SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ६१४ योगशास्त्रे पुभिः पुरुषधर्मोपेतैर्योगिभिः किंविशिष्टै निर्वाण पदकाझिभिः निर्वान्ति रागद्देषोपतप्ता: शौतीभवन्त्यस्मिन्निति निर्वाणं तदेव पद्यमानत्वात् पदं तत्काणशीला निर्वाणपदकाङ्गिणः, ते. विधातव्यो विधेयो रागद्देषावेवोपतापकारित्वाद् द्विषन्तौ तयोर्जयोऽभिभवः केनोपायेनेत्याह समत्वेन, रागहेतुषु देषहेतुषु च माध्यस्थ्ये नौदासौन्येनेति यावत् ॥ ४८ ॥ यथा साम्यं रागद्देषजयोपायस्तथाऽऽहअमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां रागद्देषमलक्षयः ॥ ५० ॥ __ साम्यमेवातिशीतीभावजनकत्वाद् वारि। तत्र किं विशिष्टे, अमन्दस्तोत्रो य आनन्द आह्वादस्तस्य जनने मज्जतां तन्मध्यमवगाहमानानां सहसा अकस्मात् केषां पुंसां रागहेषाव मलस्तस्य भयः। प्रसिद्धमेतद् यथा वारिणि मज्जतां मलक्षयो भवति, एवं साम्ये निमज्जतां लीयमानानां रागद्देषक्षयो भवति ॥ ५० ॥ - न पर रागद्देषयोरेवापनायकं साम्यम्, अपि तु सर्वकर्मणामपौत्याह प्रणिहन्ति क्षणार्धन साम्यमालम्बा कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥५१॥ प्रणिहन्ति निहन्ति क्षणार्धनान्तर्मुहतेन साम्यमुक्तलक्षणमालम्ब्याश्रित्य तत् कर्म ज्ञानावरणीयादि, यत् किञ्चित् कर्म न हन्याद नापनयेद नरः पुमान् तीव्रतपसा तोत्रेण शरौरमनसोः
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy