________________
चतुर्थः प्रकाशः।
८१७ लौकिका अपि साम्यवतां योगिनां स्तुतिमाहुर्यथा---तत्सन्निधौ वैरत्याग इति। अत्रान्तरश्लोका:----
चेतनाचेतनैर्भावरिष्टानिष्टतया स्थितैः । । न मुह्यति मनो यस्य तस्य साम्यं प्रचक्षते ॥ १ ॥ . गोशीर्षचन्दनालेपे वासोच्छेदे च वाहयोः । अभिन्ना चित्तहत्तिश्चेत् तदा साम्यमनुत्तरम् ॥ २ ॥ अभिष्टोतरि च प्रोते रोषान्धे चापि शप्तरि । यस्याविशेषणं चेतः स साम्यमवगाहते ॥ ३ ॥ न हूयते तप्यते न दीयते वा न किञ्चन । अहो ! अमूल्यकोतीयं साम्यमात्रेण निर्वतिः ॥ ४ ॥ प्रयत्न कष्टः क्लिष्टैश्च रागाद्यैः किमुपासितैः । । प्रयत्नलम्यं हृद्यं च श्रय साम्यं सुखावहम् ॥ ५ ॥ ... परोक्षार्थप्रतिक्षेपात् स्वर्गमोक्षावपङ्गताम् । साम्यशर्म स्वसंवेद्यां नास्तिकोऽपि न निगुते ॥ ६ ॥ कविप्रलापरूढेऽस्मिन्नमते किं विमुह्यसि ?। स्वसंवेद्यरसं मूढ ! पिब साम्यरसायनम् ॥ ७॥ . खाद्यलेह्यभूष्यपयरसेभ्यी विमुखा अपि । पिबन्ति यतयः खैरं साम्यामृतरसं मुहुः ॥ ८ ॥ . कण्ठपीठे लुठन् भोगिभोगो मन्दारदाम च। यस्याप्रीत्यै नवा नो वा प्रीत्यै स समतापतिः ॥८॥ न गूढं किञ्चनाचार्य मुष्टिः काचिद् न चापरा। .. बालानां सुधियां चैकं साम्यं भवरुजौषधम् ॥ १० ॥