Book Title: Yogshastra Part 06
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
६१४
योगशास्त्रे
पुभिः पुरुषधर्मोपेतैर्योगिभिः किंविशिष्टै निर्वाण पदकाझिभिः निर्वान्ति रागद्देषोपतप्ता: शौतीभवन्त्यस्मिन्निति निर्वाणं तदेव पद्यमानत्वात् पदं तत्काणशीला निर्वाणपदकाङ्गिणः, ते. विधातव्यो विधेयो रागद्देषावेवोपतापकारित्वाद् द्विषन्तौ तयोर्जयोऽभिभवः केनोपायेनेत्याह समत्वेन, रागहेतुषु देषहेतुषु च माध्यस्थ्ये नौदासौन्येनेति यावत् ॥ ४८ ॥ यथा साम्यं रागद्देषजयोपायस्तथाऽऽहअमन्दानन्दजनने साम्यवारिणि मज्जताम् ।
जायते सहसा पुंसां रागद्देषमलक्षयः ॥ ५० ॥ __ साम्यमेवातिशीतीभावजनकत्वाद् वारि। तत्र किं विशिष्टे, अमन्दस्तोत्रो य आनन्द आह्वादस्तस्य जनने मज्जतां तन्मध्यमवगाहमानानां सहसा अकस्मात् केषां पुंसां रागहेषाव मलस्तस्य भयः। प्रसिद्धमेतद् यथा वारिणि मज्जतां मलक्षयो भवति, एवं साम्ये निमज्जतां लीयमानानां रागद्देषक्षयो भवति ॥ ५० ॥ - न पर रागद्देषयोरेवापनायकं साम्यम्, अपि तु सर्वकर्मणामपौत्याह
प्रणिहन्ति क्षणार्धन साम्यमालम्बा कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥५१॥ प्रणिहन्ति निहन्ति क्षणार्धनान्तर्मुहतेन साम्यमुक्तलक्षणमालम्ब्याश्रित्य तत् कर्म ज्ञानावरणीयादि, यत् किञ्चित् कर्म न हन्याद नापनयेद नरः पुमान् तीव्रतपसा तोत्रेण शरौरमनसोः
Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102