________________
चतुर्थः प्रकाशः ।
८१५ संतापहेतुनाऽनशनादिरूपेणार्थात् साम्यरहितेन जन्मकोटिभिबहुभिरपि जन्मभिः ॥ ५१॥ कथमन्तर्मुहर्तमात्रेण साम्यं सर्वकर्मापनायकमित्याह-.... कर्म जौवं च संश्लिष्टं परिज्ञातात्मनिश्चयः । विभिन्नीकुरुते साधुः सामायिकशलाकया ॥५२॥
सामायिकमेव समत्वमेव शलाका वंशादिमयो तया विभिन्नीकुरुते पृथक् करोति साधुर्यतिः। किं विभिन्नीकुरुते ? । कर्म जीवं च संश्लिष्टं संपृक्तम्, यथा श्लेषद्रव्यसंपृक्तानां पानादीनां शलाकया पृथग्भावः क्रियते तथा जीवकर्मगोरपि तादात्म्येन संबडयोः सामायिकेनेति । अयमेव कर्मक्षयः। न हि कर्मपुङ्गलानामात्यन्तिकः क्षयः संभवति, नित्यत्वात् तेषाम्, आत्मनस्तु पृथग्भूतानि . कर्माणि क्षीणानि इत्युच्यन्ते । ननु वामात्रमेतद् यत् सामायिकशलाकया साधुः कर्माणि पृथक् करोतोत्याह - परिजातात्मनिश्चयः परिजातः पुन: पुन: संविदित आत्मनिश्चय आत्मनिर्णयो येन स तथा। अयमर्थ:-आत्मज्ञानमभ्यस्यंस्तथाविधावरणापगमेन तथा पुनः पुनः वसंवेदनेनात्मनिश्चयं दृढं करोति यथामरूपाद भिवरूपाणि अात्मरूपावारकाणि च कर्माणि परमसामायिकबलेन निर्जरयति ॥५२॥
न केवलमात्मनिश्चयबलेन कर्माणि पृथक् करोति यावदात्मनि परमात्मदर्शनमपि भवतीत्याह
रागादिध्वान्तविध्वंसे कृते सामायिकांशुना। खस्मिन् वरूपं पश्यन्ति योगिनः परमात्मनः ॥५३॥