SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ त्यक्त्वा समग्रामहितप्रवृत्तिं भजेयमुच्चैः स्वहितप्रवृत्तिम् । सर्वत्र कुर्वन्नुचितोपचारमिच्छामि कर्तुं सुकृतानि सम्यक् ॥ इच्छामि कर्तुं सुकृतानि सम्यक् । इच्छामि कर्तुं सुकृतानि सम्यक् ॥२६॥ (वसन्ततिलकावृत्तम्) एवं चतुःशरण-निन्दन-कीर्तनानां श्रुत्या स्फुटं पठनतः परिशीलनेन । पापानुबन्धिनिचयाः शिथिलीभवन्ति हानं क्रमादुपगताः क्षयमाप्नुवन्ति ॥२७॥ पापानि बाढमनुबन्धविनाकृतानि निःशक्तभावमधिगम्य शुभाशयेन् । अल्पं फलं ददति बद्धविषं यथा वा गत्वा सुख्खेन विलयं न पुनर्भवन्ति ॥२८॥ पुण्यानुबन्धनिचयाश्च दृढीभवन्ति पुष्यन्ति तेऽप्यभिनवाश्च समुद्भवन्ति । उत्कृष्टभावजनितं च शुभानुबन्धं कर्म प्रकूष्टफलदं भवति प्रभूतम् ॥२९॥ सम्यक्प्रयुक्तशुभभेषजवच्च सानुबन्धं नु कर्म नियमेन फले शुभं स्यात् । एवं विशिष्टतरपुण्यपथप्रवृत्त्या प्रान्तेऽप्यनुत्तरविमुक्तिसुखावहं स्यात् ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy