किलैतदत एव सुखं प्रसिद्धम् । औत्सुक्यमत्र न समस्ति तु लेशमात्रं सौख्यं त्वनन्तमिति नाऽस्ति तुलाऽस्य लोके ॥ ३७ लोकाग्रसंस्थितविशुद्धतरप्रदेशे सिद्धा वसन्ति वरसिद्धशिलाख्यभूमौ । एकोऽस्ति यत्र खलु तत्र गता अनन्तास्तिष्ठन्ति शाश्वततयोज्झितकर्मणस्ते ॥ ३८ निष्कर्मणामपि गतिः पुनरुर्ध्वमेव पूर्वप्रयोगवशतो भवतीति बोध्यम् । अन्तर्जलं पतति लेपयुता ह्यलाबुलेपव्यये सहजमूर्ध्वमसौ यथेयात् ॥ ३९ ऊर्ध्वं ततोऽपि नहि याति च सिद्धजीवो नाऽधो गतागतमसौ कुरुते पुनश्च । ईदृक्स्वभावनियमोऽपि भवेदलाबुदृष्टान्ततो विशद इत्यवधारणीयम् ॥ ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy