Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 10
________________ ७०८ योगशास्त्रे किमतोऽपि घृणास्थान मिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुबलिनि भरतोऽप्यस्त्रमक्षिपत् ॥ २ ॥ जयो यद् बाहुबन्तिनि भरते च पराजयः । जितांजितानां तत् सर्वमिन्द्रियाणां विजम्भितम् ॥ ३ ॥ यच्छस्त्राशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः । दुरन्तानामिन्द्रियाणां महिम्नानेन लज्जिताः ॥ ४ ॥ दण्डान्तां चण्डचरितैरिन्द्रियैः पशवो जनाः ।। शान्तमोहाः पूर्व विदो दण्ड्यन्ते यत् तदद्भुतम् ॥ ५ ॥ जिता हृषीकैरत्यन्तं देवदानवमानवाः । जुगुप्सितानि कर्माणि हो ! तन्वन्ति तपस्विनः ॥ ६ ॥ अखाद्यान्चपि खादन्त्यपेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति हृषीकवशगा नराः ॥ ७ ॥ वेश्यानां नौचकर्माणि दास्यान्यपि च कुर्वते । कुलशोलोज्झितास्त्यक्तकरुणैः करणेहताः ॥ ८ ॥ परट्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामतन्त्राणां विजम्भितम् ॥ ८ ॥ पाणिपादेन्द्रियच्छेदमरणानि शरीरिभिः । प्राप्यन्ते यद्दशात् तेभ्यः करणेभ्यो नमो नमः ॥ १० ॥ विनयं ग्राहयन्त्यन्यान् ये स्वयं करणैर्जिताः । पिधाय पाणिना वक्त्रं तान् हमन्ति विवेकिनः ॥ ११ ॥ आ विरिञ्चादा च कोटाद ये केचिदिह जन्तवः । विमुच्येकं वीतरागं ते सर्वेऽपौन्द्रियैर्जिताः ॥ १२ ॥ २७ ॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102