________________
८१६
.
योगशास्त्रे
रागादय एव . खरूपतिरोधायकत्वाद् ध्वान्तं तस्य विध्वंसस्तस्मिन् क्वते। केन ?। सामायिकमेवांशरादित्यस्तेन । तत: किं स्यात् ?। स्वस्मिन्त्रात्मनि परमात्मन: स्वरूपं योगिनः पश्यन्ति। सर्वेऽपि ह्यात्मानस्तत्त्वत: परमात्मान एव, केवल. ज्ञानस्य येन तेनांशेन सर्वत्र भावात्, यत् पारमर्षम्—'सव्व जीवाणं पि अ णं अक्सरमाणं तभागो निच्चग्याडिपो चेव । केवलं रागद्देषादिदोषकलुषितत्वाद् न साक्षात् परमात्मस्वरूपाभिव्यक्तिः। सामायिकांशमप्रकाशनन तु रागादितिमिरेऽपगते पात्मन्येव परमात्मस्वरूपमाभिव्यक्तं भवति ॥ ५३॥
इदानी साम्यप्रभावं व्यनक्तिस्निह्यन्ति जन्तवो नित्यं वैरिणोऽपि परस्परम् । ।
अपि स्वार्थकृते साम्यभाज: साधोः प्रभावतः ॥५४॥ : अपि स्वार्थक्वते स्वार्थनिमित्तमपि साम्यवतः साधोः प्रभावाद नित्यवैरिणोऽप्यहिनकुलादयः नियन्ति परस्परं मैचों कुर्वन्ति । अयमर्थः-ईदृश: साम्यस्य महिमा यदेतत् स्वनिमित्तं कृतमपि परेषु नित्ववैरिषु पर्यवस्थति, यत् स्तुवन्ति विद्वांसःदेवाकष्य करेण केशरिपदं दन्तौ कपोलस्थलों
कण्ड्यत्यहिरेष बचपुरतो मार्ग निरुध्य स्थितः । व्याघ्रव्यात्तविशालवक्तकुहरं जिघ्रत्यजस्रं मृगो
. यौवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भुवम् ॥ १ ॥
(१) सर्वजीवानामप्यक्षरस्थानन्तभागो नित्योद्घाटित एव ।